बभूवुः कोकिलालापा वृक्षाग्रेषु मनोहराः । वल्ल्योऽपि पुष्पिताः सर्वा आलिलिङ्गुर्नगोत्तमान्
प्राणिनः स्वासु भार्यासु प्रेमयुक्ताः स्मरातुराः । बभूवुश्चातिमत्ताश्च क्रीडासक्ताः परस्परम्
ववुर्मन्दाः सुगन्धाश्च सुस्पर्शा दक्षिणानिलाः । इन्द्रियाणि प्रमाथीनि मुनीनामपि चाभवन्
रतियुक्तस्ततः कामः पूरयन्पञ्चमार्गणान् । चकार त्वरितस्तत्र वासं बदरिकाश्रमे
रम्भा तिलोत्तमाद्याश्च गत्वा तत्र वराश्रमे । गानं चकुः सुगीतज्ञाः स्वरतानसमन्वितम्
तच्छ्रुत्वा मधुरोद्गीतं कोकिलानाञ्च कूजितम् । भ्रमरालिविरावञ्च प्रबुद्धौ तौ मुनीश्वरौ
ऋतुराजमकाले तु दृष्ट्वा तौ पुष्पितं वनम् । जातौ चिन्तापरौ तत्र नरनारायणावृषी
किमद्य शिशिरापायः संभृतः समयं विना । प्राणिनो विह्वलाः सर्वे लक्ष्यन्तेऽतिस्मरातुराः
कालधर्मविपर्यासः कथमद्य दुरासदः । नरं नारायणः प्राह विस्मयोत्कुल्ललोचनः
नारायण उवाच पश्य भ्रातरिमे वृक्षाः पुष्पिताः प्रतिभान्ति वै । कोकिलालापसङ्घुष्टा भ्रमरालिविराजिताः
शिशिरं भीममातङ्गं दारयन्स्वखरैर्नखैः । वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने
रक्ताशोककरा तन्वी देवर्षे किंशुकाङ्घ्रिका । नीलाशोककचा श्यामा विकासिकमलानना
नीलेन्दीवरनेत्रा सा बिल्ववृक्षफलस्तनी । प्रोस्फुल्लकुन्दरदना मञ्जरीकर्णशोभिता
बन्धुजीवाधरा शुभ्रा सिन्धुवारनखोद्भवा । पुंस्कोकिलस्वरा पुण्या कदम्बवसना शुभा
बर्हिवृन्दकलापा च सारसस्वननूपुरा । वासन्ती बद्धरशना मत्तहंसगतिस्तथा
पुत्रजीवांशुकन्यस्तरोमराजिविराजिता । वसन्तलक्ष्मीः सम्प्राप्ता ब्रह्मन् बदरिकाश्रमे
अकाले किमियं प्राप्ता विस्मयोऽयं ममाधुना । तपोविघ्नकरा नूनं देवर्षे परिचिन्तय
श्रूयते सुरनारीणां गानं ध्यानविनाशनम् । आवयोस्तपिभङ्गाय कृतं मघवता किल
ऋतुराडन्यथाकाले प्रीतिं सञ्जनयेत्कथम् । विघ्नोऽयं विहितो भाति भीतेनासुरशत्रुणा
वाताः सुगन्धाः शीताश्च समायान्ति मनोहराः । नान्यत्कारणमस्तीह शतक्रतुकृतिं विना
इति ब्रुवति विप्राग्र्ये देवे नारायणे विभौ । सर्वे दृष्टिपथं प्राप्ता मन्मथप्रमुखास्तदा
ददर्श भगवान्सर्वान्नरो नारायणस्तथा । विस्मयाविष्टमनसौ बभूवतुरुभावपि
मन्मथं मेनकां चैव रम्भां चैव तिलोत्तमाम् । पुष्पगन्धां सुकेशीं च महाश्वेतां मनोरमाम्
प्रमद्वरां धृताचीञ्च गीतज्ञां चारुहासिनीम् । चन्द्रप्रभां च सोमां च कोकिलालापमण्डिताम्
विद्युन्मालाम्बुजाक्ष्यौ च तथा काञ्चनमालिनीम्। एताश्चान्या वरारोहा दृष्टास्ताभ्यां तदान्तिके
तासां द्व्यष्टसहस्राणि पञ्चाशदधिकानि च । वीक्ष्य तौ विस्मितौ जातौ कामसैन्यं सुविस्तरम्
प्रणम्याग्रे स्थिताः सर्वा देववाराङ्गनास्तदा । दिव्याभरणभूषाढ्या दिव्यमालोपशोभिताः
जगुश्छलेन ताः सर्वाः पृथिव्यामतिदुर्लभम् । तत्तथावस्थितं दिव्यं मन्मथादिविवर्धनम्
शुश्राव भगवान्विष्णुर्नरो नारायणस्तदा । श्रुत्वा प्रोवाच तास्तत्र प्रीत्या नारायणो मुनिः
आस्यतां सुखमत्रैव करोम्यातिथ्यमद्भुतम् । भवत्योऽतिथिधर्मेण प्राप्ताःस्वर्गात्सुमध्यमाः