राज्यं सुताय चैकेन भरताय महात्मने । रामाय वनवासञ्च चतुर्दशसमास्तथा
रामस्तु वचनात्तस्याः सीतालक्ष्मणसंयुतः । जगाम दण्डकारण्यं राक्षसैरुपसेवितम्
राजा दशरथः पुत्रविरहेण प्रपीडितः । जहौ प्राणानमेयात्मा पूर्वशापमनुस्मरन्
भरतः पितरं दृष्ट्वा मृतं मातृकृतेन वै । राज्यमृद्धं न जग्राह भ्रातुः प्रियचिकीर्षया
पञ्चवट्यां वसन् रामो रावणावरजां वने । शूर्पणखां विरूपां वै चकारातिस्मरातुराम्
खरादयस्तु तां दृष्ट्वा छिन्ननासां निशाचराः । चक्रुः सङ्ग्राममतुलं रामेणामिततेजसा
स जघान खरादींश्च दैत्यानतिबलान्वितान् । मुनीनां हितमन्विच्छन् रामः सत्यपराक्रमः
गत्वा शूर्पणखा लङ्कां खरदूषणघातनम् । दूषिता कथयामास रावणाय च राघवात्
सोऽपि श्रुत्वा विनाशं तं जातः क्रोधवशः खलः । जगाम रथमारुह्य मारीचस्याश्रमं तदा
कृत्वा हेममृगं नेतुं प्रेषयामास रावणः । सीताप्रलोभनार्थाय मायाविनमसम्भवम्
सोऽथ हेममृगो भूत्वा सीतादृष्टिपथं गतः । मायावी चातिचित्राङ्गश्चरन्प्रबलमन्तिके
तं दृष्ट्वा जानकी प्राह राघवं दैवनोदिता । चर्मानयस्व कान्तेति स्वाधीनपतिका यथा
अविचार्याथ रामोऽपि तत्र संस्थाप्य लक्ष्मणम् । सशरं धनुरादाय ययौ मृगपदानुगः
सारङ्गोऽपि हरिं दृष्ट्वा मायाकोटिविशारदः । दृश्यादृश्यो बभूवाथ जगाम च वनान्तरम्
मत्वा हस्तगतं रामः क्रोधाकृष्टधनुः पुनः । जघान चातितीक्ष्णेन शरेण कृत्रिमं मृगम्
स हतोऽतिबलात्तेन चुक्रोश भृशदुःखितः । हा लक्ष्मण हतोऽस्मीति मायावी नश्वरः खलः
स शब्दस्तुमुलस्तावज्जानक्या संश्रुतस्तदा । राघवस्येति सा मत्वा दीना देवरमब्रवीत्
गच्छ लक्ष्मण तूर्णं त्वं हतोऽसौ रघुनन्दनः । त्वामाह्वयति सौमित्रे साहाय्यं कुरु सत्वरम्
तत्राह लक्ष्मणः सीतामम्ब रामवधादपि । नाहं गच्छेऽद्य मुक्त्वा त्वामसहायामिहाश्रमे
आज्ञा मे राघवस्यात्र तिष्ठेति जनकात्मजे । तदतिक्रमभीतोऽहं न त्यजामि तवान्तिकम्
दूरं वै राघवं दृष्ट्वा वने मायाविना किल । त्यक्त्वा त्वां नाधिगच्छामि पदमेकं शुचिस्मिते
कृरु धैर्यं न मन्येऽद्य रामं हन्तुं क्षमं क्षिप्तौ । नाहं त्यक्त्वा गमिष्यामि विलंघ्य रामभाषितम्
व्यास उवाच रुदती सुदती प्राह ते तदा विधिनोदिता । अक्रूरा वचनं क्रूरं लक्ष्मणं शुभलक्षणम्
अहं जानामि सौमित्रे सानुरागं च मां प्रति । प्रेरितं भरतेनैव मदर्थमिह सङ्गतम्
नाहं तथाविधा नारी स्वैरिणी कुहकाधम । मृते रामे पतिं त्वां न कर्तुमिच्छामि कामतः
नागमिष्यति चेद्रामो जीवितं सन्त्यजाम्यहम् । विना तेन न जीवामि विधुरा दुःखिता भृशम्
गच्छ वा तिष्ठ सौमित्रे न जानेऽहं तवेप्सितम् । क्व गतं तेऽद्य सौहार्दं ज्येष्ठे धर्मरते किल
तच्छ्रुत्वा वचनं तस्या लक्ष्मणो दीनमानसः । प्रोवाच रुद्धकण्ठस्तु तां तदा जनकात्मजाम्
किमात्थ क्षितिजे वाक्यं मयि क्रूरतरं किल । किं वदस्यत्यनिष्टं ते भावि जाने धिया ह्यहम्
इत्युक्त्वा निर्ययौ वीरस्तां त्यक्त्वा प्ररुदन्भृशम् । अग्रजस्य ययौ पश्यञ्छोकार्तः पृथिवीपते