कुर्वन्ति नैव विबुधास्तपसो व्ययं वै शापेन तुच्छफलदेन महानुभावाः । व्यास उवाच इत्थं निशम्य वचनं सुरकामिनीनां तावूचतुर्मुनिवरौ विनयानतानाम्
प्रीतौ प्रसन्नवदनौ जितकामलोभौ धर्मात्मजौ निजतपोरुचिशोभिताङ्गौ । नरनारायणावूचतुः ब्रुवन्तु वाञ्छितान् कामान्ददावस्तुष्टमानसौ
यान्तु स्वर्गं गहीत्वेमामुर्वशीं चारुलोचनाम् । उपायनमियं बाला गच्छत्वद्य मनोहरा
दत्तावाभ्यां मघवतः प्रीणनायोरुसम्भवा । स्वस्त्यस्तु सर्वदेवेभ्यो यथेष्टं प्रव्रजन्तु च
( न कस्यापि तपोविघ्नं प्रकर्तव्यमतः परम् ।) ॥ देव्य ऊचुः क्व गच्छामो महाभाग प्राप्तास्ते पादपङ्कजम् । नारायण सुरश्रेष्ठ भक्त्या परमया मुदा
वाञ्छितं चेद्वरं नाथ ददासि मधुसूदन । तुष्टः कमलपत्राक्ष ब्रवीमो मनसेप्सितम्
पतिस्त्वं भव देवेश वरमेनं परन्तप । भवामः प्रीतियुक्तास्त्वां सेवितुं जगदीश्वर
त्वया चोत्पादिता नार्यः सन्त्यन्याश्चारुलोचनाः । उर्वश्याद्यास्तथा यान्तु स्वर्गं वै भवदाज्ञया
स्त्रीणां षोडशसाहस्रं तिष्ठत्वत्र शतार्धकम् । सेवां तेऽत्र करिष्यामो युवयोस्तापसोत्तमौ
वाञ्छितं देहि देवेश सत्यवाग्भव माधव । आशाभङ्गो हि नारीणां हिंसनं परिकीर्तितम्
कामार्तानाञ्च मुनिभिर्धर्मज्ञैस्तत्त्वदर्शिभिः । भाग्ययोगादिह प्राप्ताः स्वर्गात्प्रेमपरिप्लुताः
त्यक्तुं नार्हसि देवेश समर्थोऽसि जगत्पते । नारायण उवाच पूर्णं वर्षसहस्रं तु तपस्तप्तं मयात्र वै
जितेन्द्रियेण चार्वङ्ग्यः कथं भङ्गं करोम्यतः । नेच्छा कामे सुखे काचित्सुखधर्मविनाशके
पशूनामपि साधर्म्ये रमेत मतिमान्कथम् । अप्सरस ऊचुः शब्दादीनां च पञ्चानां मध्ये स्पर्शसुखं वरम्
आनन्दरसमूलं वै नान्यदस्ति सुखं किल । अतोऽस्माकं महाराज वचनं कुरु सर्वथा
निर्भरं सुखमासाद्य चरस्व गन्धमादने । यदि वाञ्छसि नाकत्वं नाधिको गन्धमादनात्
रमस्वात्र शुभे स्थाने प्राप्य सर्वाः सुराङ्गनाः
अहङ्कारावर्तनवर्णनम् व्यास उवाच इत्याकर्ण्य वचस्तासां धर्मपुत्रः प्रतापवान् । विमर्शमकरोच्चित्ते किं कर्तव्यं मयाधुना
हास्योऽहं मुनिवृन्देषु भविष्याम्यद्य सङ्गमात् । अहंकारादिदं प्राप्तं दुःखं नात्र विचारणा । मूलं धर्मविनाशस्य प्रथमं यदहङ्कृतिः
मूलं संसारवृक्षस्य यतः प्रोक्तो महात्मभिः । दृष्ट्वा मौनं समाधाय न स्थितोऽहं समागतम्
वाराङ्गनागणं जुष्टं तेनासं दुःखभाजनम् । उत्पादितास्तथा नार्यो मया धर्मव्ययेन वै
तास्तु मां बाधितुं वृत्ताः कामार्ताः प्रमदोत्तमाः । ऊर्णनाभिरिवाद्याहं जालेन स्वकृतेन वै
बद्धोऽस्मि सुदृढेनात्र किं कर्तव्यमतः परम् । यदि चिन्तां समुत्सृज्य सन्त्यजाम्यबला इमाः
शप्त्वा भ्रष्टा व्रजिष्यन्ति सर्वा भग्नमनोरथाः । मुक्तोऽहं सञ्चरिष्यामि विजने परमं तपः
तस्मात्क्रोधं समुत्पाद्य त्यक्ष्यामि सुन्दरीगणम् । व्यास उवाच इति सञ्चिन्त्य मनसा मुनिर्नारायणस्तदा
विमर्शमकरोच्चित्ते सुखोत्पादनसाधने । द्वितीयोऽयं महाशत्रुः क्रोधः सन्तापकारकः
कामादप्यधिको लोके लोभादपि च दारुणः । क्रोधाभिभूतः कुरुते हिंसां प्राणविघातिनीम्
दुःखदां सर्वभूतानां नरकारामदीर्घिकाम् । यथाग्निर्घर्षणाज्जातः पादपं प्रदहेत्तथा
देहोत्पन्नस्तथा क्रोधो देहं दहति दारुणः । व्यास उवाच इति सञ्चिन्त्यमानं तं भ्रातरं दीनमानसम्
उवाच वचनं तथ्यं नरो धर्मसुतोऽनुजः । नर उवाच नारायण महाभाग कोपं यच्छ महामते