प्रथमं चेन्मनः शुद्धं जातं पापविवर्जितम् । तदा तीर्थानि सर्वाणि पावनानि भवन्ति वै
गङ्गातीरे हि सर्वत्र वसन्ति नगराणि च । व्रजाश्चैवाकरा ग्रामाः सर्वे खेटास्तथापरे
निषादानां निवासाश्च कैवर्तानां तथापरे । हूणबङ्गखसानां च म्लेच्छानां दैत्यसत्तम
पिबन्ति सर्वदा गाङ्गं जलं ब्रह्मोपमं सदा । स्नानं कुर्वन्ति दैत्येन्द्र त्रिकालं स्वेच्छया जनाः
तत्रैकोऽपि विशुद्धात्मा न भवत्येव मारिष । किं फलं तर्हि तीर्थस्य विषयोपहतात्मसु
कारणं मन एवात्र नान्यद्राजन्विचिन्तय । मनःशुद्धिं प्रकर्तव्या सततं शुद्धिमिच्छता
तीर्थवासी महापापी भवेत्तत्रात्मवञ्चनात् । तत्रैवाचरितं पापमानन्त्याय प्रकल्पते
यथेन्द्रवारुणं पक्वं मिष्टं नैवोपजायते । भावदुष्टस्तथा तीर्थे कोटिस्तातो न शुध्यति
प्रथमं मनसः शुद्धिः कर्तव्या शुभमिच्छता । शुद्धे मनसि द्रव्यस्य शुद्धिर्भवति नान्यथा
तथैवाचारशुद्धिः स्यात्ततस्तीर्थं प्रसिध्यति । अन्यथा तु कृतं सर्वं व्यर्थं भवति तत्क्षणात्
(हीनवर्णस्य संसर्गं तीर्थे गत्वा सदा त्यजेत् ।) ॥ भूतानुकम्पनं चैव कर्तव्यं कर्मणा धिया । यदि पृच्छसि राजेन्द्र तीर्थं वक्ष्याम्यनुत्तमम्
प्रथमं नैमिषं पुण्यं चक्रतीर्थं च पुष्करम् । अन्येषां चैव तीर्थानां संख्या नास्ति महीतले
पावनानि च स्थानानि बहूनि नृपसत्तम । व्यास उवाच तच्छ्रुत्वा वचनं राजा नैमिषं गन्तुमुद्यतः
नोदयामास दैत्यान्वै हर्षनिर्भरमानसः । प्रह्लाद उवाच उत्तिष्ठन्तु महाभागा गमिष्यामोऽद्य नैमिषम्
द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् । व्यास उवाच इत्युक्ता विष्णुभक्तेन सर्वे ते दानवास्तदा
तेनैव सह पातालान्निर्ययुः परया मुदा । ते समेत्य च दैतेया दानवाश्च महाबलाः
नैमिषारण्यमासाद्य स्नानं चक्रुर्मुदान्विताः । प्रह्लादस्तत्र तीर्थेषु चरन्दैत्यैः समन्वितः
सरस्वतीं महापुण्यां ददर्श विमलोदकाम् । तीर्थे तत्र नृपश्रेष्ठ प्रह्लादस्य महात्मनः
मनः प्रसन्नं सञ्जातं स्नात्वा सारस्वते जले । विधिवत्तत्र दैत्येन्द्रः स्नानदानादिकं शुभे
चकारातिप्रसन्नात्मा तीर्थे परमपावने
प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् व्यास उवाच कुर्वंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः । न्यग्रोधं सुमहच्छायमपश्यत्पुरतस्तदा
ददर्श बाणानपरान्नानाजातीयकांस्तदा । गृध्रपक्षयुतांस्तीव्राच्छिलाधौतान्महोज्वलान्
चिन्तयामास मनसा कस्येमे विशिखास्त्विह । ऋषीणामाश्रमे पुण्ये तीर्थे परमपावने
एवं चिन्तयतानेन कृष्णाजिनधरौ मुनी । समुन्नतजटाभारौ दृष्टौ धर्मसुतौ तदा
तयोरग्रे धृते शुभ्रे धनुषी लक्षणान्विते । शार्ङ्गमाजगवञ्चैव तथाक्षय्यौ महेषुधी
ध्यानस्थौ तौ महाभागौ नरनारायणावृषी । दृष्ट्वा धर्मसुतौ तत्र दैत्यानामधिपस्तदा
क्रोधरक्तेक्षणस्तौ तु प्रोवाचासुरपालकः । किं भवद्भ्यां समारब्धो दम्भो धर्मविनाशनः
न श्रुतं नैव दृष्टं हि संसारेऽस्मिन्कदापि हि । तपसश्चरणं तीव्रं तथा चापस्य धारणम्
विरोधोऽयं युगे चाद्ये कथं युक्तं कलिप्रियम् । ब्राह्मणस्य तपो युक्तं तत्र किं चापधारणम्
क्व जटाधारणं देहे क्वेषुधी च विडम्बनौ । धर्मस्याचरणं युक्तं युवयोर्दिव्यभावयोः