माता गृहीत्वा मां प्राप्ता भारद्वाजाश्रमं प्रति । विदल्लोऽयं समायातस्तथा धात्रेयिकाऽबला
मुनिभिर्मुनिपत्नीभिर्दयायुक्तैः समन्ततः । पोषिताः फलनीवारैर्वयं तत्र स्थितास्त्रयः
दुःखं नमे तदा ह्यासीत्सुखं नाद्य धनागमे । न वैरं न च मात्सर्यं मम चित्ते तु कर्हिचित्
नीवारभक्षणं श्रेष्ठं राजभोगात्परन्तपे । तदाशी नरकं याति न नीवाराशनः क्वचित्
धर्मस्याचरणं कार्यं पुरुषेण विजानता । सञ्जित्येन्द्रियवर्गं वै यथा न नरकं व्रजेत्
मानुष्यं दुर्लभं मातः खण्डेऽस्मिन्भारते शुभे । आहारादि सुखं नूनं भवेत्सर्वासु योनिषु
प्राप्य तं मानुषं देहं कर्तव्यं धर्मसाधनम् । स्वर्गमोक्षप्रदं नॄणां दुर्लभं चान्ययोनिषु
व्यास उवाच इत्युक्ता सा तदा तेन लीलावत्यतिलज्जिता । पुत्रशोकं परित्यज्य तमाहाश्रुविलोचना
सापराधाऽस्मि पुत्राहं कृता पित्रा युधाजिता । हत्या मातामहं तेऽत्र हृतं राज्यं तु येन वै
न तं वारयितुं शक्ता तदाऽहं न सुतं मम । यत्कृतं कर्म तेनैव नापराधोऽस्ति मे सुत
तौ मृतौ स्वकृतेनैव कारणं त्वं तयोर्न च । नाहं शोचामि तं पुत्रं सदा शोचामि तत्कृतम्
पुत्र त्वमसि कल्याण भगिनी मे मनोरमा । न क्रोधो न च शोको मे त्वयि पुत्र मनागपि
कुरु राज्यं महाभाग प्रजाः पालय सुव्रत । भगवत्याः प्रसादेन प्राप्तमेतदकण्टकम्
तदाकर्ण्य वचो मातुर्नत्वा तां नृपनन्दनः । जगाम भवनं रम्यं यत्र पूर्वं मनोरमा
न्यवसत्तत्र गत्वा तु सर्वानाहूय मन्त्रिणः । दैवज्ञानथ पप्रच्छ मुहूर्तं दिवसं शुभम्
सिंहासनं तथा हैमं कारयित्वा मनोहरम् । सिंहासने स्थितां देवीं पूजयिष्ये सदाऽप्यहम्
स्थापयित्वाऽऽसने देवीं धर्मार्थकाममोक्षदाम् । राज्यं पश्चात्करिष्यामि यथा रामादिभिः कृतम्
पूजनीया सदा देवी सर्वैर्नागरिकैर्जनैः । माननीया शिवा शक्तिः सर्वकामार्थसिद्धिदा
इत्युक्ता मन्त्रिणस्ते तु चक्रुर्वै राजशासनम् । प्रासादं कारयामासुः शिल्पिभिः सुमनोरमम्
प्रतिमां कारयित्वाऽथ मुहूर्तेऽथ शुभे दिने । द्विजानाहूय वेदज्ञान्स्थापयामास भूपतिः
हवनं विधिवत्कृत्वा पूजयित्वाऽथ देवताम् । प्रासादे मतिमान् देव्याः स्थापयामास भूमिपः
उत्सवस्तत्र संवृत्तो वादित्राणाञ्च निःस्वनैः । ब्राह्मणानां वेदघोषैर्गानैस्तु विधिधैर्नृप
व्यास उवाच प्रतिष्ठाप्य शिवां देवीं विधिवद्वेदवादिभिः । पूजां नानाविधां राजा चकारातिविधानतः
कृत्वा पूजाविधिं राजा राज्यं प्राप्य स्वपैतृकम् । विख्यातश्चाम्बिका देवी कोसलेषु बभूव ह
राज्यं प्राप्य नृपः सर्वं सामन्तकनृपानथ । वशे चक्रेऽतिधर्मिष्ठान्सद्धर्मविजयी नृपः
यथा रामः स्वराज्येऽभूद्दिलीपस्य रघुर्यथा । प्रजानां वै सुखं तद्वन्मर्यादाऽपि तथाऽभवत्
धर्मो वर्णाश्रमाणां च चतुष्पादभवत्तथा । नाधर्मे रमते चित्तं केषामपि महीतले
ग्रामे ग्रामे च प्रासादांश्चक्रुः सर्वे जनाधिपाः । देव्याः पूजा तदा प्रीत्या कोसलेषु प्रवर्तिता
सुबाहुरपि काश्यां तु दुर्गायाः प्रतिमां शुभाम् । कारयित्वा च प्रासादं स्थापयामास भक्तितः
तत्र तस्या जनाः सर्वे प्रेमभक्तिपरायणाः । पूजां चक्रुर्विधानेन यथा विश्वेश्वरस्य ह