तव जन्म च काकुत्स्थ तस्य नाशाय चामरैः । प्रार्थितस्य हरेरंशादजवंशेऽप्यजन्मनः
कुरु धैर्यं महाबाहो तत्र सा वर्ततेऽवशा । सती धर्मरता सीता त्वां ध्यायन्ती दिवानिशम्
कामधेनुपयः पात्रे कृत्वा मघवता स्वयम् । पानार्थं प्रेषितं तस्याः पीतं चैवामृतं यथा
सुरभीदुग्धपानात्सा क्षुत्तुड्दुःखविवर्जिता । जाता कमलपत्राक्षी वर्तते वीक्षिता मया
उपायं कथयाम्यद्य तस्य नाशाय राघव । व्रतं कुरुष्व श्रद्धावानाश्विने मासि साम्प्रतम्
नवरात्रोपवासञ्च भगवत्याः प्रपूजनम् । सर्वसिद्धिकरं राम जपहोमविधानतः
मेघ्यैश्च पशुभिर्देव्या बलिं दत्त्वा विशंसितैः । दशांशं हवनं कृत्वा सशक्तस्त्वं भविष्यसि
विष्णुना चरितं पूर्वं महादेवेन ब्रह्मणा । तथा मघवता चीर्णं स्वर्गमध्यस्थितेन वै
सुखिना राम कर्तव्यं नवरात्रव्रतं शुभम् । विशेषेण च कर्तव्यं पुंसा कष्टगतेन वै
विश्वामित्रेण काकुत्स्थ कृतमेतन्न संशयः । भृगुणाऽथ वसिष्ठेन कश्यपेन तथैव च
गुरुणा हृतदारेण कृतमेतन्महाव्रतम् । तस्मात्त्वं कुरु राजेन्द्र रावणस्य वधाय च
इन्द्रेण वृत्रनाशाय कृतं व्रतमनुत्तमम् । त्रिपुरस्य विनाशाय शिवेनापि पुरा कृतम्
हरिणा मधुनाशाय कृतं मेरौ महामते । विधिवत्कुरु काकुत्स्थ व्रतमेतदतन्द्रितः
श्रीराम उवाच का देवी किं प्रभावा सा कुतो जाता किमाह्वया । व्रतं किं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे
नारद उवाच शृणु राम सदा नित्या शक्तिराद्या सनातनी । सर्वकामप्रदा देवी पूजिता दुःखनाशिनी
कारणं सर्वजन्तूनां ब्रह्मादीनां रघूद्वह । तस्याः शक्तिं विना कोऽपि स्पन्दितुं न क्षमो भवेत्
विष्णोः पालनशक्तिः सा कर्तृशक्तिः पितुर्मम । रुद्रस्य नाशशक्तिः सा त्वन्याशक्तिः परा शिवा
यच्च किञ्चित्क्वचिद्वस्तु सदसद्भुवनत्रये । तस्य सर्वस्य या शक्तिस्तदुत्पत्तिः कुतो भवेत्
न ब्रह्मा न यदा विष्णुर्न रुद्रो न दिवाकरः । न चेन्द्राद्याः सुराः सर्वे न धरा न धराधराः
तदा सा प्रकृतिः पूर्णा पुरुषेण परेण वै । संयुता विहरत्येव युगादौ निर्गुणा शिवा
सा भूत्वा सगुणा पश्चात्करोति भुवनत्रयम् । पूर्वं संसृज्य ब्रह्मादीन्दत्त्वा शक्तीश्च सर्वशः
तां ज्ञात्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् । सा विद्या परमा ज्ञेया वेदाद्या वेदकारिणी
असंख्यातानि नामानि तस्या ब्रह्मादिभिः किल । गुणकर्मविधानैस्तु कल्पितानि च किं ब्रुवे
अकारादिक्षकारान्तैः स्वरैर्वर्णैस्तु योजितैः । असंख्येयानि नामानि भवन्ति रघुनन्दन
राम उवाच विधिं मे ब्रूहि विप्रर्षे व्रतस्यास्य समासतः । करोम्यद्यैव श्रद्धावाञ्छ्रीदेव्याः पूजनं तथा
नारद उवाच पीठं कृत्वा समे स्थाने संस्थाप्य जगदम्बिकाम् । उपवासान्नवैव त्वं कुरु राम विधानतः
आचार्योऽहं भविष्यामि कर्मण्यस्मिन्महीपते । देवकार्यविधानार्थमुत्साहं प्रकरोम्यहम्
व्यास उवाच तच्छ्रुत्वा वचनं सत्यं मत्वा रामः प्रतापवान् । कारयित्वा शुभं पीठं स्थापयित्वाम्बिकां शिवाम्
विधिवत्पूजनं तस्याश्चकार व्रतवान् हरिः । सम्प्राप्ते चाश्विने मासि तस्मिन्गिरिवरे तदा
उपवासपरो रामः कृतवान्व्रतमुत्तमम् । होमञ्च विधिवत्तत्र बलिदानञ्च पूजनम्