अदेयमपि दास्यामि तुष्टोऽस्मि तपसा किल । व्यास उवाच एवं पुनः पुनः शक्रस्तावुवाच पुरः स्थितः
नोचतुस्तावृषी ध्यानसंस्थितौ दृढचेतसौ । ततो वै मोहिनीं मायां चकार भयदां वृषः
वृकान्सिंहांश्च व्याघ्रांश्च समुत्पाद्याबिभीषयत् । वर्षं वातं तथा वह्निं समुत्पाद्य पुनः पुनः
भीषयामास तौ शक्रो मायां कृत्वा विमोहिनीम् । भयतोऽपि वशं नीतौ न तौ धर्मसुतौ मुनी
नरनारायणौ दृष्ट्वा शक्रः स्वभवनं गतः । वरदाने प्रलुब्धौ न न भीतौ वह्निवायुतः
व्याघ्रसिंहादिभिः कान्तौ चलितौ नाश्रमात्स्वकात् । न तयोर्ध्यानभङ्गं वै कर्तुं कोऽपि क्षमोऽभवत्
इन्द्रोऽपि सदनं गत्वा चिन्तयामास दुःखितः । चलितौ भयलोभाभ्यां नेमौ मुनिवरोत्तमौ
चिन्तयन्तौ महाविद्यामादिशक्तिं सनातनीम् । ईश्वरीं सर्वलोकानां परां प्रकृतिमद्भुताम्
ध्यायतां कः क्षमो लोके बहुमायाविदप्युत । यन्मूलाः सकला माया देवासुरकृताः किल
ते कथं बाधितुं शक्ता ध्यायन्ति गतकल्मषाः । वाग्बीजं कामबीजञ्च मायाबीजं तथैव च
चित्ते यस्य भवेत्तं तु बाधितुं कोऽपि न क्षमः । मायया मोहितः शक्रो भूयस्तस्य प्रतिक्रियाम्
कर्तुं कामवसन्तौ तु समाहूयाब्रवीद्वचः । मनोभव वसन्तेन रत्या युक्तो व्रजाधुना
अप्सरोभिः समायुक्तस्तरसा गन्धमादनम् । नरनारायणौ तत्र पुराणावृषिसत्तमौ
कुरुतस्तप एकान्ते स्थितौ बदरिकाश्रमे । गत्वा तत्र समीपे तु तयोर्मन्मथ मार्गणैः
चित्तं कामातुरं कार्यं कुरु कार्यं ममाधुना । मोहयित्वोच्चाटयित्वा विशिखैस्ताडयाशु च
वशीकुरु महाभाग मुनी धर्मसुतावपि । को ह्यस्मिन् सर्वसंसारे देवो दैत्योऽथ मानवः
यस्ते बाणवशं प्राप्तो न याति भृशताडितः । ब्रह्माहं गिरिजानाथश्चन्द्रो वह्निर्विमोहितः
गणना कानयोः काम त्वद्बाणानां पराक्रमे । वाराङ्गनागणोऽयं ते सहायार्थं मयेरितः
आगमिष्यति तत्रैव रम्भादीनां मनोरमः । एका तिलोत्तमा रम्भा कार्यं साधयितुं क्षमा
त्वमेवैकः क्षमः कामं मिलितैः कस्तु संशयः । कुरु कार्यं महाभाग ददामि तव वाच्छितम्
प्रलोभितौ मयात्यर्थं वरदानैस्तपस्विनौ । स्थानान्न चलितौ शान्तौ वृथायं मे गतः श्रमः
तथा वै मायया कृत्वा भीषितौ तापसौ भृशम् । तथापि नोत्थितौ स्थानाद्देहरक्षापरौ न तौ
व्यास उवाच इति तस्य वचः श्रुत्वा शक्रं प्राह मनोभवः । वासवाद्य करिष्यामि कार्यं ते मनसेप्सितम्
यदि विष्णुं महेशं वा ब्रह्माणं वा दिवाकरम् । ध्यायन्तौ तौ तदास्माकं भवितारौ वशौ मुनी
देवीभक्तं वशीकर्तुं नाहं शक्तः कथञ्चन । कामराज महाबीजं चिन्तयन्तं मनस्यलम्
तां देवीं चेन्महाशक्तिं संश्रितौ भक्तिभावतः । न तदा मम बाणानां गोचरौ तापसौ किल
इन्द्र उवाच गच्छ त्वं च महाभाग सर्वैस्तत्र समुद्यतैः । कार्यं ममातिदुःसाध्यं कर्ता हितमनुत्तमम्
व्यास उवाच इति तेन समादिष्टा ययुः सर्वे समुद्यताः । यत्र तौ धर्मपुत्रौ द्वौ तेपाते दुष्करं तपः
अप्सरां नारायणसमीपे प्रार्थनाकरणम् व्यास उवाच प्रथमं तत्र सम्प्राप्तो वसन्तः पर्वतोत्तमे । पुष्पिताः पादपाः सर्वे द्विरेफालिविराजिताः
आम्राश्च बकुला रम्यास्तिलकाः किंशुकाः शुभा । सालास्तालास्तमालाश्च मधूकाः पुष्पिता बभुः