दर्शनात्सदृशं किञ्चित्त्रिषु लोकेषु नास्ति मे । कं वरं देवि याचेऽहं कृतार्थोऽस्मि धरातले
एतदिच्छाम्यहं मातर्याचितुं वाञ्छितं वरम् । तव भक्तिः सदा मेऽस्तु निश्चला ह्यनपायिनी
नगरेऽत्र त्वया मातः स्थातव्यं मम सर्वदा । दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिता
रक्षा त्वया च कर्तव्या सर्वदा नगरस्य ह । यथा सुदर्शनस्त्रातो रिपुसंघादनामयः
तथाऽत्र रक्षा कर्तव्या वाराणस्यास्त्वयाम्बिके । यावत्पुरी भवेद्भूमौ सुप्रतिष्ठा सुसंस्थिता
तावत्त्वयाऽत्र स्थातव्यं दुर्गे देवि कृपानिधे । वरोऽयं मम ते देयः किमन्यत्प्रार्थयाम्यहम्
विविधान्सकलान्कामान्देहि मे विद्विषो जहि । अभद्राणां विनाशञ्च कुरु लोकस्य सर्वदा
व्यास उवाच इति सम्प्रार्थिता देवी दुर्गा दुर्गार्तिनाशिनी । तमुवाच नृपं तत्र स्तुत्वा वै संस्थितं पुरः
दुर्गोवाच राजन्सदा निवासो मे मुक्तिपुर्यां भविष्यति । रक्षार्थं सर्वलोकानां यावत्तिष्ठति मेदिनी
अथो सुदर्शनस्तत्र समागत्य मुदान्वितः । प्रणम्य परया भक्त्या तुष्टाव जगदम्बिकाम्
अहो कृपा ये कथयाम्यहं किं त्रातस्त्वया यत्किल भक्तिहीनः । भक्तानुकम्पी सकलो जनोऽस्ति विमुक्तभक्तेरवनं व्रतं ते
त्वं देवि सर्वं सृजसि प्रपञ्चं श्रुतं मया पालयसि स्वसृष्टम् । त्वमत्सि संहारपरे च काले न तेऽत्र चित्रं मम रक्षणं वै
करोमि किं ते वद देवि कार्यं क्व वा व्रजामीत्यनुमोदयाशु । कार्ये विमूढोऽस्मि तवाज्ञयाऽहं गच्छामि तिष्ठे विहरामि मातः
व्यास उवाच तं तथा भाषमाणं तु देवी प्राह दयान्विता । गच्छायोध्यां महाभाग कुरु राज्यं कुलोचितम्
स्मरणीया सदाऽहं ते पूजनीया प्रयत्नतः । शं विधास्याम्यहं नित्यं राज्यं ते नृपसत्तम
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः । मम पूजा प्रकर्तव्या बलिदानविधानतः
अर्चा मदीया नगरे स्थापनीया त्वयाऽनघ । पूजनीया प्रयत्नेन त्रिकालं भक्तिपूर्वकम्
शरत्काले महापूजा कर्तव्या मम सर्वदा । नवरात्रविधानेन भक्तिभावयुतेन च
चैत्रेऽश्विने तथाऽऽषाढे माघे कार्यो महोत्सवः । नवरात्रे महाराज पूजा कार्या विशेषतः
कृष्णपक्षे चतुर्दश्यां मम भक्तिसमन्वितैः । कर्तव्या नृपशार्दूल तथाऽष्टम्यां सदा बुधैः
व्यास उवाच इत्युक्त्वान्तर्हिता देवी दुर्गा दुर्गार्तिनाशिनी । नता सुदर्शनेनाथ स्तुता च बहुविस्तरम्
अन्तर्हितां तु तां दृष्ट्वा राजानः सर्व एव ते । प्रणेमुस्तं समागम्य यथा शक्रं सुरास्तथा
सुबाहुरपि तं नत्वा स्थितश्चाग्रे मुदान्वितः । ऊचुः सर्वे महीपाला अयोध्याधिपतिं तदा
त्वमस्माकं प्रभुः शास्ता सेवकास्ते वयं सदा । कुरु राज्यमयोध्यायां पालयास्मान्नृपोत्तम
त्वत्प्रसादान्महाराज दृष्टा विश्वेश्वरी शिवा । आदिशक्तिर्भवानी सा चतुर्वर्गफलप्रदा
धन्यस्त्वं कृतकृत्योऽसि बहुपुण्यो धरातले । यस्माच्च त्वत्कृते देवी प्रादुर्भूता सनातनी
न जानीमो वयं सर्वे प्रभावं नृपसत्तम । चण्डिकायास्तमोयुक्ता मायया मोहिताः सदा
धनदारसुतानां च चिन्तनेऽभिरताः सदा । मग्ना महार्वणे घोरे कामक्रोधझषाकुले
पृच्छामस्त्वां महाभाग सर्वज्ञोऽसि महामते । केयं शक्तिः कुतो जाता किं प्रभावा वदस्व तत्
भव त्वं नौश्च संसारे साधवोऽति दयापराः । तस्मान्नो वद काकुत्स्थ देवीमाहात्म्यमुत्तमम्