कर्तुमिच्छेच्च को मूढः श्रमदं सुखनाशनम् । सर्वथैव नृपश्रेष्ठ सर्वे ब्रह्मादयः सुराः
कृतकर्मविपाकेन प्राप्नुवन्ति सुखासुखे । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । देहवद्भिर्नृभिर्देवैस्तिर्यग्भिश्च नृपोत्तम
तपसा दानयज्ञैश्च मानवश्चेन्द्रतां व्रजेत् । क्षीणे पुण्येऽथ शक्रोऽपि पतत्येव न संशयः
रामावतारयोगेन देवा वानरतां गताः । तथा कृष्णसहायार्थं देवा यादवतां गताः
एवं युगे युगे विष्णुरवताराननेकशः । करोति धर्मरक्षार्थं ब्रह्मणा प्रेरितो भृशम्
पुनः पुनर्हरेरेवं नानायोनिषु पार्थिव । अवतारा भवन्त्यन्ये रथचक्रवदद्भुताः
दैत्यानां हननं कर्म कर्तव्यं हरिणा स्वयम् । अंशांशेन पृथिव्यां वै कृत्वा जन्म महात्मना
तदहं संप्रवक्ष्यामि कृष्णजन्मकथां शुभाम् । स एव भगवान्विष्णुरवतीर्णो यदोः कुले
कश्यपस्य मुनेरंशो वसुदेवः प्रतापवान् । गोवृत्तिरभवद्राजन् पूर्वशापानुभावतः
कश्यपस्य च द्वे पत्न्यौ शापादत्र महीपते । अदितिः सुरसा चैवमासतुः पृथिवीपते
देवकी रोहिणी चोभे भगिन्यौ भरतर्षभ । वरुणेन महाञ्छापो दत्तः कोपादिति श्रुतम्
राजोवाच किं कृतं कश्यपेनागो येन शप्तो महानृषिः । सभार्यः स कथं जातस्तद्वदस्व महामते
कथञ्च भगवान्विष्णुस्तत्र जातोऽस्ति गोकुले । वासी वैकुण्ठनिलये रमापतिरखण्डितः
निदेशात्कस्य भगवान्वर्तते प्रभुरव्ययः । नारायणः सुरश्रेष्ठो युगादिः सर्वधारकः
स कथं सदनं त्यक्त्वा कर्मवानिव मानुषे । करोति जननं कस्मादत्र मे संशयो महान्
प्राप्य मानुषदेहं तु करोति च विडम्बनम् । भावान्नानाविधांस्तत्र मानुषे दुष्टजन्मनि
कामः क्रोधोऽमर्षशोकौ वैरं प्रीतिश्च कर्हिचित् । सुखं दुःखं भयं नॄणां दैन्यमार्जवमेव च
दुष्कृतं सुकृतं चैव वचनं हननं तथा । पोषणं चलनं तापो विमर्शश्च विकत्थनम्
लोभो दम्भस्तथा मोहः कपटः शोचनं तथा । एते चान्ये तथा भावा मानुष्ये सम्भवन्ति हि
स कथं भगवान्विष्णुस्त्वक्त्या सुखमनश्वरम् । करोति मानुषं जन्म भावैस्तैस्तैरभिद्रुतम्
किं सुखं मानुषं प्राप्य भुवि जन्म मुनीश्वर । किं निमित्तं हरिः साक्षाद्गर्भवासं करोति वै
गर्भदुःखं जन्मदुःखं बालभावे तथा पुनः । यौवने कामजं दुःखं गार्हस्त्येऽतिमहत्तरम्
दुःखान्येतान्यवाप्नोति मानुषे द्विजसत्तम । कथं स भगवान्विष्णुरवतारान्पुनः पुनः
प्राप्य रामावतारं हि हरिणा ब्रह्मयोनिना । दुःखं महत्तरं प्राप्तं वनवासेऽतिदारुणे
सीताविरहजं दुःखं संग्रामश्च पुनः पुनः । कान्तात्यागोऽप्यनेनैवमनुभूतो महात्मना
तथा कृष्णावतारेऽपि जन्म रक्षागृहे पुनः । गोकुले गमनं चैव गवां चारणमित्युत
कंसस्य हननं कष्टाद् द्वारकागमनं पुनः । नानासंसारदुःखानि भुक्तवान्भगवान् कथम्
स्वेच्छया कः प्रतीक्षेत मुक्तो दुःखानि ज्ञानवान् । संशयं छिन्धि सर्वज्ञ मम चित्तप्रशान्तये
दित्या अदित्यै शापदानम् व्यास उवाच कारणानि बहून्यत्राप्यवतारे हरेः किल । सर्वेषां चैव देवानामंशावतरणेष्वपि
वसुदेवावतारस्य कारणं शृणु तत्त्वतः । देवक्याश्चैव रोहिण्या अवतारस्य कारणम्