व्रतानि यानि चान्यानि दानानि विविधानि च । नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले
धनधान्यप्रदं नित्यं सुखसन्तानवृद्धिदम् । आयुरारोग्यदं चैव स्वर्गदं मोक्षदं तथा
विद्यार्थी वा धनार्थी वा पुत्रार्थी वा भवेन्नरः । तेनेदं विधिवत्कार्यं व्रतं सौभाग्यदं शिवम्
विद्यार्थी सर्वविद्यां वै प्राप्नोति व्रतसाधनात् । राजभ्रष्टो नृपो राज्यं समवाप्नोति सर्वदा
पूर्वजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम् । ते व्याधिनो दरिद्राश्च भवन्ति पुत्रवर्जिताः
वन्ध्या च या भवेन्नारी विधवा धनवर्जिता । अनुमा तत्र कर्तव्या नेयं कृतवती व्रतम्
नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले । स कथं विभवं प्राप्य मोदते च तथा दिवि
रक्तचन्दनसंमिश्रैः कोमलैर्बिल्वपत्रकैः । भवानी पूजिता येन स भवेन्नृपतिः क्षितौ
नाराधिता येन शिवा सनातनी दुःखार्तिहा सिद्धिकरी जगद्वरा । दुःखावृतः शत्रुयुतश्च भूतले नूनं दरिद्रो भवतीह मानवः
यां विष्णुरिन्द्रो हरपद्मजौ तथा वह्निः कुबेरो वरुणो दिवाकरः । ध्यायन्ति सर्वार्थसमाप्तिनन्दिता- स्तां किं मनुष्या न भजन्ति चण्डिकाम्
स्वाहा स्वधा नाम मनुप्रभावै- स्तृप्यन्ति देवाः पितरस्तथैव । यज्ञेषु सर्वेषु मुदा हरन्ति यन्नाम युग्मश्रुतिभिर्मुनीन्द्राः
यस्येच्छया सृजति विश्वमिदं प्रजेशो नानावतारकलनं कुरुते हरिश्च । नूनं करोति जगतः किल भस्म शम्भु- स्तां शर्मदां न भजते नु कथं मनुष्यः
नैकोऽस्ति सर्वभुवनेषु तया विहीनो देवो नरोऽथ विहगः किल पन्नगो वा । गन्धर्वराक्षसपिशाचनगेषु नूनं यः स्पन्दितुं भवति शक्तियुतो यथेच्छम्
तां न सेवेत कश्चण्डीं सर्वकामार्थदां शिवाम् । व्रतं तस्या न कः कुर्याद्वाञ्छन्नर्थचतुष्टयम्
महापातकसंयुक्तो नवरात्रव्रतं चरेत् । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा
पुरा कश्चिद्वणिग्दीनो धनहीनः सुदुःखितः । कुटुम्बी चाभवत्कश्चित् कोसले नृपसत्तम
अपत्यानि बहून्यस्याभवन्क्षुत्पीडितानि च । भक्ष्यं किञ्चित्तु सायाह्ने प्रापुस्तस्य च बालकाः
भुङ्क्ते स्म कार्यकर्ताऽसौ परस्याथ बुभुक्षितः । कुटुम्बभरणं तत्र चकारातिनिराकुलः
सदा धर्मरतः शान्तः सदाचारश्च सत्यवाक् । अक्रोधनश्च धृतिमान्निर्मदश्चानसूयकः
सम्पूज्य देवता नित्यं पितॄनप्यतिथींस्तथा । भुञ्जाने पोष्यवर्गेऽथ कृतवान्भोजनं वणिक्
एवं गच्छति काले वै सुशिलो नामतो गुणैः । दारिद्र्यार्तो द्विजं शान्तं पप्रच्छातिबुभुक्षितः
सुशील उवाच भो भूदेव कृपां कृत्वा वदस्वाद्य महामते । कथं दारिद्र्यनाशः स्यादिति मे निश्चयेन वै
धनैषणा मे नैवास्ति धनी स्यामिति मानद । कुटुम्बभरणार्थं वै पृच्छामि त्वां द्विजोत्तम
पुत्री सुतस्तु मे बालो भक्षार्थी रोदते भृशम् । तावन्मात्रं गृहे नान्नं मुष्टिमेकां ददाम्यहम्
विसर्जितो यतो गेहाद्गतो बालो रुदन्मया । अतो मे दह्यतेऽत्यर्थं किं करोमि धनं विना
विवाहोऽस्ति सुताया मे नास्ति वित्तं करोमि किम् । दशवर्षाधिकायास्तु दानकालोऽपि यात्यलम्
तेन शोचामि विप्रेन्द्र सर्वज्ञोऽसि दयानिधे । तपो दानं व्रतं किञ्चिद्ब्रूहि मन्त्रजपं तथा
येनाहं पोष्यवर्गस्य करोमि द्विज पोषणम् । तावन्मे स्याद्धनप्राप्तिर्नाधिकं प्रार्थये किल
त्वत्प्रसादात्कुटुम्बं मे सुखितं प्रभवेदिह । तत्कुरुष्व महाभाग ज्ञानेन परिचिन्त्य च
व्यास उवाच इति पृष्टस्तथा तेन ब्राह्मणः संशितव्रतः । उवाच परमप्रीतस्तं वैश्यं नृपसत्तम