अंशेन मानुषं जन्म प्राप्य भोक्ष्यति भामिनी । वरुणेनापि दत्तोऽस्ति शापः सन्तापितेन च
उभयोः शापयोगेन मानुषीयं भविष्यति । व्यास उवाच पतिनाश्वासिता देवी सन्तुष्टा साभवत्तदा
नोवाच विप्रियं किञ्चित्ततः सा वरवर्णिनी । इति ते कथितं राजन् पूर्वशापस्य कारणम्
अदितिर्देवकी जाता स्वांशेन नृपसत्तम
अधमजगतः स्थितिवर्णनम् राजोवाच विस्मितोऽस्मि महाभाग श्रुत्वाख्यानं महामते । संसारोऽयं पापरूपः कथं मुच्येत बन्धनात्
कश्यपस्यापि दायादस्त्रिलोकीविभवे सति । कृतवानीदृशं कर्म को न कुर्याञ्चुगुप्सितम्
गर्भे प्रविश्य बालस्य हननं दारुणं किल । सेवामिषेण मातुश्च कृत्वा शपथमद्भुतम्
शास्ता धर्मस्य गोप्ता च त्रिलोक्याः पतिरप्युत । कृतवानीदृशं कर्म को न कुर्यादसाम्प्रतम्
पितामहा मे संग्रामे कुरुक्षेत्रेऽतिदारुणम् । कृतवन्तस्तथाश्चर्यं दुष्टं कर्म जगद्गुरो
भीष्मोद्रोणः कृपः कर्णो धर्माशोऽपि युधिष्ठिरः । सर्वे विरुद्धधर्मेण वासुदेवेन नोदिताः
असारतां विजानन्तः संसारस्य सुमेधसः । देवांशाश्च कथं चकुर्निन्दितं धर्मतत्पराः
कास्था धर्मस्य विप्रेन्द्र प्रमाणं किं विनिश्चितम् । चलचित्तोऽस्मि सञ्जातः श्रुत्वा चैतत्कथानकम्
आप्तवाक्यं प्रमाणं चेदाप्तः कः परदेहवान् । पुरुषो विषयासक्तो रागी भवति सर्वथा
रागो द्वेषो भवेन्नूनमर्थनाशादसंशयम् । द्वेषादसत्यवचनं वक्तव्यं स्वार्थसिद्धये
जरासन्धविघातार्थं हरिणा सत्त्वमूर्तिना । छलेन रचितं रूपं ब्राह्मणस्य विजानता
तदाप्तः कः प्रमाणं किं सत्त्वमूर्तिरपीदृशः । अर्जुनोऽपि तथैवात्र कार्ये यज्ञविनिर्मिते
कीदृशोऽयं कृतो यज्ञः किमर्थं शमवर्जितः । परलोकपदार्थं वा यशसे वान्यथा किल
धर्मस्य प्रथमः पादः सत्यमेतच्छ्रुतेर्वचः । द्वितीयस्तु तथा शौचं दया पादस्तृतीयकः
दानं पादश्चतुर्थश्च पुराणज्ञा वदन्ति वै । तैर्विहीनः कथं धर्मस्तिष्ठेदिह सुसम्मतः
धर्महीनं कृतं कर्म कथं तत्फलदं भवेत् । धर्मे स्थिरा मतिः क्वापि न कस्यापि प्रतीयते
छलार्थञ्च यदा विष्णुर्वामनोऽभूञ्चगत्प्रभुः । येन वामनरूपेण वञ्चितोऽसौ बलिर्नृपः
विहर्ता शतयज्ञस्य वेदाज्ञापरिपालकः । धर्मिष्ठो दानशीलश्च सत्यवादी जितेन्द्रियः
स्थानात्प्रभ्रंशितोऽकस्माद्विष्णुना प्रभविष्णुना । जितं केन तयोः कृष्ण बलिना वामनेन वा
छलकर्मविदा चायं सन्देहोऽत्र महान्मम । वञ्चयित्वा वञ्चितेन सत्यं वद द्विजोत्तम
पुराणकर्ता त्वमसि धर्मज्ञश्च महामतिः । व्यास उवाच जितं वै बलिना राजन् दत्ता येन च मेदिनी
त्रिविक्रमोऽपि नाम्ना यः प्रथितो वामनोऽभवत् । छलनार्थमिदं राजन्वामनत्वं नराधिप
सम्प्राप्तं हरिणा भूयो द्वारपालत्वमेव च । सत्यादन्यतरन्नास्ति मूलं धर्मस्य पार्थिव
दुःसाध्यं देहिनां राजन्सत्यं सर्वात्मना किल । माया बलवती भूप त्रिगुणा बहुरूपिणी
ययेदं निर्मितं विश्वं गुणैः शबलितं त्रिभिः । तस्माच्छलवता सत्यं कुतोऽविद्धं भवेन्नृप
मिश्रेण जनिता चैव स्थितिरेषा सनातनी । वैखानसाश्च मुनयो निःसङ्गा निष्प्रतिग्रहाः