यथाशक्ति प्रकर्तव्यो नियमो व्रतहेतवे । पश्चात्पूजा प्रकर्तव्या विधिवन्मन्त्रपूर्वकम्
चन्दनागुरुकर्पूरैः कुसुमैश्च सुगन्धिभिः । मन्दारकरजाशोकचम्पकैः करवीरकैः
मालतीब्रह्मकापुष्पैस्तथा बिल्वदलैः शुभैः । पूजयेज्जगतां धात्रीं धूपैर्दीपैर्विधानतः
फलैर्नानाविधैरर्घ्यं प्रदातव्यं च तत्र वै । नारिकेलैर्मातुलुङ्गैर्दाडिमीकदलीफलैः
नारङ्गैः पनसैश्चैव तथा पूर्णफलैः शुभैः । अन्नदानं प्रकर्तव्यं भक्तिपूर्वं नराधिप
मांसाशनं ये कुर्वन्ति तैः कार्यं पशुहिंसनम् । महिषाजवराहाणां बलिदानं विशिष्यते
देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम् । न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ
अहिंसा याज्ञिकी प्रोक्ता सर्वशास्त्रविनिर्णये । देवतार्थे विसृष्टानां पशूनां स्वर्गतिर्ध्रुवा
होमार्थं चैव कर्तव्यं कुण्डं चैव त्रिकोणकम् । स्थण्डिलं वा प्रकर्तव्यं त्रिकोणं मानतः शुभम्
त्रिकालं पूजनं नित्यं नानाद्रव्यैर्मनोहरैः । गीतवादित्रनृत्यैश्च कर्तव्यश्च महोत्सवः
नित्यं भूमौ च शयनं कुमारीणां च पूजनम् । वस्त्रालङ्करणैर्दिव्यैर्भोजनैश्च सुधामयैः
एकैकां पूजयेन्नित्यमेकवृद्ध्या तथा पुनः । द्विगुणं त्रिगुणं वाऽपि प्रत्येकं नवकं च वा
विभवस्यानुसारेण कर्तव्यं पूजनं किल । वित्तशाठ्यं न कर्तव्यं राजञ्छक्तिमखे सदा
एकवर्षा न कर्तव्या कन्या पूजाविधौ नृप । परमज्ञा तु भोगानां गन्धादीनां च बालिका
कुमारिका तु सा प्रोक्ता द्विवर्षा या भवेदिह । त्रिमूर्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका
रोहिणी पञ्चवर्षा च षड्वर्षा कालिका स्मृता । चण्डिका सप्तवर्षा स्यादष्टवर्षा च शाम्भवी
नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी । अत ऊर्ध्वं न कर्तव्या सर्वकार्यविगर्हिता
एभिश्च नामभिः पूजा कर्तव्या विधिसंयुता । तासां फलानि वक्ष्यामि नवानां पूजने सदा
कुमारी पूजिता कुर्याद्दुःखदारिद्रयनाशनम् । शत्रुक्षयं धनायुष्यं बलवृद्धिं करोति वै
त्रिमूर्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत् । धनधान्यागमश्चैव पुत्रपौत्रादिवृद्धयः
विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः । सुखार्थी पूजयेन्नित्यं कल्याणीं सर्वकामदाम्
कालिकां शत्रुनाशार्थं पूजयेद्भक्तिपूर्वकम् । ऐश्वर्यधनकामश्च चण्डिकां परिपूजयेत्
पूजयेच्छाम्भवीं नित्यं नृपसंमोहनाय च । दुःखदारिद्र्यनाशाय सङ्ग्रामे विजयाय च
क्रूरशत्रुविनाशार्थं तथोग्रकर्मसाधने । दुर्गाञ्च पूजयेद्भक्त्या परलोकसुखाय च
वाञ्छितार्थस्य सिद्ध्यर्थं सुभद्रां पूजयेत्सदा । रोहिणीं रोगनाशाय पूजयेद्विधिवन्नरः
श्रीरस्त्विति च मन्त्रेण पूजयेद्भक्तितत्परः । श्रीयुक्तमन्त्रैरथवा बीजमन्त्रैरथापि वा
कुमारस्य च तत्त्वानि या सृजत्यपि लीलया । कादीनपि च देवांस्तां कुमारीं पूजयाम्यहम्
सत्त्वादिभिस्त्रिमूर्तिर्या तैर्हि नानास्वरूपिणी । त्रिकालव्यापिनी शक्तिस्त्रिमूर्तिं पूजयाम्यहम्
कल्याणकारिणी नित्यं भक्तानां पूजिताऽनिशम् । पूजयामि च तां भक्त्या कल्याणीं सर्वकामदाम्
रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि वै । या देवी सर्वभूतानां रोहिणीं पूजयाम्यहम्