रुद्रचापभयान्नाहं सम्प्राप्तस्तु स्वयंवरे । मनो मे संस्थितं तावन्निमग्नं विरहातुरम्
वनेऽत्र संस्थितां श्रुत्वा पूर्वानुरागमोहितः । आगतोऽस्म्यसितापाङ्गि सफलं कुरु मे श्रमम्
लक्ष्मणकृतरामशोकसान्त्वनम् व्यास उवाच तदाकर्ण्य वचो दुष्टं जानकी भयविह्वला । वेपमाना स्थिरं कृत्वा मनो वाचमुवाच ह
पौलस्त्य किमसद्वाक्यं त्वमात्थ स्मरमोहितः । नाहं वै स्वैरिणी किन्तु जनकस्य कुलोद्भवा
गच्छ लङ्कां दशास्य त्वं राम त्वां वै हनिष्यति । मत्कृते मरणं तत्र भविष्यति न संशयः
इत्युक्त्वा पर्णशालायां गता सा वह्निसन्निधौ । गच्छ गच्छेति वदती रावणं लोकरावणम्
सोऽथ कृत्वा निजं रूपं जगामोटजमन्तिकम् । बलाज्जग्राह तां बालां रुदती भयविह्वलाम्
रामरामेति क्रन्दन्ती लक्ष्मणेति मुहुर्मुहुः । गृहीत्वा निर्गतः पापो रथमारोप्य सत्वरः
गच्छन्नरुणपुत्रेण मार्गे रुद्धो जटायुषा । सङ्ग्रामोऽभून्महारौद्रस्तयोस्तत्र वनान्तरे
हत्वा तं तां गृहीत्वा च गतोऽसौ राक्षसाधिपः । लङ्कायां क्रन्दती तात कुररीव दुरात्मनः
अशोकवनिकायां सा स्थापिता राक्षसीयुता । स्ववृत्तान्नैव चलिता सामदानादिभिः किल
रामोऽपि तं मृगं हत्वा जगामादाय निर्वृतः । आयान्तं लक्ष्मणं वीक्ष्य किं कृतं तेऽनुजासमम्
एकाकिनीं प्रियां हित्वा किमर्थं त्वमिहागतः । श्रुत्वा स्वनं तु पापस्य राघवस्त्वब्रवीदिदम्
सौमित्रिस्त्वब्रवीद्वाक्यं सीतावाग्बाणपीडितः । प्रभोऽत्राहं समायातः कालयोगान्न संशयः
तदा तौ पर्णशालायां गत्वा वीक्ष्यातिदुःखितौ । जानक्यन्वेषणे यत्नमुभौ कर्तुं समुद्यतौ
मार्गमाणौ तु सम्प्राप्तौ यत्रासौ पतितः खगः । जटायुः प्राणशेषस्तु पतितः पृथिवीतले
तेनोक्तं रावणेनाद्य हृताऽसौ जनकात्मजा । मया निरुद्धः पापात्मा पातितोऽहं मृधे पुनः
इत्युक्त्वाऽसौ गतप्राणः संस्कृतो राघवेण वै । कृत्वौर्घ्वदैहिकं रामलक्ष्मणौ निर्गतौ ततः
कबन्धं घातयित्वासौ शापाच्चामोचयत्प्रभुः । वचनात्तस्य हरिणा सख्यं चक्रेऽथ राघवः
हत्वा च वालिनं वीरं किष्किन्धाराज्यमुत्तमम् । सुग्रीवाय ददौ रामः कृतसख्याय कार्यतः
तत्रैव वार्षिकान्मासांस्तस्थौ लक्ष्मणसंयुतः । चिन्तयञ्जानकीं चित्ते दशाननहृतां प्रियाम्
लक्ष्मणं प्राह रामस्तु सीताविरहपीडितः । सौमित्रे कैकयसुता जाता पूर्णमनोरथा
न प्राप्ता जानकी नूनं नाहं जीवामि तां विना । नागमिष्याम्ययोध्यायामृते जनकनन्दिनीम्
गतं राज्यं वने वासो मृतस्तातो हृता प्रिया । पीडयन्मां स दुष्टात्मा दैवोऽग्रे किं करिष्यति
दुर्ज्ञेयं भवितव्यं हि प्राणिनां भरतानुज । आवयोः का गतिस्तात भविष्यति सुदुःखदा
प्राप्य जन्म मनोर्वंशे राजपुत्रावुभौ किल । वनेऽतिदुःखभोक्तारौ जातौ पूर्वकृतेन च
त्यक्त्वा त्वमपि भोगांस्तु मया सह विनिर्गतः । दैवयोगाच्च सौमित्रे भुंक्ष्व दुःखं दुरत्ययम्
न कोऽप्यस्मत्कुले पूर्वं मत्समो दुःखभाङ्नरः । अकिञ्चनोऽक्षमः क्लिष्टो न भूतो न भविष्यति
किं करोम्यद्य सौमित्रे मग्नोऽस्मि दुःखसागरे । न चास्ति तरणोपायो ह्यसहायस्य मे किल
न वित्तं न बलं वीर त्वमेकः सहचारकः । कोपं कस्मिन्करोम्यद्य भोगेस्मिन्स्वकृतेऽनुज