गतं हस्तगतं राज्यं क्षणादिन्द्रासनोपमम् । वने वासस्तु सम्प्राप्तः को वेद विधिनिर्मितम्
बालभावाच्च वैदेही चलिता चावयोः सह । नीता दैवेन दुष्टेन श्यामा दुःखतरां दशाम्
लङ्केशस्य गृहे श्यामा कथं दुःखं भविष्यति । पतिव्रता सुशीला च मयि प्रीतियुता भृशम्
न च लक्ष्मण वैदेही सा तस्य वशगा भवेत् । स्वैरिणीव वरारोहा कथं स्याज्जनकात्मजा
त्यजेत्प्राणान्नियन्तृत्वे मैथिली भरतानुज । न रावणस्य वशगा भवेदिति सुनिश्चितम्
मृता चेज्जानकी वीर प्राणांस्त्यक्ष्याम्यसंशयम् । मृता चेदसितापाङ्गीं किं मे देहेन लक्ष्मण
एवं विलपमानं तं रामं कमललोचनम् । लक्ष्मणः प्राह धर्मात्मा सान्त्वयन्नृतया गिरा
धैर्यं कुरु महाबाहो त्यक्त्वा कातरतामिह । आनयिष्यामि वैदेहीं हत्वा तं राक्षसाधमम्
आपदि सम्पदि तुल्या धैर्याद्भवन्ति ते धीराः । अल्पधियस्तु निमग्नाः कष्टे भवन्ति विभवेऽपि
संयोगो विप्रयोगश्च दैवाधीनावुभावपि । शोकस्तु कीदृशस्तत्र देहेनात्मनि च क्वचित्
राज्याद्यथा वने वासो वैदेह्या हरणं यथा । तथा काले समीचीने संयोगोऽपि भविष्यति
प्राप्तव्यं सुखदुःखानां भोगान्निर्वर्तनं क्वचित् । नान्यथा जानकीजाने तस्माच्छोकं त्यजाधुना
वानराः सन्ति भूयांसो गमिष्यन्ति चतुर्दिशम् । शुद्धिं जनकनन्दिन्या आनयिष्यन्ति ते किल
ज्ञात्वा मार्गस्थितिं तत्र गत्वा कृत्वा पराक्रमम् । हत्वा तं पापकर्माणमानयिष्यामि मैथिलीम्
ससैन्यं भरतं वाऽपि समाहूय सहानुजम् । हनिष्यामो वयं शत्रुं किं शोचसि वृथाग्रज
रघुणैकरथेनैव जिताः सर्वा दिशः पुरा । तद्वंशजः कथं शोकं कर्तुमर्हसि राघव
एकोऽहं सकलाञ्जेतुं समर्थोऽस्मि सुरासुरान् । किं पुनः ससहायो वै रावणं कुलपांसनम्
जनकं वा समानीय साहाय्ये रघुनन्दन । हनिष्यामि दुराचारं रावणं सुरकण्टकम्
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । चक्रनेमिरिवैकं यन्न भवेद्रघुनन्दन
मनोऽतिकातरं यस्य सुखदुःखसमुद्भवे । स शोकसागरे मग्नो न सुखी स्यात्कदाचन
इन्द्रेण व्यसनं प्राप्तं पुरा वै रघुनन्दन । नहुषः स्थापितो देवैः सर्वैर्मघवतः पदे
स्थितः पङ्कजमध्ये च बहुवर्षगणानपि । अज्ञातवासं मघवा भीतस्त्यक्त्वा निजं पदम्
पुनः प्राप्तं निजस्थानं काले विपरिवर्तिते । नहुषः पतितो भूमौ शापादजगराकृतिः
इन्द्राणीं कामयानस्तु ब्राह्मणानवमन्य च । अगस्तिकोपात्सञ्जातः सर्पदेहो महीपतिः
तस्माच्छोको न कर्तव्यो व्यसने सति राघव । उद्यमे चित्तमास्थाय स्थातव्यं वै विपश्चिता
सर्वज्ञोऽसि महाभाग समर्थोऽसि जगत्पते । किं प्राकृत इवात्यर्थं कुरुषे शोकमात्मनि
व्यास उवाच इति लक्ष्मणवाक्येन बोधितो रघुनन्दनः । त्यक्त्वा शोकं तथात्यर्थं बभूव विगतज्वरः
रामाय देवीवरदानम् व्यास उवाच एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः । आजगाम तदाऽऽकाशान्नारदो भगवानृषिः
रणयन्महतीं वीणां स्वरग्रामविभूषिताम् । गायन्बृहद्रथं साम तदा तमुपतस्थिवान्
दृष्ट्वा तं राम उत्थाय ददावथ वृषं शुभम् । आसनं चार्घ्यपाद्यञ्च कृतवानमितद्युतिः