या निर्गुणा हरिहरादिभिरप्यलभ्या विद्या सतां प्रियतमाथ समाधिगम्या । सा तस्य चित्तकुहरे प्रकरोति भावं यः संशृणोति सततं तु सतीपुराणम्
सम्प्राप्य मानुषभवं सकलाङ्गयुक्तं पोतं भवार्णवजलोत्तरणाय कामम् । सम्प्राप्य वाचकमहो न शृणोति मूढः स वञ्चितोऽत्र विधिना सुखदं पुराणम्
यः प्राप्य कर्णयुगलं पटुमानुषत्वे रागी शृणोति सततं च परापवादान् । सर्वार्थदं रसनिधिं विमलं पुराणं नष्टः कुतो न शृणुते भुवि मन्दबुद्धिः
देवीसर्वोत्तमेतिकथनम् ऋषय ऊचुः सौम्य व्यासस्य भार्यायां कस्यां जातः सुतः शुकः । कथं वा कीदृशो येन पठितेयं सुसंहिता
अयोनिजस्त्वया प्रोक्तस्तथा चारणिजः शुकः । सन्देहोऽस्ति महांस्तत्र कथयाद्य महामते
गर्भयोगी श्रुतः पूर्वं शुको नाम महातपाः । कथं च पठितं तेन पुराणं बहुविस्तरम्
सूत उवाच पुरा सरस्वतीतीरे व्यासः सत्यवतीसुतः । आश्रमे कलविंकौ तु दृष्ट्वा विस्मयमागतः
जातमात्रं शिशुं नीडे मुक्तमण्डान्मनोहरम् । ताम्रास्यं शुभसर्वाङ्गं पिच्छांकुरविवर्जितम्
तौ तु भक्ष्यार्थमत्यन्तं रतौ श्रमपरायणौ । शिशोश्चंचुपुटे भक्ष्यं क्षिपन्तौ च पुनः पुनः
अङ्गेनाङ्गानि बालस्य घर्षयन्तौ मुदान्वितौ । चुम्बन्तौ च मुखं प्रेम्णा कलविंकौ शिशोः शुभम्
वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा । व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत्
तिरश्चामपि यत्प्रेम पुत्रे समभिलक्ष्यते । किं चित्रं यन्मनुष्याणां सेवाफलमभीप्सताम्
किमेतौ चटकौ चास्य विवाहं सुखसाधनम् । विरच्य सुखिनौ स्यातां दृष्ट्वा वध्वा मुखं शुभम्
अथवा वार्धके प्राप्ते परिचर्यां करिष्यति । पुत्रः परमधर्मिष्ठः पुण्यार्थं कलविंकयोः
अर्जयित्वाथवा द्रव्यं पितरौ तर्पयिष्यति । अथवा प्रेतकार्याणि करिष्यति यथाविधि
अथवा किं गयाश्राद्धं गत्वा संवितरिष्यति । नीलोत्सर्गं च विधिवत्प्रकरिष्यति बालकः
संसारेऽत्र समाख्यातं सुखानामुत्तमं सुखम् । पुत्रगात्रपरिष्वंगो लालनञ्च विशेषतः
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । पुत्रादन्यतरन्नास्ति परलोकस्य साधनम्
मन्वादिभिश्च मुनिभिर्धर्मशास्त्रेषु भाषितम् । पुत्रवान्स्वर्गमाप्नोति नापुत्रस्तु कथञ्चन
दृश्यतेऽत्र समक्षं तन्नानुमानेन साध्यते । पुत्रवान्मुच्यते पापादाप्तवाक्यं च शाश्वतम्
आतुरे मृत्युकालेऽपि भूमिशय्यागतो नरः । करोति मनसा चिन्तां दुःखितः पुत्रवर्जितः
धनं मे विपुलं गेहे पात्राणि विविधानि च । मन्दिरं सुन्दरं चैतत्कोऽस्य स्वामी भविष्यति
मृत्युकाले मनस्तस्य दुःखेन भ्रमते यतः । अतोऽस्य दुर्गतिर्नूनं भ्रान्तचित्तस्य सर्वथा
एवं बहुविधां चिन्तां कृत्वा सत्यवतीसुतः । निःश्वस्य बहुधा चोष्णं विमनाः सम्बभूव ह
विचार्य मनसात्यर्थं कृत्वा मनसि निश्चयम् । जगाम च तपस्तप्तुं मेरुपर्वतसनिधौ
मनसा चिन्तयामास कं देवं समुपास्महे । वरप्रदाननिपुणं वाञ्छितार्थप्रदं तथा
विष्णुं रुद्रं सुरेन्द्रं वा ब्रह्माणं वा दिवाकरम् । गणेशं कार्तिकेयं च पावकं वरुणं तथा
एवं चिन्तयतस्तस्य नारदो मुनिसत्तमः । यदृच्छया समायातो वीणापाणिः समाहितः
तं दृष्ट्वा परमप्रीतो व्यासः सत्यवतीसुतः । कृत्वार्घ्यमासनं दत्त्वा पप्रच्छ कुशलं मुनिम्
श्रुत्वाथ कुशलप्रश्नं पप्रच्छ मुनिसत्तमः । चिन्तातुरोऽसि कस्मात्त्वं द्वैपायन वदस्व मे