इन्द्रेण व्यसनं प्राप्तं पुरा वै रघुनन्दन । नहुषः स्थापितो देवैः सर्वैर्मघवतः पदे
स्थितः पङ्कजमध्ये च बहुवर्षगणानपि । अज्ञातवासं मघवा भीतस्त्यक्त्वा निजं पदम्
पुनः प्राप्तं निजस्थानं काले विपरिवर्तिते । नहुषः पतितो भूमौ शापादजगराकृतिः
इन्द्राणीं कामयानस्तु ब्राह्मणानवमन्य च । अगस्तिकोपात्सञ्जातः सर्पदेहो महीपतिः
तस्माच्छोको न कर्तव्यो व्यसने सति राघव । उद्यमे चित्तमास्थाय स्थातव्यं वै विपश्चिता
सर्वज्ञोऽसि महाभाग समर्थोऽसि जगत्पते । किं प्राकृत इवात्यर्थं कुरुषे शोकमात्मनि
व्यास उवाच इति लक्ष्मणवाक्येन बोधितो रघुनन्दनः । त्यक्त्वा शोकं तथात्यर्थं बभूव विगतज्वरः
रामाय देवीवरदानम् व्यास उवाच एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः । आजगाम तदाऽऽकाशान्नारदो भगवानृषिः
रणयन्महतीं वीणां स्वरग्रामविभूषिताम् । गायन्बृहद्रथं साम तदा तमुपतस्थिवान्
दृष्ट्वा तं राम उत्थाय ददावथ वृषं शुभम् । आसनं चार्घ्यपाद्यञ्च कृतवानमितद्युतिः
पूजां परमिकां कृत्वा कृताञ्जलिरुपस्थितः । उपविष्टः समीपे तु कृताज्ञो मुनिना हरिः
उपविष्टं तदा रामं सानुजं दुःखमानसम् । पप्रच्छ नारदः प्रीत्या कुशलं मुनिसत्तमः
कथं राघव शोकार्तो यथा वै प्राकृतो नरः । हृतां सीतां च जानामि रावणेन दुरात्मना
सुरसद्मगतश्चाहं श्रुतवाञ्जनकात्मजाम् । पौलस्त्येन हृतां मोहान्मरणं स्वमजानता
तव जन्म च काकुत्स्थ पौलस्त्यनिधनाय वै । मैथिलीहरणं जातमेतदर्थं नराधिप
पूर्वजन्मनि वैदेही मुनिपुत्री तपस्विनी । रावणेन वने दृष्टा तपस्यन्ती शुचिस्मिता
प्रार्थिता रावणेनासौ भव भार्येति राघव । तिरस्कृतस्तयाऽसौ वै जग्राह कबरं बलात्
शशाप तत्क्षणं राम रावणं तापसी भृशम् । कुपिता त्यक्तुमिच्छन्ती देहं संस्पर्शदूषितम्
दुरात्मंस्तव नाशार्थं भविष्यामि धरातले । अयोनिजा वरा नारी त्यक्त्वा देहं जहावपि
सेयं रमांशसम्भूता गृहीता तेन रक्षसा । विनाशार्थं कुलस्यैव व्याली स्रगिव सम्भ्रमात्
तव जन्म च काकुत्स्थ तस्य नाशाय चामरैः । प्रार्थितस्य हरेरंशादजवंशेऽप्यजन्मनः
कुरु धैर्यं महाबाहो तत्र सा वर्ततेऽवशा । सती धर्मरता सीता त्वां ध्यायन्ती दिवानिशम्
कामधेनुपयः पात्रे कृत्वा मघवता स्वयम् । पानार्थं प्रेषितं तस्याः पीतं चैवामृतं यथा
सुरभीदुग्धपानात्सा क्षुत्तुड्दुःखविवर्जिता । जाता कमलपत्राक्षी वर्तते वीक्षिता मया
उपायं कथयाम्यद्य तस्य नाशाय राघव । व्रतं कुरुष्व श्रद्धावानाश्विने मासि साम्प्रतम्
नवरात्रोपवासञ्च भगवत्याः प्रपूजनम् । सर्वसिद्धिकरं राम जपहोमविधानतः
मेघ्यैश्च पशुभिर्देव्या बलिं दत्त्वा विशंसितैः । दशांशं हवनं कृत्वा सशक्तस्त्वं भविष्यसि
विष्णुना चरितं पूर्वं महादेवेन ब्रह्मणा । तथा मघवता चीर्णं स्वर्गमध्यस्थितेन वै
सुखिना राम कर्तव्यं नवरात्रव्रतं शुभम् । विशेषेण च कर्तव्यं पुंसा कष्टगतेन वै
विश्वामित्रेण काकुत्स्थ कृतमेतन्न संशयः । भृगुणाऽथ वसिष्ठेन कश्यपेन तथैव च