दूरं वै राघवं दृष्ट्वा वने मायाविना किल । त्यक्त्वा त्वां नाधिगच्छामि पदमेकं शुचिस्मिते
कृरु धैर्यं न मन्येऽद्य रामं हन्तुं क्षमं क्षिप्तौ । नाहं त्यक्त्वा गमिष्यामि विलंघ्य रामभाषितम्
व्यास उवाच रुदती सुदती प्राह ते तदा विधिनोदिता । अक्रूरा वचनं क्रूरं लक्ष्मणं शुभलक्षणम्
अहं जानामि सौमित्रे सानुरागं च मां प्रति । प्रेरितं भरतेनैव मदर्थमिह सङ्गतम्
नाहं तथाविधा नारी स्वैरिणी कुहकाधम । मृते रामे पतिं त्वां न कर्तुमिच्छामि कामतः
नागमिष्यति चेद्रामो जीवितं सन्त्यजाम्यहम् । विना तेन न जीवामि विधुरा दुःखिता भृशम्
गच्छ वा तिष्ठ सौमित्रे न जानेऽहं तवेप्सितम् । क्व गतं तेऽद्य सौहार्दं ज्येष्ठे धर्मरते किल
तच्छ्रुत्वा वचनं तस्या लक्ष्मणो दीनमानसः । प्रोवाच रुद्धकण्ठस्तु तां तदा जनकात्मजाम्
किमात्थ क्षितिजे वाक्यं मयि क्रूरतरं किल । किं वदस्यत्यनिष्टं ते भावि जाने धिया ह्यहम्
इत्युक्त्वा निर्ययौ वीरस्तां त्यक्त्वा प्ररुदन्भृशम् । अग्रजस्य ययौ पश्यञ्छोकार्तः पृथिवीपते
गतेऽथ लक्ष्मणे तत्र रावणः कपटाकृतिः । भिक्षुवेषं ततः कृत्वा प्रविवेश तदाश्रमे
जानकी तं यतिं मत्वा दत्त्वार्घ्यं वन्यमादरात् । भैक्ष्यं समर्पयामास रावणाय दुरात्मने
तां पप्रच्छ स दुष्टात्मा नम्रपूर्वं मृदुस्वरम् । काऽसि पद्मपलाशाक्षि वने चैकाकिनी प्रिये
पिता कस्तेऽथ वामोरु भ्राता कः कः पतिस्तव । मूढेवैकाकिनी चात्र स्थिताऽसि वरवर्णिनि
निर्जने विपिने किं त्वं सौधार्हा त्वमसि प्रिये । उटजे मुनिपत्नीवद्देवकन्यासमप्रभा
व्यास उवाच इति तद्वचनं श्रुत्वा प्रत्युवाच विदेहजा । दिव्यं दिष्ट्या यतिं ज्ञात्वा मन्दोदर्याः पतिं तदा
राजा दशरथः श्रीमांश्चत्वारस्तस्य वै सुताः । तेषां ज्येष्ठः पतिर्मेऽस्ति रामनामेति विश्रुतः
विवासितोऽथ कैकेय्या कृते भूपतिना वरे । चतुर्दश समा रामो वसतेऽत्र सलक्ष्मणः
जनकस्य सुता चाहं सीतानाम्नीति विश्रुता । भङ्क्त्वा शैवं धनुः कामं रामेणाहं विवाहिता
रामबाहुबलेनात्र वसामो निर्भया वने । काञ्चनं मृगमालोक्य हन्तुं मे निर्गतः पतिः
लक्ष्मणोऽपि पुनः श्रुत्वा रवं भ्रातुर्गतोऽधुना । तयोर्बाहुबलादत्र निर्भयाऽहं वसामि वै
मयेदं कथितं सर्वं वृत्तान्तं वनवासके । तेऽत्रागत्यार्हणां ते वै करिष्यन्ति यथाविधि
यतिर्विष्णुस्वरूपोऽसि तस्मात्त्वं पूजितो मया । आश्रमो विपिने घोरे कृतोऽस्ति रक्षसां कुले
तस्मात्त्वां परिपृच्छामि सत्यं ब्रूहि ममाग्रतः । कोऽसि त्रिदण्डिरूपेण विपिने त्वं समागतः
रावण उवाच लङ्केशोऽहं मरालाक्षि श्रीमान्मन्दोदरीपतिः । त्वत्कृते तु कृतं रूपं मयेत्थं शोभनाकृते
आगतोऽहं वरारोहे भगिन्या प्रेरितोऽत्र वै । जनस्थाने हतौ श्रुत्वा भ्रातरौ खरदूषणौ
अङ्गीकुरु नृपं मां त्वं त्यक्त्वा तं मानुषं पतिम् । हृतराज्यं गतश्रीकं निर्बलं वनवासिनम्
पट्टराज्ञी भव त्वं मे मन्दोदर्युपरि स्फुटम् । दासोऽस्मि तव तन्वङ्गि स्वामिनी भव भामिनि
जेताऽहं लोकपालानां पतामि तव पादयोः । करं गृहाण मेऽद्य त्वं सनाथं कुरु जानकि
पिता ते याचितः पूर्वं मया वै त्वत्कृतेऽबले । जनको मामुवाचेत्थं पणबन्धो मया कृतः