शरणार्थञ्च सम्प्राप्ता देवी भगवती हि नः । निरातङ्कैश्च गन्तव्यं मार्गेऽस्मिन्भूपसङ्कुले
स्मृता मया महादेवी रक्षणार्थमुपागता । तच्छ्रुत्वा वचनं सेनापतिस्तेन पथाऽव्रजत्
युधाजित्तु सुसङ्क्रुद्धस्तानुवाच महीपतीन् । किं स्थिता भयसन्त्रस्ता निघ्नन्तु कन्यकान्वितम्
अवमन्य च नः सर्वान्बलहीनो बलाधिकान् । कन्यां गृहीत्वा संयाति निर्भयस्तरसा शिशुः
किं भीताः कामिनीं वीक्ष्य सिंहोपरि सुसंस्थिताम् । नोपेक्ष्यो हि महाभागा हन्तव्योऽत्र समाहितैः
हत्वैनं सङ्ग्रहीष्यामः कन्यां चारुविभूषणाम् । नायं केसरिणादत्तां छेत्तुमर्हति जम्बुकः
इत्युक्त्वा सैन्यसंयुक्तः शत्रुजित्सहितस्तदा । योद्धुकामः सुसम्प्राप्तो युधाजित्क्रोधसंवृतः
मुमोच विशिखांस्तूर्णं समपुंखाञ्छिलाशितान् । धनुराकृष्य कर्णान्तं कर्मारपरिमार्जितान्
हन्तुकामः सुदुर्मेधाः सुदर्शनमथोपरि । सुदर्शनस्तु तान्बाणैश्चिच्छेदापततः क्षणात्
एवं युद्धे प्रवृत्तेऽथ चुकोप चण्डिका भृशम् । दुर्गादेवी मुमोचाथ बाणान् युधाजितं प्रति
नानारूपा तदा जाता नानाशस्रधरा शिवा । सम्प्राप्ता तुमुलं तत्र चकार जगदम्बिका
शत्रुजिन्निहतस्तत्र युधाजिदपि पार्थिवः । पतितौ तौ रथाभ्यां तु जयशब्दस्तदाऽभवत्
विस्मयं परमं प्राप्ता भूपाः सर्वे विलोक्य ताम् । निधनं मातुलस्यापि भागिनेयस्य संयुगे
सुबाहुरपि तद्दृष्ट्वा निधनं संयुगे तयोः । तुष्टाव परमप्रीतो दुर्गां दुर्गार्तिनाशिनीम्
सुबाहुरुवाच नमौ देव्यै जगद्धात्र्यै शिवायै सततं नमः । दुर्गायै भगवत्यै ते कामदायै नमो नमः
नमः शिवायै शान्त्यै ते विद्यायै मोक्षदे नमः । विश्वव्याप्त्यै जगन्मातर्जगद्धात्र्यै नमः शिवे
नाहं गतिं तव धिया परिचिन्तयन् वै जानामि देवि सगुणः किल निर्गुणायाः । किं स्तौमि विश्वजननीं प्रकटप्रभावां भक्तार्तिनाशनपरां परमाञ्च शक्तिम्
वाग्देवता त्वमसि सर्वगतैव बुद्धि- र्विद्या मतिश्च गतिरप्यसि सर्वजन्तोः । त्वां स्तौमि किं त्वमसि सर्वमनोनियन्त्री किं स्तूयते हि सततं खलु चात्मरूपम्
ब्रह्मा हरश्च हरिरप्यनिशं स्तुवन्तो नान्तं गताः सुरवराः किल ते गुणानाम् । क्वाहं विभेदमतिरम्ब गुणैर्वृतो वै वक्तुं क्षमस्तव चरित्रमहोऽप्रसिद्धः
सत्सङ्गतिः कथमहो न करोति कामं प्रासङ्गिकापि विहिता खलु चित्तशुद्धिः । जामातुरस्य विहितेन समागमेन प्राप्तं मयाऽद्भुतमिदं तव दर्शनं वै
ब्रह्माऽपि वाञ्छति सदैव हरो हरिश्च सेन्द्राः सुराश्च मुनयो विदितार्थतत्त्वाः । यद्दर्शनं जननि तेऽद्य मया दुरापं प्राप्तं विना दमशमादिसमाधिभिश्च
क्वाहं सुमन्दमतिराशु तवावलोकं क्वेदं भवानि भवभेषजमद्वितीयम् । ज्ञाताऽसि देवि सततं किल भावयुक्ता भक्तानुकम्पनपरामरवर्गपूज्या
किं वर्णयामि तव देवि चरित्रमेतद् यद्रक्षितोऽस्ति विषमेऽत्र सुदर्शनोऽयम् । शत्रू हतौ सुबलिनौ तरसा त्वयाद्य भक्तानुकम्पि चरितं परमं पवित्रम्
नाश्चर्यमेतदिति देवि विचारितेऽर्थे त्वं पासि सर्वमखिलं स्थिरजङ्गमं वै । त्रातस्त्वया च विनिहत्य रिपुर्दयातः संरक्षितोऽयमधुना ध्रुवसन्धिसूनुः
भक्तस्य सेवनपरस्य स्वयशोऽतिदीप्तं कर्तुं भवानि रचितं चरितं त्वयैतत् । नोचेत्कथं सुपरिगृह्य सुतां मदीयां युद्धे भवेत्कुशलवाननवद्यशीलः
शक्ताऽसि जन्ममरणादिभयान्विहन्तुं किं चित्रमत्र किल भक्तजनस्य कामम् । त्वं गीयसे जननि भक्तजनैरपारा त्वं पापपुण्यरहिता सगुणाऽगुणा च
त्वद्दर्शनादहमहो सुकृती कृतार्थो जातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा । बीजं न ते न भजनं किल वेद्मि मात- र्ज्ञातस्तवाद्य महिमा प्रकटप्रभावः
व्यास उवाच एवं स्तुता तदा देवी प्रसन्नवदना शिवा । उवाच च नृपं देवी वरं वरय सुव्रत
देवीमहिमवर्णनम् व्यास उवाच तस्यास्तद्वचनं श्रुत्वा भवान्याः स नृपोत्तमः । प्रोवाच वचनं तत्र सुबाहुर्भक्तिसंयुतः
सुबाहुरुवाच एकतो देवलोकस्य राज्यं भूमण्डलस्य च । एकतो दर्शनं ते वै न च तुल्यं कदाचन