अत्रिरेकोनविंशेऽथ गौतमस्तु ततः परम् । उत्तमश्चैकविंशेऽथ हर्यात्मा परिकीर्तितः
वेनो वाजश्रवाश्चैव सोमोऽमुष्यायणस्तथा । तृणबिन्दुस्तथा व्यासो भार्गवस्तु ततः परम्
ततः शक्तिर्जातुकर्ण्यः कृष्णद्वैपायनस्ततः । अष्टाविंशतिसंख्येयं कथिता या मया श्रुता
कृष्णद्वैपायनात्प्रोक्तं पुराणं च मया श्रुतम् । श्रीमद्भागवतं पुण्यं सर्वदुःखौघनाशनम्
कामदं मोक्षदं चैव वेदार्थपरिबृंहितम् । सर्वागमरसारामं मुमुक्षूणां सदा प्रियम्
व्यासेन कृत्वातिशुभं पुराणं शुकाय पुत्राय महात्मने यत् । वैराग्ययुक्ताय च पाठितं वै विज्ञाय चैवारणिसम्भवाय
श्रुतं मया तत्र तथा गृहीतं यथार्थवद्व्यासमुखान्मुनीन्द्राः । पुराणगुह्यं सकलं समेतं गुरोः प्रसादात्करुणानिधेश्च
सूतेन पृष्टः सकलं जगाद द्वैपायनस्तत्र पुराणगुह्यम् । अयोनिजेनाद्भुतबुद्धिना वै श्रुतं मया तत्र महाप्रभावम्
श्रीमद्भागवतामरांघ्रिपफलास्वादादरः सत्तमाः संसारार्णवदुर्विगाह्यसलिलं सन्तर्तुकामः शुकः । नानाख्यानरसालयं श्रुतिपुटैः प्रेम्णाशृणोदद्भुतं तच्छ्रुत्वा न विमुच्यते कलिभयादेवंविधः कः क्षितौ
पापीयानपि वेदधर्मरहितः स्वाचारहीनाशयो ॥ व्याजेनापि शृणोति यः परमिदं श्रीमत्पुराणोत्तमम् । भुक्त्या भोगकलापमत्र विपुलं देहावसानेऽचलं योगिप्राप्यमवाप्नुयाद्भगवतीनामाङ्कितं सुन्दरम्
या निर्गुणा हरिहरादिभिरप्यलभ्या विद्या सतां प्रियतमाथ समाधिगम्या । सा तस्य चित्तकुहरे प्रकरोति भावं यः संशृणोति सततं तु सतीपुराणम्
सम्प्राप्य मानुषभवं सकलाङ्गयुक्तं पोतं भवार्णवजलोत्तरणाय कामम् । सम्प्राप्य वाचकमहो न शृणोति मूढः स वञ्चितोऽत्र विधिना सुखदं पुराणम्
यः प्राप्य कर्णयुगलं पटुमानुषत्वे रागी शृणोति सततं च परापवादान् । सर्वार्थदं रसनिधिं विमलं पुराणं नष्टः कुतो न शृणुते भुवि मन्दबुद्धिः
देवीसर्वोत्तमेतिकथनम् ऋषय ऊचुः सौम्य व्यासस्य भार्यायां कस्यां जातः सुतः शुकः । कथं वा कीदृशो येन पठितेयं सुसंहिता
अयोनिजस्त्वया प्रोक्तस्तथा चारणिजः शुकः । सन्देहोऽस्ति महांस्तत्र कथयाद्य महामते
गर्भयोगी श्रुतः पूर्वं शुको नाम महातपाः । कथं च पठितं तेन पुराणं बहुविस्तरम्
सूत उवाच पुरा सरस्वतीतीरे व्यासः सत्यवतीसुतः । आश्रमे कलविंकौ तु दृष्ट्वा विस्मयमागतः
जातमात्रं शिशुं नीडे मुक्तमण्डान्मनोहरम् । ताम्रास्यं शुभसर्वाङ्गं पिच्छांकुरविवर्जितम्
तौ तु भक्ष्यार्थमत्यन्तं रतौ श्रमपरायणौ । शिशोश्चंचुपुटे भक्ष्यं क्षिपन्तौ च पुनः पुनः
अङ्गेनाङ्गानि बालस्य घर्षयन्तौ मुदान्वितौ । चुम्बन्तौ च मुखं प्रेम्णा कलविंकौ शिशोः शुभम्
वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा । व्यासश्चिन्तातुरः कामं मनसा समचिन्तयत्
तिरश्चामपि यत्प्रेम पुत्रे समभिलक्ष्यते । किं चित्रं यन्मनुष्याणां सेवाफलमभीप्सताम्
किमेतौ चटकौ चास्य विवाहं सुखसाधनम् । विरच्य सुखिनौ स्यातां दृष्ट्वा वध्वा मुखं शुभम्
अथवा वार्धके प्राप्ते परिचर्यां करिष्यति । पुत्रः परमधर्मिष्ठः पुण्यार्थं कलविंकयोः
अर्जयित्वाथवा द्रव्यं पितरौ तर्पयिष्यति । अथवा प्रेतकार्याणि करिष्यति यथाविधि
अथवा किं गयाश्राद्धं गत्वा संवितरिष्यति । नीलोत्सर्गं च विधिवत्प्रकरिष्यति बालकः
संसारेऽत्र समाख्यातं सुखानामुत्तमं सुखम् । पुत्रगात्रपरिष्वंगो लालनञ्च विशेषतः
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । पुत्रादन्यतरन्नास्ति परलोकस्य साधनम्
मन्वादिभिश्च मुनिभिर्धर्मशास्त्रेषु भाषितम् । पुत्रवान्स्वर्गमाप्नोति नापुत्रस्तु कथञ्चन
दृश्यतेऽत्र समक्षं तन्नानुमानेन साध्यते । पुत्रवान्मुच्यते पापादाप्तवाक्यं च शाश्वतम्