एवं गच्छति काले वै सुशिलो नामतो गुणैः । दारिद्र्यार्तो द्विजं शान्तं पप्रच्छातिबुभुक्षितः
सुशील उवाच भो भूदेव कृपां कृत्वा वदस्वाद्य महामते । कथं दारिद्र्यनाशः स्यादिति मे निश्चयेन वै
धनैषणा मे नैवास्ति धनी स्यामिति मानद । कुटुम्बभरणार्थं वै पृच्छामि त्वां द्विजोत्तम
पुत्री सुतस्तु मे बालो भक्षार्थी रोदते भृशम् । तावन्मात्रं गृहे नान्नं मुष्टिमेकां ददाम्यहम्
विसर्जितो यतो गेहाद्गतो बालो रुदन्मया । अतो मे दह्यतेऽत्यर्थं किं करोमि धनं विना
विवाहोऽस्ति सुताया मे नास्ति वित्तं करोमि किम् । दशवर्षाधिकायास्तु दानकालोऽपि यात्यलम्
तेन शोचामि विप्रेन्द्र सर्वज्ञोऽसि दयानिधे । तपो दानं व्रतं किञ्चिद्ब्रूहि मन्त्रजपं तथा
येनाहं पोष्यवर्गस्य करोमि द्विज पोषणम् । तावन्मे स्याद्धनप्राप्तिर्नाधिकं प्रार्थये किल
त्वत्प्रसादात्कुटुम्बं मे सुखितं प्रभवेदिह । तत्कुरुष्व महाभाग ज्ञानेन परिचिन्त्य च
व्यास उवाच इति पृष्टस्तथा तेन ब्राह्मणः संशितव्रतः । उवाच परमप्रीतस्तं वैश्यं नृपसत्तम
वैश्यवर्य कुरुष्वाद्य नवरात्रव्रतं शुभम् । पूजनं भगवत्याश्च हवनं भोजनं तथा
वेदपारायणं शक्तिजपहोमादिकं तथा । कुरुष्वाद्य यथाशक्ति तव कार्यं भविष्यति
एतस्मादपरं किञ्चिद्व्रतं नास्ति धरातले । नवरात्राभिधं वैश्य पावनं सुखदं तथा
ज्ञानदं मोक्षदं चैव सुखसन्तानवर्धनम् । शत्रुनाशकरं कामं नवरात्रव्रतं सदा
राज्यभ्रष्टेन रामेण सीताविरहितेन च । किष्किन्धायां व्रतं चैतत्कृतं दुःखातुरेण वै
प्रतप्तेनापि रामेण सीताविरहवह्निना । विधिवत्पूजिता देवी नवरात्रव्रतेन वै
तेन प्राप्ताऽथ वैदेही कृत्वा सेतुं महार्णवे । हत्वा मन्दोदरीनाथं कुम्भकर्णं महाबलम्
मेघनादं सुतं हत्वा कृत्वा भूपं बिभीषणम् । पश्चादयोध्यामागत्य प्राप्तं राज्यमकण्टकम्
नवरात्रव्रतस्यास्य प्रभावेण विशांवर । सुखं भूमितले प्राप्तं रामेणामिततेजसा
व्यास उवाच इति विप्रवचः श्रुत्वा स वैश्यस्तं द्विजं गुरुम् । कृत्वा जग्राह सन्मन्त्रं मायाबीजाभिधं नृप
जजाप परया भक्त्या नवरात्रमतन्द्रितः । नानाविधोपहारैश्च पूजयामास सादरम्
नवसंवत्सरं चैव मायाबीजपरायणः । नवमे वत्सरान्ते तु महाष्टम्यां महेश्वरी
अर्धरात्रे तु सञ्जाते प्रत्यक्षं दर्शनं ददौ । नानावरप्रदानैश्च कृतकृत्यञ्चकार तम्
रामचरित्रवर्णनम् जनमेजय उवाच कथं रामेण तच्चीर्णं व्रतं देव्याः सुखप्रदम् । राज्यभ्रष्टः कथं सोऽथ कथं सीता हृता पुनः
व्यास उवाच राजा दशरथः श्रीमानयोध्याधिपतिः पुरा । सूर्यवंशधरश्चासीद्देवब्राह्मणपूजकः
चत्वारो जज्ञिरे तस्य पुत्रा लोकेषु विश्रुताः । रामलक्ष्मणशत्रुघ्ना भरतश्चेति नामतः
राज्ञः प्रियकराः सर्वे सदृशा गुणरूपतः । कौसल्यायाः सुतो रामः कैकेय्या भरतः स्मृतः
सुमित्रातनयौ जातौ यमलौ द्वौ मनोहरौ । ते जाता वै किशोराश्च धनुर्बाणधराः किल
सूनवः कृतसंस्कारा भूपतेः सुखवर्धकाः । कौशिकेन तदाऽऽगत्य प्रार्थितो रघुनन्दनः
राघवं मखरक्षार्थं सूनुं षोडशवार्षिकम् । तस्मै सोऽयं ददौ रामं कौशिकाय सलक्ष्मणम्