तौ मृतौ स्वकृतेनैव कारणं त्वं तयोर्न च । नाहं शोचामि तं पुत्रं सदा शोचामि तत्कृतम्
पुत्र त्वमसि कल्याण भगिनी मे मनोरमा । न क्रोधो न च शोको मे त्वयि पुत्र मनागपि
कुरु राज्यं महाभाग प्रजाः पालय सुव्रत । भगवत्याः प्रसादेन प्राप्तमेतदकण्टकम्
तदाकर्ण्य वचो मातुर्नत्वा तां नृपनन्दनः । जगाम भवनं रम्यं यत्र पूर्वं मनोरमा
न्यवसत्तत्र गत्वा तु सर्वानाहूय मन्त्रिणः । दैवज्ञानथ पप्रच्छ मुहूर्तं दिवसं शुभम्
सिंहासनं तथा हैमं कारयित्वा मनोहरम् । सिंहासने स्थितां देवीं पूजयिष्ये सदाऽप्यहम्
स्थापयित्वाऽऽसने देवीं धर्मार्थकाममोक्षदाम् । राज्यं पश्चात्करिष्यामि यथा रामादिभिः कृतम्
पूजनीया सदा देवी सर्वैर्नागरिकैर्जनैः । माननीया शिवा शक्तिः सर्वकामार्थसिद्धिदा
इत्युक्ता मन्त्रिणस्ते तु चक्रुर्वै राजशासनम् । प्रासादं कारयामासुः शिल्पिभिः सुमनोरमम्
प्रतिमां कारयित्वाऽथ मुहूर्तेऽथ शुभे दिने । द्विजानाहूय वेदज्ञान्स्थापयामास भूपतिः
हवनं विधिवत्कृत्वा पूजयित्वाऽथ देवताम् । प्रासादे मतिमान् देव्याः स्थापयामास भूमिपः
उत्सवस्तत्र संवृत्तो वादित्राणाञ्च निःस्वनैः । ब्राह्मणानां वेदघोषैर्गानैस्तु विधिधैर्नृप
व्यास उवाच प्रतिष्ठाप्य शिवां देवीं विधिवद्वेदवादिभिः । पूजां नानाविधां राजा चकारातिविधानतः
कृत्वा पूजाविधिं राजा राज्यं प्राप्य स्वपैतृकम् । विख्यातश्चाम्बिका देवी कोसलेषु बभूव ह
राज्यं प्राप्य नृपः सर्वं सामन्तकनृपानथ । वशे चक्रेऽतिधर्मिष्ठान्सद्धर्मविजयी नृपः
यथा रामः स्वराज्येऽभूद्दिलीपस्य रघुर्यथा । प्रजानां वै सुखं तद्वन्मर्यादाऽपि तथाऽभवत्
धर्मो वर्णाश्रमाणां च चतुष्पादभवत्तथा । नाधर्मे रमते चित्तं केषामपि महीतले
ग्रामे ग्रामे च प्रासादांश्चक्रुः सर्वे जनाधिपाः । देव्याः पूजा तदा प्रीत्या कोसलेषु प्रवर्तिता
सुबाहुरपि काश्यां तु दुर्गायाः प्रतिमां शुभाम् । कारयित्वा च प्रासादं स्थापयामास भक्तितः
तत्र तस्या जनाः सर्वे प्रेमभक्तिपरायणाः । पूजां चक्रुर्विधानेन यथा विश्वेश्वरस्य ह
विख्याता सा बभूवाथ दुर्गादेवी धरातले । देशे देशे महाराज तस्या भक्तिर्व्यवर्धत
सर्वत्र भारते लोके सर्ववर्णेषु सर्वथा । भजनीया भवानी तु सर्वेषामभवत्तदा
शक्तिभक्तिरताः सर्वे मानिनश्चाभवन्नृप । आगमोक्तैरथ स्तोत्रैर्जपध्यानपरायणाः
नवरात्रेषु सर्वेषु चक्रुः सर्वे विधानतः । अर्चनं हवनं यागं देव्या भक्तिपरा जनाः
कुमारीपूजावर्णनम् जनमेजय उवाच नवरात्रे तु सम्प्राप्ते किं कर्तव्यं द्विजोत्तम । विधानं विधिवद्ब्रूहि शरत्काले विशेषतः
किं फलं खलु कस्तत्र विधिः कार्यो महामते । एतद्विस्तरतो ब्रूहि कृपया द्विजसत्तम
व्यास उवाच शृणु राजन्प्रवक्ष्यामि नवरात्रव्रतं शुभम् । शरत्काले विशेषेण कर्तव्यं विधिपूर्वकम्
वसन्ते च प्रकर्तव्यं तथैव प्रेमपूर्वकम् । द्वावृतू यमदंष्ट्राख्यौ नूनं सर्वजनेषु वै
शरद्वसन्तनामानौ दुर्गमौ प्राणिनामिह । तस्माद्यत्नादिदं कार्यं सर्वत्र शुभमिच्छता
द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम् । वसन्तशरदावेव सर्वनाशकरावुभौ