हवनं विधिवत्कृत्वा पूजयित्वाऽथ देवताम् । प्रासादे मतिमान् देव्याः स्थापयामास भूमिपः
उत्सवस्तत्र संवृत्तो वादित्राणाञ्च निःस्वनैः । ब्राह्मणानां वेदघोषैर्गानैस्तु विधिधैर्नृप
व्यास उवाच प्रतिष्ठाप्य शिवां देवीं विधिवद्वेदवादिभिः । पूजां नानाविधां राजा चकारातिविधानतः
कृत्वा पूजाविधिं राजा राज्यं प्राप्य स्वपैतृकम् । विख्यातश्चाम्बिका देवी कोसलेषु बभूव ह
राज्यं प्राप्य नृपः सर्वं सामन्तकनृपानथ । वशे चक्रेऽतिधर्मिष्ठान्सद्धर्मविजयी नृपः
यथा रामः स्वराज्येऽभूद्दिलीपस्य रघुर्यथा । प्रजानां वै सुखं तद्वन्मर्यादाऽपि तथाऽभवत्
धर्मो वर्णाश्रमाणां च चतुष्पादभवत्तथा । नाधर्मे रमते चित्तं केषामपि महीतले
ग्रामे ग्रामे च प्रासादांश्चक्रुः सर्वे जनाधिपाः । देव्याः पूजा तदा प्रीत्या कोसलेषु प्रवर्तिता
सुबाहुरपि काश्यां तु दुर्गायाः प्रतिमां शुभाम् । कारयित्वा च प्रासादं स्थापयामास भक्तितः
तत्र तस्या जनाः सर्वे प्रेमभक्तिपरायणाः । पूजां चक्रुर्विधानेन यथा विश्वेश्वरस्य ह
विख्याता सा बभूवाथ दुर्गादेवी धरातले । देशे देशे महाराज तस्या भक्तिर्व्यवर्धत
सर्वत्र भारते लोके सर्ववर्णेषु सर्वथा । भजनीया भवानी तु सर्वेषामभवत्तदा
शक्तिभक्तिरताः सर्वे मानिनश्चाभवन्नृप । आगमोक्तैरथ स्तोत्रैर्जपध्यानपरायणाः
नवरात्रेषु सर्वेषु चक्रुः सर्वे विधानतः । अर्चनं हवनं यागं देव्या भक्तिपरा जनाः
कुमारीपूजावर्णनम् जनमेजय उवाच नवरात्रे तु सम्प्राप्ते किं कर्तव्यं द्विजोत्तम । विधानं विधिवद्ब्रूहि शरत्काले विशेषतः
किं फलं खलु कस्तत्र विधिः कार्यो महामते । एतद्विस्तरतो ब्रूहि कृपया द्विजसत्तम
व्यास उवाच शृणु राजन्प्रवक्ष्यामि नवरात्रव्रतं शुभम् । शरत्काले विशेषेण कर्तव्यं विधिपूर्वकम्
वसन्ते च प्रकर्तव्यं तथैव प्रेमपूर्वकम् । द्वावृतू यमदंष्ट्राख्यौ नूनं सर्वजनेषु वै
शरद्वसन्तनामानौ दुर्गमौ प्राणिनामिह । तस्माद्यत्नादिदं कार्यं सर्वत्र शुभमिच्छता
द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम् । वसन्तशरदावेव सर्वनाशकरावुभौ
तस्मात्तत्र प्रकर्तव्यं चण्डिकापूजनं बुधैः । चैत्राश्विने शुभे मासे भक्तिपूर्वं नराधिप
अमावास्यां च सम्प्राप्य सम्भारं कल्पयेच्छुभम् । हविष्यं चाशनं कार्यमेकभुक्तं तु तद्दिने
मण्डपस्तु प्रकर्तव्यः समे देशे शुभे स्थले । हस्तषोडशमानेन स्तम्भध्वजसमन्वितः
गौरमृद्गोमयाभ्यां च लेपनं कारयेत्ततः । तन्मध्ये वेदिका शुभ्रा कर्तव्या च समा स्थिरा
चतुर्हस्ता च हस्तोच्छ्रा पीठार्थं स्थानमुत्तमम् । तोरणानि विचित्राणि वितानञ्च प्रकल्पयेत्
रात्रौ द्विजानथामन्त्र्य देवीतत्त्वविशारदान् । आचारनिरतान्दान्तान्वेदवेदाङ्गपारगान्
प्रतिपद्दिवसे कार्यं प्रातःस्नानं विधानतः । नद्यां नदे तडागे वा वाप्यां कूपे गृहेऽथवा
प्रातर्नित्यं पुरः कृत्वा द्विजानां वरणं ततः । अर्घ्यपाद्यादिकं सर्वं कर्तव्यं मधुपूर्वकम्
वस्त्रालङ्करणादीनि देयानि च स्वशक्तितः । वित्तशाठ्यं न कर्तव्यं विभवे सति कर्हिचित्
विप्रैः सन्तोषितैः कार्यं सम्पूर्णं सर्वथा भवेत् । नव पञ्च त्रयश्चैको देव्याः पाठे द्विजाः स्मृताः