रुरोद च तदा बालो वज्रेणाभिहतस्तथा । मा रुदेति शनैर्वाक्यमुवाच मघवानमुम्
शकलानि पुनः सप्त सप्तधा कर्तितानि च । तदा चैकोनपञ्चाशन्मरुतश्चाभवन्नृप
तदा प्रबुद्धा सुदती ज्ञात्वा गर्भं तथाकृतम् । इन्द्रेण छलरूपेण चुकोप भृशदुःखिता
भगिनीकृतं तु सा बुद्ध्वा शशाप कुपिता तदा । अदितिं मघवन्तञ्च सत्यव्रतपरायणा
यथा मे कर्तितो गर्भस्तव पुत्रेण छद्मना । तथा तन्नाशमायातु राज्यं त्रिभुवनस्य तु
यथा गुप्तेन पापेन मम गर्भो निपातितः । अदित्या पापचारिण्या यथा मे घातितः सुतः
तस्याः पुत्रास्तु नश्यन्तु जाता जाताः पुनः पुनः । कारागारे वसत्वेषा पुत्रशोकातुरा भृशम्
अन्यजन्मनि चाप्येव मृतापत्या भविष्यति । व्यास उवाच इत्युत्सृष्टं तदा श्रुत्वा शापं मरीचिनन्दनः
उवाच प्रणयोपेतो वचनं शमयन्निव । मा कोपं कुरु कल्याणि पुत्रास्ते बलवत्तराः
भविष्यन्ति सुराः सर्वे मरुतो मघवत्सखाः । शापोऽयं तव वामोरु त्वष्टाविंशेऽथ द्वापरे
अंशेन मानुषं जन्म प्राप्य भोक्ष्यति भामिनी । वरुणेनापि दत्तोऽस्ति शापः सन्तापितेन च
उभयोः शापयोगेन मानुषीयं भविष्यति । व्यास उवाच पतिनाश्वासिता देवी सन्तुष्टा साभवत्तदा
नोवाच विप्रियं किञ्चित्ततः सा वरवर्णिनी । इति ते कथितं राजन् पूर्वशापस्य कारणम्
अदितिर्देवकी जाता स्वांशेन नृपसत्तम
अधमजगतः स्थितिवर्णनम् राजोवाच विस्मितोऽस्मि महाभाग श्रुत्वाख्यानं महामते । संसारोऽयं पापरूपः कथं मुच्येत बन्धनात्
कश्यपस्यापि दायादस्त्रिलोकीविभवे सति । कृतवानीदृशं कर्म को न कुर्याञ्चुगुप्सितम्
गर्भे प्रविश्य बालस्य हननं दारुणं किल । सेवामिषेण मातुश्च कृत्वा शपथमद्भुतम्
शास्ता धर्मस्य गोप्ता च त्रिलोक्याः पतिरप्युत । कृतवानीदृशं कर्म को न कुर्यादसाम्प्रतम्
पितामहा मे संग्रामे कुरुक्षेत्रेऽतिदारुणम् । कृतवन्तस्तथाश्चर्यं दुष्टं कर्म जगद्गुरो
भीष्मोद्रोणः कृपः कर्णो धर्माशोऽपि युधिष्ठिरः । सर्वे विरुद्धधर्मेण वासुदेवेन नोदिताः
असारतां विजानन्तः संसारस्य सुमेधसः । देवांशाश्च कथं चकुर्निन्दितं धर्मतत्पराः
कास्था धर्मस्य विप्रेन्द्र प्रमाणं किं विनिश्चितम् । चलचित्तोऽस्मि सञ्जातः श्रुत्वा चैतत्कथानकम्
आप्तवाक्यं प्रमाणं चेदाप्तः कः परदेहवान् । पुरुषो विषयासक्तो रागी भवति सर्वथा
रागो द्वेषो भवेन्नूनमर्थनाशादसंशयम् । द्वेषादसत्यवचनं वक्तव्यं स्वार्थसिद्धये
जरासन्धविघातार्थं हरिणा सत्त्वमूर्तिना । छलेन रचितं रूपं ब्राह्मणस्य विजानता
तदाप्तः कः प्रमाणं किं सत्त्वमूर्तिरपीदृशः । अर्जुनोऽपि तथैवात्र कार्ये यज्ञविनिर्मिते
कीदृशोऽयं कृतो यज्ञः किमर्थं शमवर्जितः । परलोकपदार्थं वा यशसे वान्यथा किल
धर्मस्य प्रथमः पादः सत्यमेतच्छ्रुतेर्वचः । द्वितीयस्तु तथा शौचं दया पादस्तृतीयकः
दानं पादश्चतुर्थश्च पुराणज्ञा वदन्ति वै । तैर्विहीनः कथं धर्मस्तिष्ठेदिह सुसम्मतः
धर्महीनं कृतं कर्म कथं तत्फलदं भवेत् । धर्मे स्थिरा मतिः क्वापि न कस्यापि प्रतीयते