तस्मात्तत्र प्रकर्तव्यं चण्डिकापूजनं बुधैः । चैत्राश्विने शुभे मासे भक्तिपूर्वं नराधिप
अमावास्यां च सम्प्राप्य सम्भारं कल्पयेच्छुभम् । हविष्यं चाशनं कार्यमेकभुक्तं तु तद्दिने
मण्डपस्तु प्रकर्तव्यः समे देशे शुभे स्थले । हस्तषोडशमानेन स्तम्भध्वजसमन्वितः
गौरमृद्गोमयाभ्यां च लेपनं कारयेत्ततः । तन्मध्ये वेदिका शुभ्रा कर्तव्या च समा स्थिरा
चतुर्हस्ता च हस्तोच्छ्रा पीठार्थं स्थानमुत्तमम् । तोरणानि विचित्राणि वितानञ्च प्रकल्पयेत्
रात्रौ द्विजानथामन्त्र्य देवीतत्त्वविशारदान् । आचारनिरतान्दान्तान्वेदवेदाङ्गपारगान्
प्रतिपद्दिवसे कार्यं प्रातःस्नानं विधानतः । नद्यां नदे तडागे वा वाप्यां कूपे गृहेऽथवा
प्रातर्नित्यं पुरः कृत्वा द्विजानां वरणं ततः । अर्घ्यपाद्यादिकं सर्वं कर्तव्यं मधुपूर्वकम्
वस्त्रालङ्करणादीनि देयानि च स्वशक्तितः । वित्तशाठ्यं न कर्तव्यं विभवे सति कर्हिचित्
विप्रैः सन्तोषितैः कार्यं सम्पूर्णं सर्वथा भवेत् । नव पञ्च त्रयश्चैको देव्याः पाठे द्विजाः स्मृताः
वरयेद्ब्राह्मणं शान्तं पारायणकृते तदा । स्वस्तिवाचनकं कार्यं वेदमन्त्रविधानतः
वेद्यां सिंहासनं स्थाप्य क्षौमवस्त्रसमन्वितम् । तत्र स्थाप्याऽम्बिका देवी चतुर्हस्तायुधान्विता
रत्नभूषणसंयुक्ता मुक्ताहारविराजिता । दिव्याम्बरधरा सौम्या सर्वलक्षणसंयुता
शंखचक्रगदापद्मधरा सिंहे स्थिता शिवा । अष्टादशभुजा वाऽपि प्रतिष्ठाप्या सनातनी
अर्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् । स्थापयेत्पीठपूजार्थं कलशं तत्र पार्श्वतः
पञ्चपल्लवसंयुक्तं वेदमन्त्रैः सुसंस्कृतम् । सुतीर्थजलसम्पूर्णं हेमरत्नैः समन्वितम्
पार्श्वे पूजार्थसम्भारान्परिकल्प्य समन्ततः । गीतवादित्रनिर्घोषान्कारयेन्मङ्गलाय वै
तिथौ हस्तान्वितायां च नन्दायां पूजनं वरम् । प्रथमे दिवसे राजन् विधिवत्कामदं नृणाम्
नियमं प्रथमं कृत्वा पश्चात्पूजां समाचरेत् । उपवासेन नक्तेन चैकभुक्तेन वा पुनः
करिष्यामि व्रतं मातर्नवरात्रमनुत्तमम् । साहाय्यं कुरु मे देवि जगदम्ब ममाखिलम्
यथाशक्ति प्रकर्तव्यो नियमो व्रतहेतवे । पश्चात्पूजा प्रकर्तव्या विधिवन्मन्त्रपूर्वकम्
चन्दनागुरुकर्पूरैः कुसुमैश्च सुगन्धिभिः । मन्दारकरजाशोकचम्पकैः करवीरकैः
मालतीब्रह्मकापुष्पैस्तथा बिल्वदलैः शुभैः । पूजयेज्जगतां धात्रीं धूपैर्दीपैर्विधानतः
फलैर्नानाविधैरर्घ्यं प्रदातव्यं च तत्र वै । नारिकेलैर्मातुलुङ्गैर्दाडिमीकदलीफलैः
नारङ्गैः पनसैश्चैव तथा पूर्णफलैः शुभैः । अन्नदानं प्रकर्तव्यं भक्तिपूर्वं नराधिप
मांसाशनं ये कुर्वन्ति तैः कार्यं पशुहिंसनम् । महिषाजवराहाणां बलिदानं विशिष्यते
देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम् । न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ
अहिंसा याज्ञिकी प्रोक्ता सर्वशास्त्रविनिर्णये । देवतार्थे विसृष्टानां पशूनां स्वर्गतिर्ध्रुवा
होमार्थं चैव कर्तव्यं कुण्डं चैव त्रिकोणकम् । स्थण्डिलं वा प्रकर्तव्यं त्रिकोणं मानतः शुभम्
त्रिकालं पूजनं नित्यं नानाद्रव्यैर्मनोहरैः । गीतवादित्रनृत्यैश्च कर्तव्यश्च महोत्सवः