तौ समेत्य मुनिं मार्गे जग्मतुश्चारुदर्शनौ । ताटका निहता मार्गे राक्षसी घोरदर्शना
रामेणैकेन बाणेन मुनीनां दुःखदा सदा । यज्ञरक्षा कृता तत्र सुबाहुर्निहतः शठः
मारीचोऽथ मृतप्रायो निक्षिप्तो बाणवेगतः । एवं कृत्वा महत्कर्म यज्ञस्य परिरक्षणम्
गतास्ते मिथिलां सर्वे रामलक्ष्मणकौशिकाः । अहल्या मोचिता शापान्निष्पापा सा कृताऽबला
विदेहनगरे तौ तु जग्मतुर्मुनिना सह । बभञ्ज शिवचापञ्च जनकेन पणीकृतम्
उपयेमे ततः सीतां जानकीञ्च रमांशजाम् । लक्ष्मणाय ददौ राजा पुत्रीमेकां तथोर्मिलाम्
कुशध्वजसुते कन्ये प्रापतुर्भ्रातरावुभौ । तथा भरतशत्रुघ्नौ सुशिलौ शुभलक्षणौ
एवं दारक्रियास्तेषां भ्रातॄणां चाभवन्नृप । चतुर्णां मिथिलायां तु यथाविधि विधानतः
राज्ययोग्यं सुतं दृष्ट्वा राजा दशरथस्तदा । राघवाय धुरं दातुं मनश्चक्रे निजाय वै
सम्भारं विहितं दृष्ट्वा कैकेयी पूर्वकल्पितौ । वरौ सम्प्रार्थयामास भर्तारं वशवर्तिनम्
राज्यं सुताय चैकेन भरताय महात्मने । रामाय वनवासञ्च चतुर्दशसमास्तथा
रामस्तु वचनात्तस्याः सीतालक्ष्मणसंयुतः । जगाम दण्डकारण्यं राक्षसैरुपसेवितम्
राजा दशरथः पुत्रविरहेण प्रपीडितः । जहौ प्राणानमेयात्मा पूर्वशापमनुस्मरन्
भरतः पितरं दृष्ट्वा मृतं मातृकृतेन वै । राज्यमृद्धं न जग्राह भ्रातुः प्रियचिकीर्षया
पञ्चवट्यां वसन् रामो रावणावरजां वने । शूर्पणखां विरूपां वै चकारातिस्मरातुराम्
खरादयस्तु तां दृष्ट्वा छिन्ननासां निशाचराः । चक्रुः सङ्ग्राममतुलं रामेणामिततेजसा
स जघान खरादींश्च दैत्यानतिबलान्वितान् । मुनीनां हितमन्विच्छन् रामः सत्यपराक्रमः
गत्वा शूर्पणखा लङ्कां खरदूषणघातनम् । दूषिता कथयामास रावणाय च राघवात्
सोऽपि श्रुत्वा विनाशं तं जातः क्रोधवशः खलः । जगाम रथमारुह्य मारीचस्याश्रमं तदा
कृत्वा हेममृगं नेतुं प्रेषयामास रावणः । सीताप्रलोभनार्थाय मायाविनमसम्भवम्
सोऽथ हेममृगो भूत्वा सीतादृष्टिपथं गतः । मायावी चातिचित्राङ्गश्चरन्प्रबलमन्तिके
तं दृष्ट्वा जानकी प्राह राघवं दैवनोदिता । चर्मानयस्व कान्तेति स्वाधीनपतिका यथा
अविचार्याथ रामोऽपि तत्र संस्थाप्य लक्ष्मणम् । सशरं धनुरादाय ययौ मृगपदानुगः
सारङ्गोऽपि हरिं दृष्ट्वा मायाकोटिविशारदः । दृश्यादृश्यो बभूवाथ जगाम च वनान्तरम्
मत्वा हस्तगतं रामः क्रोधाकृष्टधनुः पुनः । जघान चातितीक्ष्णेन शरेण कृत्रिमं मृगम्
स हतोऽतिबलात्तेन चुक्रोश भृशदुःखितः । हा लक्ष्मण हतोऽस्मीति मायावी नश्वरः खलः
स शब्दस्तुमुलस्तावज्जानक्या संश्रुतस्तदा । राघवस्येति सा मत्वा दीना देवरमब्रवीत्
गच्छ लक्ष्मण तूर्णं त्वं हतोऽसौ रघुनन्दनः । त्वामाह्वयति सौमित्रे साहाय्यं कुरु सत्वरम्
तत्राह लक्ष्मणः सीतामम्ब रामवधादपि । नाहं गच्छेऽद्य मुक्त्वा त्वामसहायामिहाश्रमे
आज्ञा मे राघवस्यात्र तिष्ठेति जनकात्मजे । तदतिक्रमभीतोऽहं न त्यजामि तवान्तिकम्