तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकम् । चालयन्निर्गतस्तूर्णं सर्वदेशदिदृक्षया
प्रेत्यात्र चालयंश्चक्रं नेमिः शीर्णोऽत्र पश्यतः । तेनेदं नैमिषं प्रोक्तं क्षेत्रं परमपावनम्
कलिप्रवेशो नैवात्र तस्मात्स्थानं कृतं मया । मुनिभिः सिद्धसङ्घैश्च कलिभीतैर्महात्मभिः
पशुहीनाः कृता यज्ञाः पुरोडाशादिभिः किल । कालातिवाहनं कार्यं यावत्सत्ययुगागमः
भाग्ययोगेन सम्प्राप्तः सूत त्वं चात्र सर्वथा । कथयाद्य पुराणं हि पावनं ब्रह्मसम्मतम्
सूत शुश्रूषवः सर्वे वक्ता त्वं मतिमानथ । निर्व्यापारा वयं नूनमेकचित्तास्तथैव च
त्वं सूत भव दीर्घायुस्तापत्रयविवर्जितः । कथयाद्य पुराणं हि पुण्यं भागवतं शिवम्
यत्र धर्मार्थकामानां वर्णनं विधिपूर्वकम् । विद्यां प्राप्य तया मोक्षः कथितो मुनिना किल
द्वैपायनेन मुनिना कथितं यच्च पावनम् । न तृप्यामो वयं सूत कथां श्रुत्वा मनोरमाम्
सकलगुणगणानामेकपात्रं पवित्र- ॥ मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् । निखिलमलगणानां नाशकृत्कामकन्दं
पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम् सूत उवाच शृण्वन्तु सम्प्रवक्ष्यामि पुराणानि मुनीश्वराः । यथाश्रुतानि तत्त्वेन व्यासात्सत्यवतीसुतात्
मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । अनापलिंगकूस्कानि पुराणानि पृथक्पृथक्
चतुर्दशसहस्रं च मत्स्यमाद्यं प्रकीर्तितम्
चतुर्दशसहस्राणि तथा पञ्चशतानि च
अष्टादशसहस्रं वै पुण्यं भागवतं किल । तथा चायुतसंख्याकं पुराणं ब्रह्मसंज्ञकम्
द्वादशैव सहस्राणि ब्रह्माण्डं च शताधिकम् । तथाष्टादशसाहस्रं ब्रह्मवैवर्तमेव च
अयुतं वामनाख्यं च वायव्यं षट्शतानि च । चतुर्विंशतिसंख्यातः सहस्राणि तु शौनक
त्रयोविंशतिसाहस्रं वैष्णवं परमाद्भुतम् । चतुर्विंशतिसाहस्रं वाराहं परमाद्भुतम्
षोडशैव सहस्राणि पुराणं चाग्निसंज्ञितम् । पञ्चविंशतिसाहस्रं नारदं परमं मतम्
पञ्चपञ्चाशत्साहस्रं पद्माख्यं विपुलं मतम् । एकादशसहस्राणि लिङ्गाख्यं चातिविस्मृतम्
एकोनविंशत्साहस्रं गारुडं हरिभाषितम् । सप्तदशसहस्रं च पुराणं कूर्मभाषितम्
एकाशीतिसहस्राणि स्कन्दाख्यं परमाद्भुतम् । पुराणाख्या च संख्या च विस्तरेण मयानघाः
तथैवोपपुराणानि शृण्वन्तु ऋषिसत्तमाः । सनत्कुमारं प्रथमं नारसिंहं ततः परम्
नारदीयं शिवं चैव दौर्वाससमनुत्तमम् । कापिलं मानवं चैव तथा चौशनसं स्मृतम्
वारुणं कालिकाख्यं च साम्बं नन्दिकृतं शुभम् । सौरं पाराशरप्रोक्तमादित्यं चातिविस्तरम्
माहेश्वरं भागवतं वासिष्ठं च सविस्तरम् । एतान्युपपुराणानि कथितानि महात्मभिः
अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमतुलं चक्रे तदुपबृंहितम्
मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे । प्रादुःकरोति धर्मार्थी पुराणानि यथाविधि
द्वापरे द्वापरे विष्णुर्व्यासरूपेण सर्वदा । वेदमेकं स बहुधा कुरुते हितकाम्यया
अल्पायुषोऽल्पबुद्धींश्च विप्रान्ज्ञात्वा कलावथ । पुराणसंहितां पुण्यां कुरुतेऽसौ युगे युगे