सा भूत्वा सगुणा पश्चात्करोति भुवनत्रयम् । पूर्वं संसृज्य ब्रह्मादीन्दत्त्वा शक्तीश्च सर्वशः
तां ज्ञात्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् । सा विद्या परमा ज्ञेया वेदाद्या वेदकारिणी
असंख्यातानि नामानि तस्या ब्रह्मादिभिः किल । गुणकर्मविधानैस्तु कल्पितानि च किं ब्रुवे
अकारादिक्षकारान्तैः स्वरैर्वर्णैस्तु योजितैः । असंख्येयानि नामानि भवन्ति रघुनन्दन
राम उवाच विधिं मे ब्रूहि विप्रर्षे व्रतस्यास्य समासतः । करोम्यद्यैव श्रद्धावाञ्छ्रीदेव्याः पूजनं तथा
नारद उवाच पीठं कृत्वा समे स्थाने संस्थाप्य जगदम्बिकाम् । उपवासान्नवैव त्वं कुरु राम विधानतः
आचार्योऽहं भविष्यामि कर्मण्यस्मिन्महीपते । देवकार्यविधानार्थमुत्साहं प्रकरोम्यहम्
व्यास उवाच तच्छ्रुत्वा वचनं सत्यं मत्वा रामः प्रतापवान् । कारयित्वा शुभं पीठं स्थापयित्वाम्बिकां शिवाम्
विधिवत्पूजनं तस्याश्चकार व्रतवान् हरिः । सम्प्राप्ते चाश्विने मासि तस्मिन्गिरिवरे तदा
उपवासपरो रामः कृतवान्व्रतमुत्तमम् । होमञ्च विधिवत्तत्र बलिदानञ्च पूजनम्
भ्रातरौ चक्रतुः प्रेम्णा व्रतं नारदसम्मतम् । अष्टम्यां मध्यरात्रे तु देवी भगवती हि सा
सिंहारूढा ददौ तत्र दर्शनं प्रतिपूजिता । गिरिशृङ्गे स्थितोवाच राघवं सानुजं गिरा
मेघगम्भीरया चेदं भक्तिभावेन तोषिता । देव्युवाच राम राम महाबाहो तुष्टाऽस्म्यद्म व्रतेन ते
प्रार्थयस्व वरं कामं यत्ते मनसि वर्तते । नारायणांशसम्भूतस्त्वं वंशे मानवेऽनघे
रावणस्य वधायैव प्रार्थितस्त्वमरैरसि । पुरा मत्स्यतनुं कृत्वा हत्वा घोरञ्च राक्षसम्
त्वया वै रक्षिता वेदाः सुराणां हितमिच्छता । भूत्वा कच्छपरूपस्तु धृतवान्मन्दरं गिरिम्
अकूपारं प्रमन्थानं कृत्वा देवानपोषयः । कोलरूपं परं कृत्वा दशनाग्रेण मेदिनीम्
धृतवानसि यद्राम हिरण्याक्षं जघान च । नारसिंहीं तनुं कृत्वा हिरण्यकशिपुं पुरा
प्रह्लादं राम रक्षित्वा हतवानसि राघव । वामनं वपुरास्थाय पुरा छलितवान्बलिम्
भूत्वेन्द्रस्यानुजः कामं देवकार्यप्रसाधकः । जमदग्निसुतस्त्वं मे विष्णोरंशेन सङ्गतः
कृत्वान्तं क्षत्रियाणां तु दानं भूमेरदाद्द्विजे । तथेदानीं तु काकुत्स्थ जातो दशरथात्मज
प्रार्थितस्तु सुरैः सर्वै रावणेनातिपीडितैः । कपयस्ते सहाया वै देवांशा बलवत्तराः
भविष्यन्ति नरव्याघ्र मच्छक्तिसंयुता ह्यमी । शेषांशोऽप्यनुजस्तेऽयं रावणात्मजनाशकः
भविष्यति न सन्देहः कर्तव्योऽत्र त्वयाऽनघ । वसन्ते सेवनं कार्यं त्वया तत्रातिश्रद्धया
हत्वाऽथ रावणं पापं कुरु राज्यं यथासुखम् । एकादश सहस्राणि वर्षाणि पृथिवीतले
कृत्वा राज्यं रघुश्रेष्ठ गन्ताऽसि त्रिदिवं पुनः । व्यास उवाच इत्युक्त्वान्तर्दधे देवी रामस्तु प्रीतमानसः
समाप्य तद्व्रतं चक्रे प्रयाणं दशमीदिने । विजयापूजनं कृत्वा दत्त्वा दानान्यनेकशः
कपिपतिबलयुक्तः सानुजः श्रीपतिश्च प्रकटपरमशक्त्या प्रेरितः पूर्णकामः । उदधितटगतोऽसौ सेतुबन्धं विधाया- प्यहनदमरशत्रुं रावणं गीतकीर्तिः
यः शृणोति नरो भक्त्या देव्याश्चरितमुत्तमम् । स भुक्त्वा विपुलान्भोगान्प्राप्नोति परमं पदम्
सन्त्यन्यानि पुराणानि विस्तराणि बहूनि च । श्रीमद्भागवतस्यास्य न तुल्यानीति मे मतिः