भीष्मद्रोणवधः कामं भूभारहरणे मतः । अर्चिताश्च महात्मानः पाण्डवा धर्मतत्पराः
कृष्णभक्ताः सदाचारा युधिष्ठिरपुरोगमाः । ते कृत्वा राजसूयञ्च यज्ञराजं विधानतः
दक्षिणा विविधा दत्त्वा ब्राह्मणेभ्योऽतिभावतः । पाण्डुपुत्रास्तु देवांशा वासुदेवाश्रिता मुने
घोरं दुःखं कथं प्राप्ताः क्व गतं सुकृतञ्च तत् । किं तत्पापं महारौद्रं येन ते पीडिताः सदा
द्रौपदी च महाभागा वेदीमध्यात्समुत्थिता । रमांशजा च साध्वी च कृष्णभक्तियुता तथा
सा कथं दुःखमतुलं प्राप घोरं पुनः पुनः । दुःशासनेन सा केशे गृहीता पीडिता भृशम्
रजस्वला सभायां तु नीता भीतैकवाससा । विराटनगरे दासी जाता मत्स्यस्य सा पुनः
धर्षिता कीचकेनाथ रुदती कुररी यथा । हृता जयद्रथेनाथ क्रन्दमानातिदुःखिता
मोचिता पाण्डवैः पश्चाद्बलवद्भिर्महात्मभिः । पूर्वजन्मकृतं पापं किं तद्येन च पीडिताः
दुःखान्यनेकान्याप्तास्ते कथयाद्य महामते । राजसूयं क्रतुवरं कृत्वा ते मम पूर्वजाः
दुःखं महत्तरं प्राप्ताः पूर्वजन्मकृतेन वै । देवांशानां कथं तेषां संशयोऽयं महान्हि मे
सदाचारैस्तु कौन्तेयैर्भीष्मद्रोणादयो हताः । छलेन धनलाभार्थं जानानैर्नश्वरं जगत्
प्रेरिता वासुदेवेन पापे घोरे महात्मना । कुलं क्षयितवन्तस्ते हरिणा परमात्मना
वरं भिक्षाटनं साधोर्नीवारैर्जीवनं वरम् । योधान्न हत्वा लोभेन शिल्पेन जीवनं वरम्
विच्छिन्नस्तु त्वया वंशो रक्षितो मुनिसत्तम । समुत्पाद्य सुतानाशु गोलकाच्छत्रुनाशनान्
सोऽल्पेनैव तु कालेन विराटतनयासुतः । तापसस्य गले सर्पं न्यस्तवान्कथमद्भुतम्
नकोऽपि ब्राह्मणं द्वेष्टि क्षत्रियस्य कुलोद्भवः । तापसं मौनसंयुक्तं पित्रा किं तत्कृतं मुने
एतैरन्यैश्च सन्देहैर्विकलं मे मनोऽधुना । स्थिरं कुरु पितः साधो सर्वज्ञोऽसि दयानिधे
कर्मणो जन्मादिकारणत्वनिरूपणम् सूत उवाच एवं पृष्टः पुराणज्ञो व्यासः सत्यवतीसुतः । परीक्षितसुतं शान्तं ततो वै जनमेजयम्
उवाच संशयच्छेत्तृ वाक्यं वाक्यविशारदः । व्यास उवाच राजन् किमेतद्वक्तव्यं कर्मणां गहना गतिः
दुर्ज्ञेया किल देवानां मानवानां च का कथा । यदा समुत्थितं चैतद्ब्रह्माण्डं त्रिगुणात्मकम्
कर्मणैव समुत्पत्तिः सर्वेषां नात्र संशयः । अनादिनिधना जीवाः कर्मबीजसमुद्भवाः
नानायोनिषु जायन्ते म्रियन्ते च पुनः पुनः । कर्मणा रहितो देहसंयोगो न कदाचन
शुभाशुभैस्तथा मिश्रैः कर्मभिर्वेष्टितं त्विदम् । त्रिविधानि हि तान्याहुर्बुधास्तत्त्वविदश्च ये
सञ्चितानि भविष्यन्ति प्रारब्धानि तथा पुनः । वर्तमानानि देहेऽस्मिंस्त्रैविध्यं कर्मणां किल
ब्रह्मादीनां च सर्वेषां तद्वशत्वं नराधिप । सुखं दुःखं जरामृत्युहर्षशोकादयस्तथा
कामक्रोधौ च लोभश्च सर्वे देहगता गुणाः । दैवाधीनाश्च सर्वेषां प्रभवन्ति नराधिप
रागद्वेषादयो भावाः स्वर्गेऽपि प्रभवन्ति हि । देवानां मानवानाञ्च तिरश्चां च तथा पुनः
विकाराः सर्व एवैते देहेन सह सङ्गताः । पूर्ववैरानुयोगेन स्नेहयोगेन वै पुनः
उत्पत्तिः सर्वजन्तूनां विना कर्म न विद्यते । कर्मणा भ्रमते सूर्यः शशाङ्कः क्षयरोगवान्