धन्यास्ते मुनयः शान्ता जितो यैर्लोभ एव च । वैखानसैः शमपरैः प्रतिग्रहपराङ्मुखैः
संसारे बलवाञ्छत्रुर्लोभोऽमेध्योऽवरः सदा । कश्यपोऽपि दुराचारः कृतस्नेहो दुरात्मना
ब्रह्मापि तं शशापाथ कश्यपं मुनिसत्तमम् । मर्यादारक्षणार्थं हि पौत्रं परमवल्लभम्
अंशेन त्वं पृथिव्यां वै प्राप्य जन्म यदोः कुले । भार्याभ्यां संयुतस्तत्र गोपालत्वं करिष्यसि
व्यास उवाच एवं शप्तः कश्यपोऽसौ वरुणेन च ब्रह्मणा । अंशावतरणार्थाय भूभारहरणाय च
तथा दित्यादितिः शप्ता शोकसन्तप्तया भृशम् । जाता जाता विनश्येरंस्तव पुत्रास्तु सप्त वै
जनमेजय उवाच कस्माद्दित्या च भगिनी शप्तेन्द्रजननी मुने । कारणं वद शापे च शोकस्तु मुनिसत्तम
सूत उवाच पारीक्षितेन पृष्टस्तु व्यासः सत्यवतीसुतः । राजानं प्रत्युवाचेदं कारणं सुसमाहितः
व्यास उवाच राजन् दक्षसुते द्वे तु दितिश्चादितिरुत्तमे । कश्यपस्य प्रिये भार्ये बभूवतुरुरुक्रमे
अदित्यां मघवा पुत्रो यदाभूदतिवीर्यवान् । तदा तु तादृशं पुत्रं चकमे दितिरोजसा
पतिमाहासितापाङ्गी पुत्रं मे देहि मानद । इन्द्रख्यबलं वीरं धर्मिष्ठं वीर्यवत्तमम्
तामुवाच मुनिः कान्ते स्वस्था भव मयोदिते । व्रतान्ते भविता तुभ्यं शतक्रतुसमः सुतः
सा तथेति प्रतिश्रुत्य चकार व्रतमुत्तमम् । निषिक्तं मुनिना गर्भं बिभ्राणा सुमनोहरम्
भूमौ चकार शयनं पयोव्रतपरायणा । पवित्रा धारणायुक्ता बभूव वरवर्णिनी
एवं जातः सुसंपूर्णो यदा गर्भोऽतिवीर्यवान् । शुभ्रांशुमतिदीप्ताङ्गीं दितिं दृष्ट्वा तु दुःखिता
मघवत्सदृशः पुत्रो भविष्यति महाबलः । दित्यास्तदा मम सुतस्तेजोहीनो भवेत्किल
इति चिन्तापरा पुत्रमिन्द्रं चोवाच मानिनी । शत्रुस्तेऽद्य समुत्पन्नो दितिगर्भेऽतिवीर्यवान्
उपायं कुरु नाशाय शत्रोरद्य विचिन्त्य च । उत्पत्तिरेव हन्तव्या दित्या गर्भस्य शोभन
वीक्ष्य तामसितापाङ्गीं सपत्नीभावमास्थिताम् । दुनोति हृदये चिन्ता सुखमर्मविनाशिनी
राजयक्ष्मेव संवृद्धो नष्टो नैव भवेद्रिपुः । तस्मादङ्कुरितं हन्याद्बुद्धिमानहितं किल
लोहशङ्कुरिव क्षिप्तो गर्भो वै हृदये मम । येन केनाप्युपायेन पातयाद्य शतक्रतो
सामदानबलेनापि हिंसनीयस्त्वया सुतः । दित्या गर्भो महाभाग मम चेदिच्छसि प्रियम्
व्यास उवाच श्रुत्वा मातृवचः शक्रो विचिन्त्य मनसा ततः । जगामापरमातुः स समीपममराधिपः
ववन्दे विनयात्पादौ दित्याः पापमतिर्नृप । प्रोवाच विनयेनासौ मधुरं विषगर्भितम्
इन्द्र उवाच मातस्त्वं व्रतयुक्तासि क्षीणदेहातिदुर्बला । सेवार्थमिह सम्प्राप्तः किं कर्तव्यं वदस्व मे
पादसंवाहनं तेऽहं करिष्यामि पतिव्रते । गुरुशुश्रूषणात्पुण्यं लभते गतिमक्षयाम्
न मे किमपि भेदोऽस्ति तथादित्या शपे किल । इत्युक्त्वा चरणौ स्पृष्टा संवाहनपरोऽभवत्
संवाहनसुखं प्राप्य निद्रामाप सुलोचना । श्रान्ता व्रतकृशा सुप्ता विश्वस्ता परमा सती
तां निद्रावशमापन्नां विलोक्य प्राविशत्तनुम् । रूपं कृत्वातिसूक्ष्मञ्च शस्त्रपाणिः समाहितः
उदरं प्रविवेशाशु तस्या योगबलेन वै । गर्भं चकर्त वज्रेण सप्तधा पविनायकः