शान्तं भावं समाश्रित्य नाशयाहङ्कृतिं पराम् । पुराहङ्कारदोषेण तपो नष्टं किलावयोः
संग्रामश्चाभवत्ताभ्यां भावाभ्यामसुरेण ह । दिव्यवर्षसहस्रं तु प्रह्लादेन महाद्भुतम्
दुःखं बहुतरं प्राप्तं तत्रावाभ्यां सुरोत्तम । तस्मात्क्रोधं परित्यज्य शान्तो भव मुनीश्वर
( शान्तत्वं तपसो मूलं मुनिभिः परिकीर्तितम् ।) ॥ व्यास उवाच इति तस्य वचः श्रुत्वा शान्तोऽभूद्धर्मनन्दनः । जनमेजय उवाच संशयोऽयं मुनिश्रेष्ठ प्रह्लादेन महात्मना
विष्णुभक्तेन शान्तेन कथं युद्धं कृतं पुरा । कृतवन्तौ कथं युद्धं नरनारायणावृषी
तापसौ धर्मपुत्रौ द्वौ सुशान्तमानसावुभौ । समागमः कथं जातस्तयोर्दैत्यसुतस्य च
संग्रामस्तु कथं ताभ्यां कृतस्तेन महात्मना । प्रह्लादोऽप्यतिधर्मात्मा ज्ञानवान्विष्णुतत्परः
नरनारायणौ तद्वत्तापसौ सत्त्वसंस्थितौ । तेन ताभ्यां समुद्भूतं वैरं यदि परस्परम्
तदा तपसि धर्मे च श्रम एव हि केवलम् । क्व जपः क्व तपश्चर्या पुरा सत्ययुगेऽपि च
तादृशैर्न जितं चित्तं क्रोधाहङ्कारसंवृतम् । न क्रोधो न च मात्सर्यमहङ्कारांकुरं विना
अहङ्कारात्समुत्पन्नाः कामक्रोधादयः किल । वर्षकोटिसहस्रं तु तपः कृत्वातिदारुणम्
अहङ्कारांकुरे जाते व्यर्थं भवति सर्वथा । यथा सूर्योदये जाते तमोरूपं न तिष्ठति
अहङ्कारांकुरस्याग्रे तथा पुण्यं न तिष्ठति । प्रह्लादोऽपि महाभाग हरिणा समयुध्यत
तदा व्यर्थं कृतं सर्वं सुकृतं किल भूतले । नरनारायणौ शान्तौ विहाय परमं तपः
कृतवन्तौ यदा युद्धं क्व शमः सुकृतं पुनः । ईदृग्भ्यां सत्त्वयुक्ताभ्यामजेया यद्यहङ्कृतिः
मादृशानाञ्ज का वार्ता मुनेऽहङ्कारसंक्षये । अहङ्कारपरित्यक्तो न कोऽप्यस्ति जगत्त्रये
न भूतो भविता नैव यस्त्यक्तस्तेन सर्वथा । मुच्यते लोहनिगडैर्बद्धः काष्ठमयैस्तथा
अहङ्कारनिबद्धस्तु न कदाचिद्विमुच्यते । अहङ्कारावृतं सर्वं जगत्स्थावरजङ्गमम्
भ्रमत्येव हि संसारे विष्ठामूत्रप्रदूषिते । ब्रह्मज्ञानं कुतस्तावत्संसारे मोहसंवृते
मतं मीमांसकानां वै सम्मतं भाति सुव्रत । महान्तोऽपि सदा युक्ताः कामक्रोधादिभिर्मुने
मादृशानां कलावस्मिन्का कथा मुनिसत्तम । व्यास उवाच कार्यं वै कारणाद्भिन्नं कथं भवति भारत
कटकं कुण्डलञ्चैव सुवर्णसदृशं भवेत् । अहङ्कारोद्भवं सर्वं ब्रह्माण्डं सचराचरम्
पटस्तन्तुवशः प्रोक्तस्तद्वियुक्तः कथं भवेत् । मायागुणैस्त्रिभिः सर्वं रचितं स्थिरजङ्गमम्
सतृणस्तम्बपर्यन्तं का तत्र परिदेवना । ब्रह्मा विष्णुस्तथा रुद्रस्ते चाहङ्कारमोहिताः
भ्रमन्त्यस्मिन्महागाधे संसारे नृपसत्तम । वसिष्ठनारदाद्याश्च मुनयो ज्ञानिनः परम्
तेऽभिभूताः संसरन्ति संसारेऽस्मिन्पुनः पुनः । न कोऽप्यस्ति नृपश्रेष्ठ त्रिषु लोकेषु देहभृत्
एभिर्मायागुणैर्मुक्तः शान्त आत्मसुखे स्थितः । कामक्रोधौ तथा लोभो मोहोऽहङ्कारसम्भवः
न मुञ्चन्ति नरं सर्वं देहवन्तं नृपोत्तम । अधीत्य वेदशास्त्राणि पुराणानि विचिन्त्य च
कृत्वा तीर्थाटनं दानं ध्यानञ्चैव सुरार्चनम् । करोति विषयासक्तः सर्वं कर्म च चौरवत्
विचारयति नो पूर्वं काममोहमदान्वितः । कृते युगेऽपि त्रेतायां द्वापरे कुरुनन्दन