तस्मिञ्छासति दैत्येन्द्रे देवब्राह्मणपूजके । मखैर्भूमौ नृपतयो यजन्तः श्रद्धयान्विताः
ब्राह्मणाश्च तपोधर्मतीर्थयात्राश्च कुर्वते । वैश्याश्च स्वस्ववृत्तिस्थाः शूद्राः शुश्रूषणे रताः
नृसिंहेन च पाताले स्थापितः सोऽथ दैत्यराट् । राज्यं चकार तत्रैव प्रजापालनतत्परः
कदाचिद् भृगुपुत्रोऽथ च्यवनाख्यो महातपाः । जगाम नर्मदां स्नातुं तीर्थं वै व्याहृतीश्वरम्
रेवां महानदीं दृष्ट्वा ततस्तस्यामवातरत् । उत्तरन्तं प्रजग्राह नागो विषभयङ्करः
गृहीतो भयभीतस्तु पाताले मुनिसत्तमः । सस्मार मनसा विष्णुं देवदेवं जनार्दनम्
संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः । न प्राप च्यवनो दुःखं नीयमानो रसातलम्
द्विजिह्वेन मुनिस्त्यक्तो निर्विण्णेनातिशङ्किना । मां शपेत मुनिः कुद्धस्तापसोऽयं महानिति
चचार नागकन्याभिः पूजितो मुनिसत्तमः । विवेशाप्यथ नागानां दानवानां महत्पुरम्
कदाचिद्भृगुपुत्रं तं विचरन्तं पुरोत्तमे । ददर्श दैत्यराजोऽसौ प्रह्लादो धर्मवत्सलः
दृष्ट्वा तं पूजयामास मुनिं दैत्यपतिस्तदा । पप्रच्छ कारणं किं ते पातालागमने वद
प्रेषितोऽसि किमिन्द्रेण सत्यं ब्रूहि द्विजोत्तम । दैत्यविद्वेषयुक्तेन मम राज्यदिदृक्षया
च्यवन उवाच किं मे मघवता राजन् यदहं प्रेषितः पुनः । दूतकार्यं प्रकुर्वाणः प्राप्तवान्नगरे तव
विद्धि मां भृगुपुत्रं तं स्वनेत्रं धर्मतत्परम् । मा शङ्कां कुरु दैत्येन्द्र वासवप्रेषितस्य वै
स्नानार्थं नर्मदां प्राप्तः पुण्यतीर्थे नृपोत्तम । नद्यामेवावतीर्णोऽहं गृहीतश्च महाहिना
जातोऽसौ निर्विषः सर्पो विष्णोः संस्मरणादिव । मुक्तोऽहं तेन नागेन प्रभावात्स्मरणस्य वै
अत्रागतेन राजेन्द्र मयाप्तं तव दर्शनम् । विष्णुभक्तोऽसि दैत्येन्द्र तद्भक्तं मां विचिन्तय
व्यास उवाच तन्निशम्य वचः श्लक्ष्णं हिरण्यकशिपोः सुतः । पप्रच्छ परया प्रीत्या तीर्थानि विविधानि च
प्रह्लाद उवाच पृथिव्यां कानि तीर्थानि पुण्यानि मुनिसत्तम । पाताले च तथाकाशे तानि नो वद विस्तरात्
च्यवन उवाच मनोवाक्कायशुद्धानां राजंस्तीर्थं पदे पदे । तथा मलिनचित्तानां गङ्गापि कीकटाधिका
प्रथमं चेन्मनः शुद्धं जातं पापविवर्जितम् । तदा तीर्थानि सर्वाणि पावनानि भवन्ति वै
गङ्गातीरे हि सर्वत्र वसन्ति नगराणि च । व्रजाश्चैवाकरा ग्रामाः सर्वे खेटास्तथापरे
निषादानां निवासाश्च कैवर्तानां तथापरे । हूणबङ्गखसानां च म्लेच्छानां दैत्यसत्तम
पिबन्ति सर्वदा गाङ्गं जलं ब्रह्मोपमं सदा । स्नानं कुर्वन्ति दैत्येन्द्र त्रिकालं स्वेच्छया जनाः
तत्रैकोऽपि विशुद्धात्मा न भवत्येव मारिष । किं फलं तर्हि तीर्थस्य विषयोपहतात्मसु
कारणं मन एवात्र नान्यद्राजन्विचिन्तय । मनःशुद्धिं प्रकर्तव्या सततं शुद्धिमिच्छता
तीर्थवासी महापापी भवेत्तत्रात्मवञ्चनात् । तत्रैवाचरितं पापमानन्त्याय प्रकल्पते
यथेन्द्रवारुणं पक्वं मिष्टं नैवोपजायते । भावदुष्टस्तथा तीर्थे कोटिस्तातो न शुध्यति
प्रथमं मनसः शुद्धिः कर्तव्या शुभमिच्छता । शुद्धे मनसि द्रव्यस्य शुद्धिर्भवति नान्यथा
तथैवाचारशुद्धिः स्यात्ततस्तीर्थं प्रसिध्यति । अन्यथा तु कृतं सर्वं व्यर्थं भवति तत्क्षणात्