काली कालयते सर्वं ब्रह्माण्डं सचराचरम् । कल्पान्तसमये या तां कालिकां पूजयाम्यहम्
तां चण्डपापहरणीं चण्डिकां पूजयाम्यहम्
अकारणात्समुत्पत्तिर्यन्मयैः परिकीर्तिता । यस्यास्तां सुखदां देवीं शाम्भवीं पूजयाम्यहम्
दुर्गात्त्रायति भक्तं या सदा दुर्गातिनाशिनी । दुर्ज्ञेया सर्वदेवानां तां दुर्गां पूजयाम्यहम्
सुभद्राणि च भक्तानां कुरुते पूजिता सदा । अभद्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम्
एभिर्मन्त्रैः पूजनीयाः कन्यकाः सर्वदा बुधैः । वस्त्रालङ्करणैर्माल्यैर्गन्धैरुच्चावचैरपि
देवीपूजामहत्त्ववर्णनम् व्यास उवाच हीनाङ्गीं वर्जयेत्कन्यां कुष्ठयुक्तां व्रणाङ्किताम् । गन्धस्फुरितहीनाङ्गीं विशालकुलसम्भवाम्
जात्यन्धां केकरां काणां कुरूपां बहुरोमशाम् । सन्त्यजेद्रोगिणीं कन्यां रक्तपुष्पादिनाङ्किताम्
क्षामां गर्भसमुद्भूतां गोलकां कन्यकोद्भवाम् । वर्जनीयाः सदा चैताः सर्वपूजादिकर्मसु
अरोगिणीं सुरूपाङ्गीं सुन्दरीं व्रणवर्जिताम् । एकवंशसमुद्भूतां कन्यां सम्यक्प्रपूजयेत्
ब्राह्मणी सर्वकार्येषु जयार्थे नृपवंशजा । लाभार्थे वैश्यवंशोत्था मता वा शूद्रवंशजा
ब्राह्मणैर्ब्रह्मजाः पूज्या राजन्यैर्ब्रह्मवंशजाः । वैश्यैस्त्रिवर्गजाः पूज्याश्चतस्रः पादसम्भवैः
कारुभिश्चैव वंशोत्था यथायोग्यं प्रपूजयेत् । नवरात्रविधानेन भक्तिपूर्वं सदैव हि
अशक्तो नियतं पूजां कर्तुञ्चेन्नवरात्रके । अष्टम्यां च विशेषेण कर्तव्यं पूजनं सदा
पुराऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी । प्रादुर्भूता महाघोरा योगिनी कोटिभिः सह
अतोऽष्टम्यां विशेषेण कर्तव्यं पूजनं सदा । नानाविधोपहारैश्च गन्धमाल्यानुलेपनैः
पायसैरामिषैर्होमैर्ब्राह्मणानां च भोजनैः । फलपुष्पोपहारैश्च तोषयेज्जगदम्बिकाम्
उपवासे ह्यशक्तानां नवरात्रव्रते पुनः । उपोषणत्रयं प्रोक्तं यथोक्तफलदं नृप
सप्तम्यां च तथाऽष्टम्यां नवम्यां भक्तिभावतः । त्रिरात्रकरणात्सर्वं फलं भवति पूजनात्
पूजाभिश्चैव होमैश्च कुमारिपूजनैस्तथा । सम्पूर्णं तद्व्रतं प्रोक्तं विप्राणां चैव भोजनैः
व्रतानि यानि चान्यानि दानानि विविधानि च । नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले
धनधान्यप्रदं नित्यं सुखसन्तानवृद्धिदम् । आयुरारोग्यदं चैव स्वर्गदं मोक्षदं तथा
विद्यार्थी वा धनार्थी वा पुत्रार्थी वा भवेन्नरः । तेनेदं विधिवत्कार्यं व्रतं सौभाग्यदं शिवम्
विद्यार्थी सर्वविद्यां वै प्राप्नोति व्रतसाधनात् । राजभ्रष्टो नृपो राज्यं समवाप्नोति सर्वदा
पूर्वजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम् । ते व्याधिनो दरिद्राश्च भवन्ति पुत्रवर्जिताः
वन्ध्या च या भवेन्नारी विधवा धनवर्जिता । अनुमा तत्र कर्तव्या नेयं कृतवती व्रतम्
नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले । स कथं विभवं प्राप्य मोदते च तथा दिवि
रक्तचन्दनसंमिश्रैः कोमलैर्बिल्वपत्रकैः । भवानी पूजिता येन स भवेन्नृपतिः क्षितौ
नाराधिता येन शिवा सनातनी दुःखार्तिहा सिद्धिकरी जगद्वरा । दुःखावृतः शत्रुयुतश्च भूतले नूनं दरिद्रो भवतीह मानवः
यां विष्णुरिन्द्रो हरपद्मजौ तथा वह्निः कुबेरो वरुणो दिवाकरः । ध्यायन्ति सर्वार्थसमाप्तिनन्दिता- स्तां किं मनुष्या न भजन्ति चण्डिकाम्