लक्ष्मणोऽपि पुनः श्रुत्वा रवं भ्रातुर्गतोऽधुना । तयोर्बाहुबलादत्र निर्भयाऽहं वसामि वै
मयेदं कथितं सर्वं वृत्तान्तं वनवासके । तेऽत्रागत्यार्हणां ते वै करिष्यन्ति यथाविधि
यतिर्विष्णुस्वरूपोऽसि तस्मात्त्वं पूजितो मया । आश्रमो विपिने घोरे कृतोऽस्ति रक्षसां कुले
तस्मात्त्वां परिपृच्छामि सत्यं ब्रूहि ममाग्रतः । कोऽसि त्रिदण्डिरूपेण विपिने त्वं समागतः
रावण उवाच लङ्केशोऽहं मरालाक्षि श्रीमान्मन्दोदरीपतिः । त्वत्कृते तु कृतं रूपं मयेत्थं शोभनाकृते
आगतोऽहं वरारोहे भगिन्या प्रेरितोऽत्र वै । जनस्थाने हतौ श्रुत्वा भ्रातरौ खरदूषणौ
अङ्गीकुरु नृपं मां त्वं त्यक्त्वा तं मानुषं पतिम् । हृतराज्यं गतश्रीकं निर्बलं वनवासिनम्
पट्टराज्ञी भव त्वं मे मन्दोदर्युपरि स्फुटम् । दासोऽस्मि तव तन्वङ्गि स्वामिनी भव भामिनि
जेताऽहं लोकपालानां पतामि तव पादयोः । करं गृहाण मेऽद्य त्वं सनाथं कुरु जानकि
पिता ते याचितः पूर्वं मया वै त्वत्कृतेऽबले । जनको मामुवाचेत्थं पणबन्धो मया कृतः
रुद्रचापभयान्नाहं सम्प्राप्तस्तु स्वयंवरे । मनो मे संस्थितं तावन्निमग्नं विरहातुरम्
वनेऽत्र संस्थितां श्रुत्वा पूर्वानुरागमोहितः । आगतोऽस्म्यसितापाङ्गि सफलं कुरु मे श्रमम्
लक्ष्मणकृतरामशोकसान्त्वनम् व्यास उवाच तदाकर्ण्य वचो दुष्टं जानकी भयविह्वला । वेपमाना स्थिरं कृत्वा मनो वाचमुवाच ह
पौलस्त्य किमसद्वाक्यं त्वमात्थ स्मरमोहितः । नाहं वै स्वैरिणी किन्तु जनकस्य कुलोद्भवा
गच्छ लङ्कां दशास्य त्वं राम त्वां वै हनिष्यति । मत्कृते मरणं तत्र भविष्यति न संशयः
इत्युक्त्वा पर्णशालायां गता सा वह्निसन्निधौ । गच्छ गच्छेति वदती रावणं लोकरावणम्
सोऽथ कृत्वा निजं रूपं जगामोटजमन्तिकम् । बलाज्जग्राह तां बालां रुदती भयविह्वलाम्
रामरामेति क्रन्दन्ती लक्ष्मणेति मुहुर्मुहुः । गृहीत्वा निर्गतः पापो रथमारोप्य सत्वरः
गच्छन्नरुणपुत्रेण मार्गे रुद्धो जटायुषा । सङ्ग्रामोऽभून्महारौद्रस्तयोस्तत्र वनान्तरे
हत्वा तं तां गृहीत्वा च गतोऽसौ राक्षसाधिपः । लङ्कायां क्रन्दती तात कुररीव दुरात्मनः
अशोकवनिकायां सा स्थापिता राक्षसीयुता । स्ववृत्तान्नैव चलिता सामदानादिभिः किल
रामोऽपि तं मृगं हत्वा जगामादाय निर्वृतः । आयान्तं लक्ष्मणं वीक्ष्य किं कृतं तेऽनुजासमम्
एकाकिनीं प्रियां हित्वा किमर्थं त्वमिहागतः । श्रुत्वा स्वनं तु पापस्य राघवस्त्वब्रवीदिदम्
सौमित्रिस्त्वब्रवीद्वाक्यं सीतावाग्बाणपीडितः । प्रभोऽत्राहं समायातः कालयोगान्न संशयः
तदा तौ पर्णशालायां गत्वा वीक्ष्यातिदुःखितौ । जानक्यन्वेषणे यत्नमुभौ कर्तुं समुद्यतौ
मार्गमाणौ तु सम्प्राप्तौ यत्रासौ पतितः खगः । जटायुः प्राणशेषस्तु पतितः पृथिवीतले
तेनोक्तं रावणेनाद्य हृताऽसौ जनकात्मजा । मया निरुद्धः पापात्मा पातितोऽहं मृधे पुनः
इत्युक्त्वाऽसौ गतप्राणः संस्कृतो राघवेण वै । कृत्वौर्घ्वदैहिकं रामलक्ष्मणौ निर्गतौ ततः
कबन्धं घातयित्वासौ शापाच्चामोचयत्प्रभुः । वचनात्तस्य हरिणा सख्यं चक्रेऽथ राघवः
हत्वा च वालिनं वीरं किष्किन्धाराज्यमुत्तमम् । सुग्रीवाय ददौ रामः कृतसख्याय कार्यतः