बलेन महताऽऽविष्टो ययावनु नृपोत्तमः । सुदर्शनो वृतस्तत्र चचाल पथि निर्भयः
रथैः परिवृतः शूरः सदारो रथसंस्थितः । गच्छन्ददर्श सैन्यानि नृपाणां रघुनन्दनः
सुबाहुरपि तान्वीक्ष्य चिन्ताविष्टो बभूव ह । विधिवत्स शिवां चित्ते जगाम शरणं मुदा
जजापैकाक्षरं मन्त्रं कामराजमनुत्तमम् । निर्भयो वीतशोकश्च पत्न्या सह नवोढया
ततः सर्वे महीपालाः कृत्वा कोलाहलं तदा । उत्थिताः सैन्यसंयुक्ता हन्तुकामास्तु कन्यकाम्
काशिराजस्तु तान्दृष्ट्वा हन्तुकामो बभूव ह । निवारितस्तदाऽत्यर्थं राघवेण जिगीषता
तत्रापि नेदुः शंखाश्च भेर्यश्चानकदुन्दुभिः । सुबाहोश्च नृपाणाञ्च परस्परजिघांसताम्
शत्रुजित्तु सुसंवृत्तः स्थितस्तत्र जिघांसया । युधाजित्तत्सहायार्थं सन्नद्धः प्रबभूव ह
केचिच्च प्रेक्षकास्तस्य सहानीकैः स्थितास्तदा । युधाजिदग्रतो गत्वा सुदर्शनमुपस्थितः
शत्रुजित्तेन सहितो हन्तुं भ्रातरमानुजः । परस्परं ते बाणौघैस्ततक्षुः क्रोधमूर्छिताः
सम्मर्दः सुमहांस्तत्र सम्प्रवृत्तः सुमार्गणैः । काशीपतिस्तदा तूर्णं सैन्येन बहुना वृतः
साहाय्यार्थं जगामाशु जामातरमनिन्दितम् । एवं प्रवृत्ते सङ्ग्रामे दारुणे लोमहर्षणे
प्रादुर्बभूव सहसा देवी सिंहोपरि स्थिता । नानायुधधरा रम्या वराभूषणभूषिता
दिव्याम्बरपरीधाना मन्दारस्रक्सुसंयुता । तां दृष्ट्वा तेऽथ भूपाला विस्मयं परमं गताः
केयं सिंहसमारूढा कुतो वेति समुत्थिता । सुदर्शनस्तु तां वीक्ष्य सुबाहुमिति चाब्रवीत्
पश्य राजन्महादेवीमागतां दिव्यदर्शनाम् । अनुग्रहाय मे नूनं प्रादुर्भूता दयान्विता
निर्भयोऽहं महाराज जातोऽस्मि निर्भयादपि । सुदर्शनः सुबाहुश्च तामालोक्य वराननाम्
प्रणामं चक्रतुस्तस्या मुदितौ दर्शनेन च । ननाद च तदा सिंहो गजास्त्रस्ताश्चकम्पिरे
ववुर्वाता महाघोरा दिशश्चासन्सुदारुणाः । सुदर्शनस्तदा प्राह निजं सेनापतिं प्रति
मार्गे व्रज त्वं तरसा भूपाला यत्र संस्थिताः । किं करिष्यन्ति राजानः कुपिता दुष्टचेतसः
शरणार्थञ्च सम्प्राप्ता देवी भगवती हि नः । निरातङ्कैश्च गन्तव्यं मार्गेऽस्मिन्भूपसङ्कुले
स्मृता मया महादेवी रक्षणार्थमुपागता । तच्छ्रुत्वा वचनं सेनापतिस्तेन पथाऽव्रजत्
युधाजित्तु सुसङ्क्रुद्धस्तानुवाच महीपतीन् । किं स्थिता भयसन्त्रस्ता निघ्नन्तु कन्यकान्वितम्
अवमन्य च नः सर्वान्बलहीनो बलाधिकान् । कन्यां गृहीत्वा संयाति निर्भयस्तरसा शिशुः
किं भीताः कामिनीं वीक्ष्य सिंहोपरि सुसंस्थिताम् । नोपेक्ष्यो हि महाभागा हन्तव्योऽत्र समाहितैः
हत्वैनं सङ्ग्रहीष्यामः कन्यां चारुविभूषणाम् । नायं केसरिणादत्तां छेत्तुमर्हति जम्बुकः
इत्युक्त्वा सैन्यसंयुक्तः शत्रुजित्सहितस्तदा । योद्धुकामः सुसम्प्राप्तो युधाजित्क्रोधसंवृतः
मुमोच विशिखांस्तूर्णं समपुंखाञ्छिलाशितान् । धनुराकृष्य कर्णान्तं कर्मारपरिमार्जितान्
हन्तुकामः सुदुर्मेधाः सुदर्शनमथोपरि । सुदर्शनस्तु तान्बाणैश्चिच्छेदापततः क्षणात्
एवं युद्धे प्रवृत्तेऽथ चुकोप चण्डिका भृशम् । दुर्गादेवी मुमोचाथ बाणान् युधाजितं प्रति