अशोकवनिकायां सा स्थापिता राक्षसीयुता । स्ववृत्तान्नैव चलिता सामदानादिभिः किल
रामोऽपि तं मृगं हत्वा जगामादाय निर्वृतः । आयान्तं लक्ष्मणं वीक्ष्य किं कृतं तेऽनुजासमम्
एकाकिनीं प्रियां हित्वा किमर्थं त्वमिहागतः । श्रुत्वा स्वनं तु पापस्य राघवस्त्वब्रवीदिदम्
सौमित्रिस्त्वब्रवीद्वाक्यं सीतावाग्बाणपीडितः । प्रभोऽत्राहं समायातः कालयोगान्न संशयः
तदा तौ पर्णशालायां गत्वा वीक्ष्यातिदुःखितौ । जानक्यन्वेषणे यत्नमुभौ कर्तुं समुद्यतौ
मार्गमाणौ तु सम्प्राप्तौ यत्रासौ पतितः खगः । जटायुः प्राणशेषस्तु पतितः पृथिवीतले
तेनोक्तं रावणेनाद्य हृताऽसौ जनकात्मजा । मया निरुद्धः पापात्मा पातितोऽहं मृधे पुनः
इत्युक्त्वाऽसौ गतप्राणः संस्कृतो राघवेण वै । कृत्वौर्घ्वदैहिकं रामलक्ष्मणौ निर्गतौ ततः
कबन्धं घातयित्वासौ शापाच्चामोचयत्प्रभुः । वचनात्तस्य हरिणा सख्यं चक्रेऽथ राघवः
हत्वा च वालिनं वीरं किष्किन्धाराज्यमुत्तमम् । सुग्रीवाय ददौ रामः कृतसख्याय कार्यतः
तत्रैव वार्षिकान्मासांस्तस्थौ लक्ष्मणसंयुतः । चिन्तयञ्जानकीं चित्ते दशाननहृतां प्रियाम्
लक्ष्मणं प्राह रामस्तु सीताविरहपीडितः । सौमित्रे कैकयसुता जाता पूर्णमनोरथा
न प्राप्ता जानकी नूनं नाहं जीवामि तां विना । नागमिष्याम्ययोध्यायामृते जनकनन्दिनीम्
गतं राज्यं वने वासो मृतस्तातो हृता प्रिया । पीडयन्मां स दुष्टात्मा दैवोऽग्रे किं करिष्यति
दुर्ज्ञेयं भवितव्यं हि प्राणिनां भरतानुज । आवयोः का गतिस्तात भविष्यति सुदुःखदा
प्राप्य जन्म मनोर्वंशे राजपुत्रावुभौ किल । वनेऽतिदुःखभोक्तारौ जातौ पूर्वकृतेन च
त्यक्त्वा त्वमपि भोगांस्तु मया सह विनिर्गतः । दैवयोगाच्च सौमित्रे भुंक्ष्व दुःखं दुरत्ययम्
न कोऽप्यस्मत्कुले पूर्वं मत्समो दुःखभाङ्नरः । अकिञ्चनोऽक्षमः क्लिष्टो न भूतो न भविष्यति
किं करोम्यद्य सौमित्रे मग्नोऽस्मि दुःखसागरे । न चास्ति तरणोपायो ह्यसहायस्य मे किल
न वित्तं न बलं वीर त्वमेकः सहचारकः । कोपं कस्मिन्करोम्यद्य भोगेस्मिन्स्वकृतेऽनुज
गतं हस्तगतं राज्यं क्षणादिन्द्रासनोपमम् । वने वासस्तु सम्प्राप्तः को वेद विधिनिर्मितम्
बालभावाच्च वैदेही चलिता चावयोः सह । नीता दैवेन दुष्टेन श्यामा दुःखतरां दशाम्
लङ्केशस्य गृहे श्यामा कथं दुःखं भविष्यति । पतिव्रता सुशीला च मयि प्रीतियुता भृशम्
न च लक्ष्मण वैदेही सा तस्य वशगा भवेत् । स्वैरिणीव वरारोहा कथं स्याज्जनकात्मजा
त्यजेत्प्राणान्नियन्तृत्वे मैथिली भरतानुज । न रावणस्य वशगा भवेदिति सुनिश्चितम्
मृता चेज्जानकी वीर प्राणांस्त्यक्ष्याम्यसंशयम् । मृता चेदसितापाङ्गीं किं मे देहेन लक्ष्मण
एवं विलपमानं तं रामं कमललोचनम् । लक्ष्मणः प्राह धर्मात्मा सान्त्वयन्नृतया गिरा
धैर्यं कुरु महाबाहो त्यक्त्वा कातरतामिह । आनयिष्यामि वैदेहीं हत्वा तं राक्षसाधमम्
आपदि सम्पदि तुल्या धैर्याद्भवन्ति ते धीराः । अल्पधियस्तु निमग्नाः कष्टे भवन्ति विभवेऽपि
संयोगो विप्रयोगश्च दैवाधीनावुभावपि । शोकस्तु कीदृशस्तत्र देहेनात्मनि च क्वचित्