छलार्थञ्च यदा विष्णुर्वामनोऽभूञ्चगत्प्रभुः । येन वामनरूपेण वञ्चितोऽसौ बलिर्नृपः
विहर्ता शतयज्ञस्य वेदाज्ञापरिपालकः । धर्मिष्ठो दानशीलश्च सत्यवादी जितेन्द्रियः
स्थानात्प्रभ्रंशितोऽकस्माद्विष्णुना प्रभविष्णुना । जितं केन तयोः कृष्ण बलिना वामनेन वा
छलकर्मविदा चायं सन्देहोऽत्र महान्मम । वञ्चयित्वा वञ्चितेन सत्यं वद द्विजोत्तम
पुराणकर्ता त्वमसि धर्मज्ञश्च महामतिः । व्यास उवाच जितं वै बलिना राजन् दत्ता येन च मेदिनी
त्रिविक्रमोऽपि नाम्ना यः प्रथितो वामनोऽभवत् । छलनार्थमिदं राजन्वामनत्वं नराधिप
सम्प्राप्तं हरिणा भूयो द्वारपालत्वमेव च । सत्यादन्यतरन्नास्ति मूलं धर्मस्य पार्थिव
दुःसाध्यं देहिनां राजन्सत्यं सर्वात्मना किल । माया बलवती भूप त्रिगुणा बहुरूपिणी
ययेदं निर्मितं विश्वं गुणैः शबलितं त्रिभिः । तस्माच्छलवता सत्यं कुतोऽविद्धं भवेन्नृप
मिश्रेण जनिता चैव स्थितिरेषा सनातनी । वैखानसाश्च मुनयो निःसङ्गा निष्प्रतिग्रहाः
सत्ययुक्ता भवन्त्यत्र वीतरागा गतस्पृहाः । दृष्टान्तदर्शनार्थाय निर्मितास्ते च तादृशाः
अन्यत्सर्वं शबलितं गुणैरेभिस्त्रिभिनृप । नैकं वाक्यं पुराणेषु वेदेषु नृपसत्तम
धर्मशास्त्रेषु चाङ्गेषु सगुणै रचितेष्विह । सगुणः सगुणं कुर्यान्निर्गुणो न करोति वै
गुणास्ते मिश्रिताः सर्वे न पृथग्भावसङ्गताः । निर्व्यलीके स्थिरे धर्मे मतिः कस्यापि न स्थिरा
भवोद्भवे महाराज मायया मोहितस्य वै । इन्द्रियाणि प्रमाथीनि तदासक्तं मनस्तथा
करोति विविधान्भावान्गुणैस्तैः प्रेरितो भृशम् । ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनः स्थिरजङ्गमाः
सर्वे मायावशा राजन् सानुक्रीडति तैरिह । सर्वान्वै मोहयत्येषा विकुर्वत्यनिशं जगत्
असत्यो जायते राजन्कार्यवान्प्रथमं नरः । इन्द्रियार्थांश्चिन्तयानो न प्राप्नोति यदा नरः
तदर्थं छलमादत्ते छलात्पापे प्रवर्तते । कामः क्रोधश्च लोभश्च वैरिणो बलवत्तराः
कृताकृतं न जानन्ति प्राणिनस्तद्वशं गताः । विभवे सत्यहङ्कारः प्रबलः प्रभवत्यपि
अहङ्काराद्भवेन्मोहो मोहान्मरणमेव च । सङ्कल्पा बहवस्तत्र विकल्पाः प्रभवन्ति च
ईर्ष्यासूया तथा द्वेषः प्रादुर्भवति चेतसि । आशा तृष्णा तथा दैन्यं दम्भोऽधर्ममतिस्तथा
प्राणिनां प्रभवन्त्येते भावा मोहसमुद्भवाः । यज्ञदानानि तीर्थानि व्रतानि नियमास्तथा
अहङ्काराभिभूतस्तु करोति पुरुषोऽन्वहम् । अहंभावकृतं सर्वं प्रभवेद्वै न शौचवत्
रागलोभात्कृतं कर्म सर्वाङ्गं शुद्धिवर्जितम् । प्रथमं द्रव्यशुद्धिश्च द्रष्टव्या विबुधैः किल
अद्रोहेणार्जितं द्रव्यं प्रशस्तं धर्मकर्मणि । द्रोहार्जितेन द्रव्येण यत्करोति शुभं नरः
विपरीतं भवेत्तत्तु फलकाले नृपोत्तम । मनोऽतिनिर्मलं यस्य स सम्यक्फलभाग्भवेत्
तस्मिन्विकारयुक्ते तु न यथार्थफलं लभेत् । कर्तारः कर्मणां सर्वे आचार्यऋत्विजादयः
स्युस्ते विशुद्धमनसस्तदा पूर्णं भवेत्फलम् । देशकालक्रियाद्रव्यकर्तॄणां शुद्धता यदि
मन्त्राणां च तदा पूर्णं कर्मणां फलमश्नुते । शत्रूणां नाशमुद्दिश्य स्ववृद्धिं परमां तथा