कामार्तानाञ्च मुनिभिर्धर्मज्ञैस्तत्त्वदर्शिभिः । भाग्ययोगादिह प्राप्ताः स्वर्गात्प्रेमपरिप्लुताः
त्यक्तुं नार्हसि देवेश समर्थोऽसि जगत्पते । नारायण उवाच पूर्णं वर्षसहस्रं तु तपस्तप्तं मयात्र वै
जितेन्द्रियेण चार्वङ्ग्यः कथं भङ्गं करोम्यतः । नेच्छा कामे सुखे काचित्सुखधर्मविनाशके
पशूनामपि साधर्म्ये रमेत मतिमान्कथम् । अप्सरस ऊचुः शब्दादीनां च पञ्चानां मध्ये स्पर्शसुखं वरम्
आनन्दरसमूलं वै नान्यदस्ति सुखं किल । अतोऽस्माकं महाराज वचनं कुरु सर्वथा
निर्भरं सुखमासाद्य चरस्व गन्धमादने । यदि वाञ्छसि नाकत्वं नाधिको गन्धमादनात्
रमस्वात्र शुभे स्थाने प्राप्य सर्वाः सुराङ्गनाः
अहङ्कारावर्तनवर्णनम् व्यास उवाच इत्याकर्ण्य वचस्तासां धर्मपुत्रः प्रतापवान् । विमर्शमकरोच्चित्ते किं कर्तव्यं मयाधुना
हास्योऽहं मुनिवृन्देषु भविष्याम्यद्य सङ्गमात् । अहंकारादिदं प्राप्तं दुःखं नात्र विचारणा । मूलं धर्मविनाशस्य प्रथमं यदहङ्कृतिः
मूलं संसारवृक्षस्य यतः प्रोक्तो महात्मभिः । दृष्ट्वा मौनं समाधाय न स्थितोऽहं समागतम्
वाराङ्गनागणं जुष्टं तेनासं दुःखभाजनम् । उत्पादितास्तथा नार्यो मया धर्मव्ययेन वै
तास्तु मां बाधितुं वृत्ताः कामार्ताः प्रमदोत्तमाः । ऊर्णनाभिरिवाद्याहं जालेन स्वकृतेन वै
बद्धोऽस्मि सुदृढेनात्र किं कर्तव्यमतः परम् । यदि चिन्तां समुत्सृज्य सन्त्यजाम्यबला इमाः
शप्त्वा भ्रष्टा व्रजिष्यन्ति सर्वा भग्नमनोरथाः । मुक्तोऽहं सञ्चरिष्यामि विजने परमं तपः
तस्मात्क्रोधं समुत्पाद्य त्यक्ष्यामि सुन्दरीगणम् । व्यास उवाच इति सञ्चिन्त्य मनसा मुनिर्नारायणस्तदा
विमर्शमकरोच्चित्ते सुखोत्पादनसाधने । द्वितीयोऽयं महाशत्रुः क्रोधः सन्तापकारकः
कामादप्यधिको लोके लोभादपि च दारुणः । क्रोधाभिभूतः कुरुते हिंसां प्राणविघातिनीम्
दुःखदां सर्वभूतानां नरकारामदीर्घिकाम् । यथाग्निर्घर्षणाज्जातः पादपं प्रदहेत्तथा
देहोत्पन्नस्तथा क्रोधो देहं दहति दारुणः । व्यास उवाच इति सञ्चिन्त्यमानं तं भ्रातरं दीनमानसम्
उवाच वचनं तथ्यं नरो धर्मसुतोऽनुजः । नर उवाच नारायण महाभाग कोपं यच्छ महामते
शान्तं भावं समाश्रित्य नाशयाहङ्कृतिं पराम् । पुराहङ्कारदोषेण तपो नष्टं किलावयोः
संग्रामश्चाभवत्ताभ्यां भावाभ्यामसुरेण ह । दिव्यवर्षसहस्रं तु प्रह्लादेन महाद्भुतम्
दुःखं बहुतरं प्राप्तं तत्रावाभ्यां सुरोत्तम । तस्मात्क्रोधं परित्यज्य शान्तो भव मुनीश्वर
( शान्तत्वं तपसो मूलं मुनिभिः परिकीर्तितम् ।) ॥ व्यास उवाच इति तस्य वचः श्रुत्वा शान्तोऽभूद्धर्मनन्दनः । जनमेजय उवाच संशयोऽयं मुनिश्रेष्ठ प्रह्लादेन महात्मना
विष्णुभक्तेन शान्तेन कथं युद्धं कृतं पुरा । कृतवन्तौ कथं युद्धं नरनारायणावृषी
तापसौ धर्मपुत्रौ द्वौ सुशान्तमानसावुभौ । समागमः कथं जातस्तयोर्दैत्यसुतस्य च
संग्रामस्तु कथं ताभ्यां कृतस्तेन महात्मना । प्रह्लादोऽप्यतिधर्मात्मा ज्ञानवान्विष्णुतत्परः
नरनारायणौ तद्वत्तापसौ सत्त्वसंस्थितौ । तेन ताभ्यां समुद्भूतं वैरं यदि परस्परम्
तदा तपसि धर्मे च श्रम एव हि केवलम् । क्व जपः क्व तपश्चर्या पुरा सत्ययुगेऽपि च
तादृशैर्न जितं चित्तं क्रोधाहङ्कारसंवृतम् । न क्रोधो न च मात्सर्यमहङ्कारांकुरं विना