शिशिरं भीममातङ्गं दारयन्स्वखरैर्नखैः । वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने
रक्ताशोककरा तन्वी देवर्षे किंशुकाङ्घ्रिका । नीलाशोककचा श्यामा विकासिकमलानना
नीलेन्दीवरनेत्रा सा बिल्ववृक्षफलस्तनी । प्रोस्फुल्लकुन्दरदना मञ्जरीकर्णशोभिता
बन्धुजीवाधरा शुभ्रा सिन्धुवारनखोद्भवा । पुंस्कोकिलस्वरा पुण्या कदम्बवसना शुभा
बर्हिवृन्दकलापा च सारसस्वननूपुरा । वासन्ती बद्धरशना मत्तहंसगतिस्तथा
पुत्रजीवांशुकन्यस्तरोमराजिविराजिता । वसन्तलक्ष्मीः सम्प्राप्ता ब्रह्मन् बदरिकाश्रमे
अकाले किमियं प्राप्ता विस्मयोऽयं ममाधुना । तपोविघ्नकरा नूनं देवर्षे परिचिन्तय
श्रूयते सुरनारीणां गानं ध्यानविनाशनम् । आवयोस्तपिभङ्गाय कृतं मघवता किल
ऋतुराडन्यथाकाले प्रीतिं सञ्जनयेत्कथम् । विघ्नोऽयं विहितो भाति भीतेनासुरशत्रुणा
वाताः सुगन्धाः शीताश्च समायान्ति मनोहराः । नान्यत्कारणमस्तीह शतक्रतुकृतिं विना
इति ब्रुवति विप्राग्र्ये देवे नारायणे विभौ । सर्वे दृष्टिपथं प्राप्ता मन्मथप्रमुखास्तदा
ददर्श भगवान्सर्वान्नरो नारायणस्तथा । विस्मयाविष्टमनसौ बभूवतुरुभावपि
मन्मथं मेनकां चैव रम्भां चैव तिलोत्तमाम् । पुष्पगन्धां सुकेशीं च महाश्वेतां मनोरमाम्
प्रमद्वरां धृताचीञ्च गीतज्ञां चारुहासिनीम् । चन्द्रप्रभां च सोमां च कोकिलालापमण्डिताम्
विद्युन्मालाम्बुजाक्ष्यौ च तथा काञ्चनमालिनीम्। एताश्चान्या वरारोहा दृष्टास्ताभ्यां तदान्तिके
तासां द्व्यष्टसहस्राणि पञ्चाशदधिकानि च । वीक्ष्य तौ विस्मितौ जातौ कामसैन्यं सुविस्तरम्
प्रणम्याग्रे स्थिताः सर्वा देववाराङ्गनास्तदा । दिव्याभरणभूषाढ्या दिव्यमालोपशोभिताः
जगुश्छलेन ताः सर्वाः पृथिव्यामतिदुर्लभम् । तत्तथावस्थितं दिव्यं मन्मथादिविवर्धनम्
शुश्राव भगवान्विष्णुर्नरो नारायणस्तदा । श्रुत्वा प्रोवाच तास्तत्र प्रीत्या नारायणो मुनिः
आस्यतां सुखमत्रैव करोम्यातिथ्यमद्भुतम् । भवत्योऽतिथिधर्मेण प्राप्ताःस्वर्गात्सुमध्यमाः
व्यास उवाच साभिमानस्तु सञ्चातस्तदा नारायणो मुनिः । इन्द्रेण प्रेषिता नूनं तथा विघ्नचिकीर्षया
वराक्यः का इमाः सर्वाः सृजाम्यद्य नवाः किल । एताभ्यो दिव्यरूपाश्च दर्शयामि तपोबलम्
इति सञ्चिन्त्य मनसा करेणोरुं प्रताड्य वै । तरसोत्पादयामास नारीं सर्वाङ्गसुन्दरीम्
नारायणोरुसम्भूता ह्युर्वशीति ततः शुभा । ददृशुस्ताः स्थितास्तत्र विस्मयं परमं ययुः
तासां च परिचर्यार्थं तावतीश्चातिसुन्दरीः । प्रादुश्चकार तरसा तदा मुनिरसम्भ्रमः
गायन्त्यश्च हसन्त्यश्च नानोपायनपाणयः । प्रणेमुस्ता मुनी सर्वाः स्थिताः कृत्वाञ्जलिं पुरः
तां वीक्ष्य विभ्रमकरीं तपसो विभूतिं ॥ देवाङ्गना हि मुमुहुः प्रविमोहयन्त्यः । ऊचुश्च तौ प्रमुदिताननपद्यशोभा रोमोद्गमोल्लसितचारुनिजाङ्गवल्ल्यः
कुर्युः कथं स्तुतिमहो तपसो महत्त्वं धैर्यं तथैव भवतामभिवीक्ष्य बालाः । अस्मत्कटाक्षविषदिग्धशरेण दग्धः को वा न तत्र भवतां मनसो व्यथा न
ज्ञातौ युवां नरहरेः परमांशभूतौ देवौ मुनी शमदमादिनिधी सदैव । सेवानिमित्तमिह नो गमनं न कामं कार्यं हरेः शतमखस्य विधातुमेव
भाग्येन केन युवयोः किल दर्शनं नः सम्पादितं न विदितं खलु सञ्चितं तत् । चित्तं क्षमं निजजने विहितं युवाभ्या- मस्मद्विधे किल कृतागसि तापमुक्तम्