(हीनवर्णस्य संसर्गं तीर्थे गत्वा सदा त्यजेत् ।) ॥ भूतानुकम्पनं चैव कर्तव्यं कर्मणा धिया । यदि पृच्छसि राजेन्द्र तीर्थं वक्ष्याम्यनुत्तमम्
प्रथमं नैमिषं पुण्यं चक्रतीर्थं च पुष्करम् । अन्येषां चैव तीर्थानां संख्या नास्ति महीतले
पावनानि च स्थानानि बहूनि नृपसत्तम । व्यास उवाच तच्छ्रुत्वा वचनं राजा नैमिषं गन्तुमुद्यतः
नोदयामास दैत्यान्वै हर्षनिर्भरमानसः । प्रह्लाद उवाच उत्तिष्ठन्तु महाभागा गमिष्यामोऽद्य नैमिषम्
द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् । व्यास उवाच इत्युक्ता विष्णुभक्तेन सर्वे ते दानवास्तदा
तेनैव सह पातालान्निर्ययुः परया मुदा । ते समेत्य च दैतेया दानवाश्च महाबलाः
नैमिषारण्यमासाद्य स्नानं चक्रुर्मुदान्विताः । प्रह्लादस्तत्र तीर्थेषु चरन्दैत्यैः समन्वितः
सरस्वतीं महापुण्यां ददर्श विमलोदकाम् । तीर्थे तत्र नृपश्रेष्ठ प्रह्लादस्य महात्मनः
मनः प्रसन्नं सञ्जातं स्नात्वा सारस्वते जले । विधिवत्तत्र दैत्येन्द्रः स्नानदानादिकं शुभे
चकारातिप्रसन्नात्मा तीर्थे परमपावने
प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् व्यास उवाच कुर्वंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः । न्यग्रोधं सुमहच्छायमपश्यत्पुरतस्तदा
ददर्श बाणानपरान्नानाजातीयकांस्तदा । गृध्रपक्षयुतांस्तीव्राच्छिलाधौतान्महोज्वलान्
चिन्तयामास मनसा कस्येमे विशिखास्त्विह । ऋषीणामाश्रमे पुण्ये तीर्थे परमपावने
एवं चिन्तयतानेन कृष्णाजिनधरौ मुनी । समुन्नतजटाभारौ दृष्टौ धर्मसुतौ तदा
तयोरग्रे धृते शुभ्रे धनुषी लक्षणान्विते । शार्ङ्गमाजगवञ्चैव तथाक्षय्यौ महेषुधी
ध्यानस्थौ तौ महाभागौ नरनारायणावृषी । दृष्ट्वा धर्मसुतौ तत्र दैत्यानामधिपस्तदा
क्रोधरक्तेक्षणस्तौ तु प्रोवाचासुरपालकः । किं भवद्भ्यां समारब्धो दम्भो धर्मविनाशनः
न श्रुतं नैव दृष्टं हि संसारेऽस्मिन्कदापि हि । तपसश्चरणं तीव्रं तथा चापस्य धारणम्
विरोधोऽयं युगे चाद्ये कथं युक्तं कलिप्रियम् । ब्राह्मणस्य तपो युक्तं तत्र किं चापधारणम्
क्व जटाधारणं देहे क्वेषुधी च विडम्बनौ । धर्मस्याचरणं युक्तं युवयोर्दिव्यभावयोः
व्यास उवाच इति तस्य वचः श्रुत्वा नरः प्रोवाच भारत । का ते चिन्तात्र दैत्येन्द्र वृथा तपसि चावयोः
सामर्थ्ये सति यत्कुर्यात्तत्संपद्येत तस्य हि । आवां कार्यद्वये मन्द समर्थौ लोकविश्रुतौ
युद्धे तपसि सामर्थ्यं त्वं पुनः किं करिष्यसि । गच्छ मार्गे यथाकामं कस्मादत्र विकत्थसे
ब्रह्मतेजो दुराराध्यं न त्वं वेद विमोहितः । विप्रचर्चा न कर्तव्या प्राणिभिः सुखमीप्सुभिः
प्रह्लाद उवाच तापसौ मन्दबुद्धी स्थो मृषा वां गर्वमोहितौ । मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके
न युक्तमेतत्तीर्थेऽस्मिन्नधर्माचरणं पुनः । का शक्तिस्तव युद्धेऽस्ति दर्शयाद्य तपोधन
व्यास उवाच तदाकर्ण्य वचस्तस्य नरस्तं प्रत्युवाच ह । युद्धस्वाद्य मया सार्धं यदि ते मतिरीदृशी
अद्य ते स्फोटयिष्यामि मूर्धानमसुराधम । ( युद्धे श्रद्धा न ते पश्चाद्भविष्यति कदाचन ।)
प्रह्लादो बलवानत्र प्रतिज्ञामारुरोह सः । येन केनाप्युपायेन जेष्यामि तावुभावपि
नरनारायणौ दान्तावृषी तपिसमन्वितौ । व्यास उवाच इत्युक्त्वा वचनं दैत्यः प्रतिगृह्य शरासनम्