देवकी रोहिणी चोभे भगिन्यौ भरतर्षभ । वरुणेन महाञ्छापो दत्तः कोपादिति श्रुतम्
राजोवाच किं कृतं कश्यपेनागो येन शप्तो महानृषिः । सभार्यः स कथं जातस्तद्वदस्व महामते
कथञ्च भगवान्विष्णुस्तत्र जातोऽस्ति गोकुले । वासी वैकुण्ठनिलये रमापतिरखण्डितः
निदेशात्कस्य भगवान्वर्तते प्रभुरव्ययः । नारायणः सुरश्रेष्ठो युगादिः सर्वधारकः
स कथं सदनं त्यक्त्वा कर्मवानिव मानुषे । करोति जननं कस्मादत्र मे संशयो महान्
प्राप्य मानुषदेहं तु करोति च विडम्बनम् । भावान्नानाविधांस्तत्र मानुषे दुष्टजन्मनि
कामः क्रोधोऽमर्षशोकौ वैरं प्रीतिश्च कर्हिचित् । सुखं दुःखं भयं नॄणां दैन्यमार्जवमेव च
दुष्कृतं सुकृतं चैव वचनं हननं तथा । पोषणं चलनं तापो विमर्शश्च विकत्थनम्
लोभो दम्भस्तथा मोहः कपटः शोचनं तथा । एते चान्ये तथा भावा मानुष्ये सम्भवन्ति हि
स कथं भगवान्विष्णुस्त्वक्त्या सुखमनश्वरम् । करोति मानुषं जन्म भावैस्तैस्तैरभिद्रुतम्
किं सुखं मानुषं प्राप्य भुवि जन्म मुनीश्वर । किं निमित्तं हरिः साक्षाद्गर्भवासं करोति वै
गर्भदुःखं जन्मदुःखं बालभावे तथा पुनः । यौवने कामजं दुःखं गार्हस्त्येऽतिमहत्तरम्
दुःखान्येतान्यवाप्नोति मानुषे द्विजसत्तम । कथं स भगवान्विष्णुरवतारान्पुनः पुनः
प्राप्य रामावतारं हि हरिणा ब्रह्मयोनिना । दुःखं महत्तरं प्राप्तं वनवासेऽतिदारुणे
सीताविरहजं दुःखं संग्रामश्च पुनः पुनः । कान्तात्यागोऽप्यनेनैवमनुभूतो महात्मना
तथा कृष्णावतारेऽपि जन्म रक्षागृहे पुनः । गोकुले गमनं चैव गवां चारणमित्युत
कंसस्य हननं कष्टाद् द्वारकागमनं पुनः । नानासंसारदुःखानि भुक्तवान्भगवान् कथम्
स्वेच्छया कः प्रतीक्षेत मुक्तो दुःखानि ज्ञानवान् । संशयं छिन्धि सर्वज्ञ मम चित्तप्रशान्तये
दित्या अदित्यै शापदानम् व्यास उवाच कारणानि बहून्यत्राप्यवतारे हरेः किल । सर्वेषां चैव देवानामंशावतरणेष्वपि
वसुदेवावतारस्य कारणं शृणु तत्त्वतः । देवक्याश्चैव रोहिण्या अवतारस्य कारणम्
एकदा कश्यपः श्रीमान्यज्ञार्थं धेनुमाहरत् । याचितोऽयं बहुविधं न ददौ धेनुमुत्तमाम्
वरुणस्तु ततो गत्वा ब्रह्माणं जगतः प्रभुम् । प्रणम्योवाच दीनात्मा स्वदुःखं विनयान्वितः
किं करोमि महाभाग मत्तोऽसौ न ददाति गाम् । शापो मया विसृष्टोऽस्मै गोपालो भव मानुषे
भार्ये द्वे अपि तत्रैव भवेतां चातिदुःखिते । यतो वत्सा रुदन्त्यत्र मातृहीनाः सुदुःखिताः
मृतवत्सादितिस्तस्माद्भविष्यति धरातले । कारागारनिवासा च तेनापि बहुदुःखिता
व्यास उवाच तच्छ्रुत्वा वचनं तस्य यादोनाथस्य पद्मभूः । समाहूय मुनिं तत्र तमुवाच प्रजापतिः
कस्मात्त्वया महाभाग लोकपालस्य धेनवः । हृताः पुनर्न दत्ताश्च किमन्यायं करोषि च
जानन् न्यायं महाभाग परवित्तापहारणम् । कृतवान्कथमन्यायं सर्वज्ञोऽसि महामते
अहो लोभस्य महिमा महतोऽपि न मुञ्चति । लोभं नरकदं नूनं पापाकरमसम्मतम्
कश्यपोऽपि न तं त्यक्तुं समर्थः किं करोम्यहम् । सर्वदैवाधिकस्तस्माल्लोभो वै कलितो मया