अहो कृपा ये कथयाम्यहं किं त्रातस्त्वया यत्किल भक्तिहीनः । भक्तानुकम्पी सकलो जनोऽस्ति विमुक्तभक्तेरवनं व्रतं ते
त्वं देवि सर्वं सृजसि प्रपञ्चं श्रुतं मया पालयसि स्वसृष्टम् । त्वमत्सि संहारपरे च काले न तेऽत्र चित्रं मम रक्षणं वै
करोमि किं ते वद देवि कार्यं क्व वा व्रजामीत्यनुमोदयाशु । कार्ये विमूढोऽस्मि तवाज्ञयाऽहं गच्छामि तिष्ठे विहरामि मातः
व्यास उवाच तं तथा भाषमाणं तु देवी प्राह दयान्विता । गच्छायोध्यां महाभाग कुरु राज्यं कुलोचितम्
स्मरणीया सदाऽहं ते पूजनीया प्रयत्नतः । शं विधास्याम्यहं नित्यं राज्यं ते नृपसत्तम
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः । मम पूजा प्रकर्तव्या बलिदानविधानतः
अर्चा मदीया नगरे स्थापनीया त्वयाऽनघ । पूजनीया प्रयत्नेन त्रिकालं भक्तिपूर्वकम्
शरत्काले महापूजा कर्तव्या मम सर्वदा । नवरात्रविधानेन भक्तिभावयुतेन च
चैत्रेऽश्विने तथाऽऽषाढे माघे कार्यो महोत्सवः । नवरात्रे महाराज पूजा कार्या विशेषतः
कृष्णपक्षे चतुर्दश्यां मम भक्तिसमन्वितैः । कर्तव्या नृपशार्दूल तथाऽष्टम्यां सदा बुधैः
व्यास उवाच इत्युक्त्वान्तर्हिता देवी दुर्गा दुर्गार्तिनाशिनी । नता सुदर्शनेनाथ स्तुता च बहुविस्तरम्
अन्तर्हितां तु तां दृष्ट्वा राजानः सर्व एव ते । प्रणेमुस्तं समागम्य यथा शक्रं सुरास्तथा
सुबाहुरपि तं नत्वा स्थितश्चाग्रे मुदान्वितः । ऊचुः सर्वे महीपाला अयोध्याधिपतिं तदा
त्वमस्माकं प्रभुः शास्ता सेवकास्ते वयं सदा । कुरु राज्यमयोध्यायां पालयास्मान्नृपोत्तम
त्वत्प्रसादान्महाराज दृष्टा विश्वेश्वरी शिवा । आदिशक्तिर्भवानी सा चतुर्वर्गफलप्रदा
धन्यस्त्वं कृतकृत्योऽसि बहुपुण्यो धरातले । यस्माच्च त्वत्कृते देवी प्रादुर्भूता सनातनी
न जानीमो वयं सर्वे प्रभावं नृपसत्तम । चण्डिकायास्तमोयुक्ता मायया मोहिताः सदा
धनदारसुतानां च चिन्तनेऽभिरताः सदा । मग्ना महार्वणे घोरे कामक्रोधझषाकुले
पृच्छामस्त्वां महाभाग सर्वज्ञोऽसि महामते । केयं शक्तिः कुतो जाता किं प्रभावा वदस्व तत्
भव त्वं नौश्च संसारे साधवोऽति दयापराः । तस्मान्नो वद काकुत्स्थ देवीमाहात्म्यमुत्तमम्
यत्प्रभावा च सा देवी यत्स्वरुपा यदुद्भवा । सत्सर्वं श्रोतुमिच्छामस्त्वं ब्रूहि नृवरोत्तम
व्यास उवाच इति पृष्टस्तदा तैस्तु ध्रुवसन्धिसुतो नृपः । विचिन्त्य मनसा देवीं तानुवाच मुदान्वितः
सुदर्शन उवाच किं ब्रवीमि महीपालास्तस्याश्चरितमुत्तमम् । ब्रह्मादयो न जानन्ति सेशाः सुरगणास्तथा
सर्वस्याद्या महालक्ष्मीर्वरेण्या शक्तिरुत्तमा । सात्त्विकीयं महीपाला जगत्पालनतत्परा
सृजते या रजोरूपा सत्त्वरूपा च पालने । संहारे च तमोरूपा त्रिगुणा सा सदा मता
निर्गुणा परमा शक्तिः सर्वकामफलप्रदा । सर्वेषां कारणं सा हि ब्रह्मादीनां नृपोत्तमाः
निर्गुणा सर्वथा ज्ञातुमशक्या योगिभिर्नृपाः । सगुणा सुखसेव्या सा चिन्तनीया सदा बुधैः
राजान ऊचुः बाल एव वनं प्राप्तस्त्वं तु नूनं भयातुरः । कथं ज्ञाता त्वया देवी परमा शक्तिरुत्तमा
उपासिता कथं चैव पूजिता च कथं नृप । या प्रसन्ना तु साहाय्यं चकार त्वरयान्विता
सुदर्शन उवाच बालभावान्मया प्राप्तं बीजं तस्याः सुसम्मतम् । स्मरामि प्रजपन्नित्यं कामबीजाभिधं नृपाः