जनमेजयप्रश्नाः जनमेजय उवाच वासवेय मुनिश्रेष्ठ सर्वज्ञाननिधेऽनघ । प्रष्टुमिच्छाम्यहं स्वामिन्नस्माकं कुलवर्धन
शूरसेनसुतः श्रीमान्वसुदेवः प्रतापवान् । श्रुतं मया हरिर्यस्य पुत्रभावमवाप्तवान्
देवानामपि पूज्योऽभून्नाम्ना चानकदुन्दुभिः । कारागारे कथं बद्धः कंसस्य धर्मतत्परः
देवक्या भार्यया सार्धं किमागः कृतवानसौ । देवक्या बालषट्कस्य विनाशश्च कृतः पुनः
तेन कंसेन कस्माद्वै ययातिकुलजेन च । कारागारे कथं जन्म वासुदेवस्य वै हरेः
गोकुले च कथं नीतो भगवान्सात्वतां पतिः । गतो जन्मान्तरं कस्मात्पितरौ निगडे स्थितौ
देवकीवसुदेवौ च कृष्णस्यामिततेजसः । कथं न मोचितौ वृद्धौ पितरौ हरिणामुना
जगत्कर्तुं समर्थेन स्थितेन जनकोदरे । प्राक्तनं किं तयोः कर्म दुर्विज्ञेयं महात्मभिः
जन्म वै वासुदेवस्य यत्रासीत्परमात्मनः । के ते पुत्राश्च का बाला या कंसेन विपोथिता
शिलायां निर्गता व्योम्नि जाता त्वष्टभुजा पुनः । गार्हस्थ्यञ्च हरेर्ब्रूहि बहुभार्यस्य चानघ
कार्याणि तत्र तान्येव देहत्यागं च तस्य वै । किंवदन्त्या श्रुतं यत्तन्मनो मोहयतीव मे
चरितं वासुदेवस्य त्वमाख्याहि यथातथम् । नरनारायणौ देवौ पुराणावृषिसत्तमौ
धर्मपुत्रौ महात्मानौ तपश्चेरतुरुत्तमम् । यौ मुनी बहुवर्षाणि पुण्ये बदरिकाश्रमे
निराहारौ जितात्मानौ निःस्पृहौ जितषड्गुणौ । विष्णोरंशौ जगत्स्थेम्ने तपश्चेरतुरुत्तमम्
तयोरंशावतारौ हि जिष्णुकृष्णौ महाबलौ । प्रसिद्धौ मुनिभिः प्रोक्तौ सर्वज्ञैर्नारदादिभिः
विद्यमानशरीरौ तौ कथं देहान्तरं गतौ । नरनारायणौ देवौ पुनः कृष्णार्जुनौ कथम्
यौ चक्रतुस्तपश्चोग्रं मुक्त्यर्थं मुनिसत्तमौ । तौ कथं प्रापतुर्देहौ प्राप्तयोगौ महातपौ
शूद्रः स्वधर्मनिष्ठस्तु देहान्ते क्षत्रियस्तु सः । शुभाचारो मृतो यो वै स शूद्रो ब्राह्मणो भवेत्
ब्राह्मणो निःस्पृहः शान्तो भवरोगाद्विमुच्यते । विपरीतमिदं भाति नरनारायणौ च तौ
तपसा शोषितात्मानौ क्षत्रियौ तौ बभूवतुः । केन तौ कर्मणा शान्तौ जातौ शापेन वा पुनः
ब्राह्मणौ क्षत्रियौ जातौ कारणं तन्मुने वद । यादवानां विनाशश्च ब्रह्मशापादिति श्रुतः
कृष्णस्यापि हि गान्धार्याः शापेनैव कुलक्षयः । प्रद्युम्नहरणं चैव शम्बरेण कथं कृतम्
वर्तमाने वासुदेवे देवदेवे जनार्दने । पुत्रस्य सूतिकागेहाद्धरणं चातिदुर्घटम्
द्वारकादुर्गमध्याद्वै हरिवेश्माद्दुरत्ययात् । न ज्ञातं वासुदेवेन तत्कथं दिव्यचक्षुषा
सन्देहोऽयं महान्ब्रह्मन्निसन्देहं कुरु प्रभो । यत्पत्न्यो वासुदेवस्य दस्युभिर्लुण्ठिता हृताः
स्वर्गते देवदेवे तु तत्कथं मुनिसत्तम । संशयो जायते ब्रह्मंश्चित्तान्दोलनकारकः
विष्णोरंशः समुद्भूतः शौरिर्भूभारहारकृत् । स कथं मथुराराज्यं भयात्त्यक्त्वा जनार्दनः
द्वारवत्यां गतः साधो ससैन्यः ससुहृद्गणः । अवतारो हरेः प्रोक्तो भूभारहरणाय वै
पापात्मनां विनाशाय धर्मसंस्थापनाय च । तत्कथं वासुदेवेन चौरास्ते न निपातिताः
यैर्हृता वासुदेवस्य पत्न्यः संलुण्ठिताश्च ताः । स्तेनास्ते किं न विज्ञाताः सर्वज्ञेन सता पुनः