करोति सुकृतं तद्वद्विपरीतं भवेत्किल । स्वार्थासक्तः पुमान्नित्यं न जानाति शुभाशुभम्
दैवाधीनः सदा कुर्यात्पापमेव न सत्कृतम् । प्राजापत्याः सुराः सर्वे ह्यसुराश्च तदुद्भवाः
सर्वे ते स्वार्थनिरताः परस्परविरोधिनः । सत्त्वोद्भवाः सुराः सर्वेऽप्युक्ता वेदेषु मानुषाः
रजोद्भवास्तामसास्तु तिर्यंचः परिकीर्तिताः । सत्त्वोद्भवानां तैर्वैरं परस्परमनारतम्
तिरश्चामत्र किं चित्रं जातिवैरसमुद्भवे । सदा द्रोहपरा देवास्तपोविघ्नकरास्तथा
असन्तुष्टा द्वेषपराः परस्परविरोधिनः । अहङ्कारसमुद्भूतः संसारोऽयं यतो नृप
रागद्वेषविहीनस्तु स कथं जायते नृप
नरनारायणकथावर्णनम् व्यास उवाच अथ किं बहुनोक्तेन संसारेऽस्मिन्नृपोत्तम । धर्मात्माद्रोहबुद्धिस्तु कश्चिद्भवति कर्हिचित्
रागद्वेषावृतं विश्वं सर्वं स्थावरजङ्गमम् । आद्ये युगेऽपि राजेन्द्र किमद्य कलिदूषिते
देवाः सेर्ष्याश्च सद्रोहाश्छलकर्मरताः सदा । मानुषाणां तिरश्चां च का वार्ता नृप गण्यते
द्रोहपरे द्रोहपरो भवेदिति समानता । अद्रोहिणि तथा शान्ते विद्वेषः खलता स्मृता
यः कश्चित्तापसः शान्तो जपध्यानपरायणः । भवेत्तस्य जपे विघ्नकर्ता वै मघवा परम्
सतां सत्ययुगं साक्षात्सर्वदैवासतां कलिः । मध्यमो मध्यमानां तु क्रियायोगौ युगे स्मृतौ
कश्चित्कदाचिद्भवति सत्यधर्मानुवर्तकः । अन्यथान्ययुगानां वै सर्वे धर्मपरायणाः
वासना कारणं राजन् सर्वत्र धर्मसंस्थितौ । तस्यां वै मलिनायां तु धर्मोऽपि मलिनो भवेत्
मलिना वासना सत्यं विनाशायेति सर्वथा । ब्रह्मणो हृदयाञ्चातः पुत्रो धर्म इति स्मृतः
ब्राह्मणः सत्यसम्पन्तो वेदधर्मरतः सदा । दक्षस्य दुहितारो हि वृता दश महात्मना
विवाहविधिना सम्यङ्मुनिना गृहधर्मिणा । तास्वजीजनयत्पुत्रान्धर्मः सत्यवतां वरः
हरिं कृष्णं नरं चैव तथा नारायणं नृप । योगाभ्यासरतो नित्यं हरिः कृष्णो बभूव ह
नरनारायणौ चैव चेरतुस्तप उत्तमम् । प्रालेयाद्रिं समागत्य तीर्थे बदरिकाश्रमे
तपस्विषु धुरीणौ तौ पुराणौ मुनिसत्तमौ । गृणन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे
हरेरंशौ स्थितौ तत्र नरनारायणावृषी । पूर्णं वर्षसहस्रं तु चक्राते तप उत्तमम्
तापितं च जगत्सर्वं तपसा सचराचरम् । नरनारायणाभ्यां च शक्रः क्षोभं तदा ययौ
चिन्ताविष्टः सहस्राक्षो मनसा समकल्पयत् । किं कर्तव्यं धर्मपुत्रौ तापसौ ध्यानसंयुतौ
सिद्धार्थां सुभृशं श्रेष्ठमासनं मे ग्रहीष्यतः । विघ्नः कथं प्रकर्तव्यस्तपो येन भवेन्न हि
उत्पाद्य कामं क्रोधञ्च लोभं वाप्यतिदारुणम् । इत्युद्दिश्य सहस्राक्षः समारुह्य गजोत्तमम्
विघ्नकामस्तु तरसा जगाम गन्धमादनम् । गत्वा तत्राश्रमे पुण्ये तावपश्यच्छतक्रतुः
तपसा दीप्तदेहौ तु भास्कराविव चोदितौ । ब्रह्मविष्णू किमेतौ वै प्रकटौ वा विभावसू
धर्मपुत्रावृषी एतौ तपसा किं करिष्यतः । इति सञ्चिन्त्य तौ दृष्ट्वा तदोवाच शचीपतिः
किं वा कार्यं महाभागौ ब्रूतं धर्मसुतौ किल । ददामि वां वरं श्रेष्ठं दातुं यातोऽस्म्यहमृषी