दुर्ज्ञेया किल देवानां मानवानां च का कथा । यदा समुत्थितं चैतद्ब्रह्माण्डं त्रिगुणात्मकम्
कर्मणैव समुत्पत्तिः सर्वेषां नात्र संशयः । अनादिनिधना जीवाः कर्मबीजसमुद्भवाः
नानायोनिषु जायन्ते म्रियन्ते च पुनः पुनः । कर्मणा रहितो देहसंयोगो न कदाचन
शुभाशुभैस्तथा मिश्रैः कर्मभिर्वेष्टितं त्विदम् । त्रिविधानि हि तान्याहुर्बुधास्तत्त्वविदश्च ये
सञ्चितानि भविष्यन्ति प्रारब्धानि तथा पुनः । वर्तमानानि देहेऽस्मिंस्त्रैविध्यं कर्मणां किल
ब्रह्मादीनां च सर्वेषां तद्वशत्वं नराधिप । सुखं दुःखं जरामृत्युहर्षशोकादयस्तथा
कामक्रोधौ च लोभश्च सर्वे देहगता गुणाः । दैवाधीनाश्च सर्वेषां प्रभवन्ति नराधिप
रागद्वेषादयो भावाः स्वर्गेऽपि प्रभवन्ति हि । देवानां मानवानाञ्च तिरश्चां च तथा पुनः
विकाराः सर्व एवैते देहेन सह सङ्गताः । पूर्ववैरानुयोगेन स्नेहयोगेन वै पुनः
उत्पत्तिः सर्वजन्तूनां विना कर्म न विद्यते । कर्मणा भ्रमते सूर्यः शशाङ्कः क्षयरोगवान्
कपाली च तथा रुद्रः कर्मणैव न संशयः । अनादिनिधनं चैतत्कारणं कर्म विद्यते
तेनेह शाश्वतं सर्वं जगत्स्थावरजङ्गमम् । नित्यानित्यविचारेऽत्र निमग्ना मुनयः सदा
न जानन्ति किमेतद्वै नित्यं वानित्यमेव च । मायायां विद्यमानायां जगन्नित्यं प्रतीयते
कार्याभावः कथं वाच्यः कारणे सति सर्वथा । माया नित्या कारणञ्च सर्वेषां सर्वदा किल
कर्मबीजं ततोऽनित्यं चिन्तनीयं सदा बुधैः । भ्रमत्येव जगत्सर्वं राजन्कर्मनियन्त्रितम्
नानायोनिषु राजेन्द्र नानाधर्ममयेषु च । इच्छया च भवेञ्चन्म विष्णोरमिततेजसः
युगे युगेष्वनेकासु नीचयोनिषु तत्कथम् । त्यक्त्वा वैकुण्ठसंवासं सुखभोगाननेकशः
विण्मूत्रमन्दिरे वासं संत्रस्तः कोऽभिवाञ्छति । पुष्पावचयलीलां च जलकेलिं सुखासनम्
त्यक्त्वा गर्भगृहे वासं कोऽभिवाच्छति बुद्धिमान् । तूलिकां मृदुसंयुक्तां दिव्यां शय्यां विनिर्मिताम्
त्यक्त्वाधोमुखवासं च कोऽभिवाञ्छति पण्डितः । गीतं नृत्यञ्च वाद्यञ्च नानाभावसमन्वितम्
मुक्त्वा को नरके वासं मनसापि विचिन्तयेत् । सिन्धुजाद्भुतभावानां रसं त्यक्त्वा सुदुस्त्वजम्
विण्मूत्ररसपानञ्ज क इच्छेन्मतिमान्नरः । गर्भवासात्परो नास्ति नरको भुवनत्रये
तद्भीताश्च प्रकुर्वन्ति मुनयो दुस्तरं तपः । हित्वा भोगञ्च राज्यञ्च वने यान्ति मनस्विनः
यद्भीतास्तु विमूढात्मा कस्तं सेवितुमिच्छति । गर्भे तुदन्ति कृमयो जठराग्निस्तपत्यधः
वपासंवेष्टनं कूरं किं सुखं तत्र भूपते । वरं कारागृहे वासो बन्धनं निगडैर्वरम्
अल्पमात्रं क्षणं नैव गर्भवासः क्वचिच्छुभः । गर्भवासे महद्दुःखं दशमासनिवासनम्
तथा निःसरणे दुःखं योनियन्त्रेऽतिदारुणे । बालभावे तदा दुःखं मूकाज्ञभावसंयुतम्
क्षुतृष्णावेदनाशक्तः परतन्त्रोऽतिकातरः । क्षुधिते रुदिते बाले माता चिन्तातुरा तदा
भेषजं पातुमिच्छन्ती ज्ञात्वा व्याधिव्यथां दृढाम् । नानाविधानि दुःखानि बालभावे भवन्ति वै
किं सुखं विबुधा दृष्ट्वा जन्म वाञ्छन्ति चेच्छया । संग्रामममरैः सार्धं सुखं त्यक्त्वा निरन्तरम्