विद्धोऽत्रास्ति च धर्मोऽपि का कथाद्य कलौ पुनः । स्पर्धा सदैव सद्रोहा लोभामर्षौ च सर्वदा
एवंविधोऽस्ति संसारो नात्र कार्या विचारणा । साधवो विरला लोके भवन्ति गतमत्सराः
जितक्रोधा जितामर्षा दृष्टान्तार्थं व्यवस्थिताः । राजोवाच ते धन्याः कृतपुण्यास्ते मदमोहविवर्जिताः
जितेन्द्रियाः सदाचारा जितं तैर्भुवनत्रयम् । दुनोमि पातकं स्मृत्वा पितुर्मम महात्मनः
कृतस्तपस्विनः कण्ठे मृतसर्पो ह्यघं विना । अतस्तस्य मुनिश्रेष्ठ भविता किं ममाग्रतः
न जाने बुद्धिसम्मोहात्किं वा कार्यं भविष्यति । मधु पश्यति मूढात्मा प्रपातं नैव पश्यति
करोति निन्दितं कर्म नरकान्न बिभेति च । कथं युद्धं पुरा वृत्तं विस्तरात्तद्वदस्व मे
प्रह्लादेन यथा चोग्रं नरनारायणस्य वै । प्रह्लादस्तु कथं यातः पातालात्तद्वदस्व मे
सारस्वते महातीर्थे पुण्ये बदरिकाश्रमे । नरनारायणौ शान्तौ तापसौ मुनिसत्तमौ
कृतवन्तौ तथा युद्धं हेतुना केन मानद । वैरं भवति वित्तार्थं दारार्थं वा परस्परम्
एषणारहितौ कस्माच्चक्रतुः प्रधनं महत् । प्रह्लादोऽपि च धर्मात्मा ज्ञात्वा देवौ सनातनौ
कृतवान्स कथं युद्धं नरनारायणौ मुनी । एतद्विस्तरतो ब्रह्मञ्छ्रोतुमिच्छामि कारणम्
प्रह्लादतीर्थयात्रावर्णनम् सूत उवाच इति पृष्टस्तदा विप्रो राज्ञा पारीक्षितेन वै । उवाच विस्तरात्सर्वं व्यासः सत्यवतीसुतः
जनमेजयोऽपि धर्मात्मा निर्वेदं परमं गतः । चित्तं दुश्चरितं मत्वा वैराटीतनयस्य वै
तस्यैवोद्धरणार्थाय चकार सततं मनः । विप्रावमानपापेन यमलोकं गतस्य वै
पुन्नामनरकाद्यस्मात्त्रायते पितरं स्वकम् । पुत्रेति नाम सार्थं स्यात्तेन तस्य मुनीश्वराः
सर्पदष्टं नृपं श्रुत्वा हर्म्योपरि मृतं तथा । विप्रशापादौत्तरेयं स्नानदानविवर्जितम्
पितुर्गतिं निशम्यासौ निर्वेदं गतवान्नृपः । पारीक्षितो महाभागः सन्तप्तो भयविह्वलः
पप्रच्छाथ मुनिं व्यासं गृहागतमनिन्दितः । नरनारायणस्येमां कथां परमविस्मृताम्
व्यास उवाच स यदा निहतो रौद्रो हिरण्यकशिपुर्नृप । अभिषिक्तस्तदा राज्ये प्रह्लादो नाम तत्सुतः
तस्मिञ्छासति दैत्येन्द्रे देवब्राह्मणपूजके । मखैर्भूमौ नृपतयो यजन्तः श्रद्धयान्विताः
ब्राह्मणाश्च तपोधर्मतीर्थयात्राश्च कुर्वते । वैश्याश्च स्वस्ववृत्तिस्थाः शूद्राः शुश्रूषणे रताः
नृसिंहेन च पाताले स्थापितः सोऽथ दैत्यराट् । राज्यं चकार तत्रैव प्रजापालनतत्परः
कदाचिद् भृगुपुत्रोऽथ च्यवनाख्यो महातपाः । जगाम नर्मदां स्नातुं तीर्थं वै व्याहृतीश्वरम्
रेवां महानदीं दृष्ट्वा ततस्तस्यामवातरत् । उत्तरन्तं प्रजग्राह नागो विषभयङ्करः
गृहीतो भयभीतस्तु पाताले मुनिसत्तमः । सस्मार मनसा विष्णुं देवदेवं जनार्दनम्
संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः । न प्राप च्यवनो दुःखं नीयमानो रसातलम्
द्विजिह्वेन मुनिस्त्यक्तो निर्विण्णेनातिशङ्किना । मां शपेत मुनिः कुद्धस्तापसोऽयं महानिति
चचार नागकन्याभिः पूजितो मुनिसत्तमः । विवेशाप्यथ नागानां दानवानां महत्पुरम्
कदाचिद्भृगुपुत्रं तं विचरन्तं पुरोत्तमे । ददर्श दैत्यराजोऽसौ प्रह्लादो धर्मवत्सलः