ऋषिभिः कथ्यमाना सा मया ज्ञाताम्बिका शिवा । स्मरामि तां दिवारात्रं भक्त्या परमया पराम्
व्यास उवाच तन्निशम्य वचस्तस्य राजानो भक्तितत्पराः । तां मत्वा परमां शक्तिं निर्ययुः स्वगृहान्प्रति
सुबाहुरगमत्काश्यां तमापृच्छ्य सुदर्शनम् । सुदर्शनोऽपि धर्मात्मा निर्ज्जगाम सुकोसलान्
मन्त्रिणस्तु नृपं श्रुत्वा हतं शत्रुजितं मृधे । जितं सुदर्शनञ्चैव बभूवुः प्रेमसंयुताः
आगच्छन्तं नृपं श्रुत्वा तं साकेतनिवासिनः । उपायनान्युपादाय प्रययुः सम्मुखे जनाः
तथा प्रकृतयः सर्वे नानोपायनपाणयः । ध्रुवसन्धिसुतं दत्त्वा मुदिताः प्रययुः प्रजाः
स्त्रियोपसंयुतः सोऽथ प्राप्यायोध्यां सुदर्शनः । सम्मान्य सर्वलोकांश्च ययौ राजा निवेशनम्
वन्दिभिः स्तूयमानस्तु वन्द्यमानश्च मन्त्रिभिः । कन्याभिः कीर्यमाणश्च लाजैः सुमनसैस्तथा
देवीस्थापनवर्णनम् व्यास उवाच गत्वाऽयोध्यां नृपश्रेष्ठो गृहं राज्ञः सुहृद्वृतः । शत्रुजिन्मातरं प्राह प्रणम्य शोकसङ्कुलाम्
मातर्न ते मया पुत्रः सङ्ग्रामे निहतः किल । न पिता ते युधाजिच्च शपे ते चरणौ तथा
दुर्गया तौ हतौ संख्ये नापराधो ममात्र वै । अवश्यम्भाविभावेषु प्रतीकारो न विद्यते
न शोकोऽत्र त्वया कार्यो मृतपुत्रस्य मानिनि । स्वकर्मवशगो जीवो भुङ्क्ते भोगान्सुखासुखान्
दासोऽस्मि तव भो मातर्यथा मम मनोरमा । तथा त्वमपि धर्मज्ञे न भेदोऽस्ति मनागपि
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । तस्मान्न शोचितव्यं ते सुखे दुःखे कदाचन
दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् । आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत्
दैवाधीनमिदं सर्वं नात्माधीनं कदाचन । न शोकेन तदाऽऽत्मानं शोषयेन्मतिमान्नरः
यथा दारुमयी योषा नटादीनां प्रचेष्टते । तथा स्वकर्मवशगो देही सर्वत्र वर्तते
अहं वनगतो मातर्नाभवं दुःखमानसः । चिन्तयन्स्वकृतं कर्म भोक्तव्यमिति वेद्मि च
मृतो मातामहोऽत्रैव विधुरा जननी मम । भयातुरा गृहीत्वा मां निर्ययौ गहनं वनम्
लुण्ठिता तस्करैर्मार्गे वस्त्रहीना तथा कृता । पाथेयञ्च हृतं सर्वं बालपुत्रा निराश्रया
माता गृहीत्वा मां प्राप्ता भारद्वाजाश्रमं प्रति । विदल्लोऽयं समायातस्तथा धात्रेयिकाऽबला
मुनिभिर्मुनिपत्नीभिर्दयायुक्तैः समन्ततः । पोषिताः फलनीवारैर्वयं तत्र स्थितास्त्रयः
दुःखं नमे तदा ह्यासीत्सुखं नाद्य धनागमे । न वैरं न च मात्सर्यं मम चित्ते तु कर्हिचित्
नीवारभक्षणं श्रेष्ठं राजभोगात्परन्तपे । तदाशी नरकं याति न नीवाराशनः क्वचित्
धर्मस्याचरणं कार्यं पुरुषेण विजानता । सञ्जित्येन्द्रियवर्गं वै यथा न नरकं व्रजेत्
मानुष्यं दुर्लभं मातः खण्डेऽस्मिन्भारते शुभे । आहारादि सुखं नूनं भवेत्सर्वासु योनिषु
प्राप्य तं मानुषं देहं कर्तव्यं धर्मसाधनम् । स्वर्गमोक्षप्रदं नॄणां दुर्लभं चान्ययोनिषु
व्यास उवाच इत्युक्ता सा तदा तेन लीलावत्यतिलज्जिता । पुत्रशोकं परित्यज्य तमाहाश्रुविलोचना
सापराधाऽस्मि पुत्राहं कृता पित्रा युधाजिता । हत्या मातामहं तेऽत्र हृतं राज्यं तु येन वै
न तं वारयितुं शक्ता तदाऽहं न सुतं मम । यत्कृतं कर्म तेनैव नापराधोऽस्ति मे सुत