अहङ्काराद्भवेन्मोहो मोहान्मरणमेव च । सङ्कल्पा बहवस्तत्र विकल्पाः प्रभवन्ति च
ईर्ष्यासूया तथा द्वेषः प्रादुर्भवति चेतसि । आशा तृष्णा तथा दैन्यं दम्भोऽधर्ममतिस्तथा
प्राणिनां प्रभवन्त्येते भावा मोहसमुद्भवाः । यज्ञदानानि तीर्थानि व्रतानि नियमास्तथा
अहङ्काराभिभूतस्तु करोति पुरुषोऽन्वहम् । अहंभावकृतं सर्वं प्रभवेद्वै न शौचवत्
रागलोभात्कृतं कर्म सर्वाङ्गं शुद्धिवर्जितम् । प्रथमं द्रव्यशुद्धिश्च द्रष्टव्या विबुधैः किल
अद्रोहेणार्जितं द्रव्यं प्रशस्तं धर्मकर्मणि । द्रोहार्जितेन द्रव्येण यत्करोति शुभं नरः
विपरीतं भवेत्तत्तु फलकाले नृपोत्तम । मनोऽतिनिर्मलं यस्य स सम्यक्फलभाग्भवेत्
तस्मिन्विकारयुक्ते तु न यथार्थफलं लभेत् । कर्तारः कर्मणां सर्वे आचार्यऋत्विजादयः
स्युस्ते विशुद्धमनसस्तदा पूर्णं भवेत्फलम् । देशकालक्रियाद्रव्यकर्तॄणां शुद्धता यदि
मन्त्राणां च तदा पूर्णं कर्मणां फलमश्नुते । शत्रूणां नाशमुद्दिश्य स्ववृद्धिं परमां तथा
करोति सुकृतं तद्वद्विपरीतं भवेत्किल । स्वार्थासक्तः पुमान्नित्यं न जानाति शुभाशुभम्
दैवाधीनः सदा कुर्यात्पापमेव न सत्कृतम् । प्राजापत्याः सुराः सर्वे ह्यसुराश्च तदुद्भवाः
सर्वे ते स्वार्थनिरताः परस्परविरोधिनः । सत्त्वोद्भवाः सुराः सर्वेऽप्युक्ता वेदेषु मानुषाः
रजोद्भवास्तामसास्तु तिर्यंचः परिकीर्तिताः । सत्त्वोद्भवानां तैर्वैरं परस्परमनारतम्
तिरश्चामत्र किं चित्रं जातिवैरसमुद्भवे । सदा द्रोहपरा देवास्तपोविघ्नकरास्तथा
असन्तुष्टा द्वेषपराः परस्परविरोधिनः । अहङ्कारसमुद्भूतः संसारोऽयं यतो नृप
रागद्वेषविहीनस्तु स कथं जायते नृप
नरनारायणकथावर्णनम् व्यास उवाच अथ किं बहुनोक्तेन संसारेऽस्मिन्नृपोत्तम । धर्मात्माद्रोहबुद्धिस्तु कश्चिद्भवति कर्हिचित्
रागद्वेषावृतं विश्वं सर्वं स्थावरजङ्गमम् । आद्ये युगेऽपि राजेन्द्र किमद्य कलिदूषिते
देवाः सेर्ष्याश्च सद्रोहाश्छलकर्मरताः सदा । मानुषाणां तिरश्चां च का वार्ता नृप गण्यते
द्रोहपरे द्रोहपरो भवेदिति समानता । अद्रोहिणि तथा शान्ते विद्वेषः खलता स्मृता
यः कश्चित्तापसः शान्तो जपध्यानपरायणः । भवेत्तस्य जपे विघ्नकर्ता वै मघवा परम्
सतां सत्ययुगं साक्षात्सर्वदैवासतां कलिः । मध्यमो मध्यमानां तु क्रियायोगौ युगे स्मृतौ
कश्चित्कदाचिद्भवति सत्यधर्मानुवर्तकः । अन्यथान्ययुगानां वै सर्वे धर्मपरायणाः
वासना कारणं राजन् सर्वत्र धर्मसंस्थितौ । तस्यां वै मलिनायां तु धर्मोऽपि मलिनो भवेत्
मलिना वासना सत्यं विनाशायेति सर्वथा । ब्रह्मणो हृदयाञ्चातः पुत्रो धर्म इति स्मृतः
ब्राह्मणः सत्यसम्पन्तो वेदधर्मरतः सदा । दक्षस्य दुहितारो हि वृता दश महात्मना
विवाहविधिना सम्यङ्मुनिना गृहधर्मिणा । तास्वजीजनयत्पुत्रान्धर्मः सत्यवतां वरः
हरिं कृष्णं नरं चैव तथा नारायणं नृप । योगाभ्यासरतो नित्यं हरिः कृष्णो बभूव ह
नरनारायणौ चैव चेरतुस्तप उत्तमम् । प्रालेयाद्रिं समागत्य तीर्थे बदरिकाश्रमे