समानवित्तेऽथ कुले बले च ददाति पुत्रीं नृपतिश्च भूयः । न कोऽपि मे भूपसुतेऽर्थहीने गुणान्वितां रूपवतीञ्च दद्यात्
वैरं तु सर्वैः सह संविधाय नृपैर्वरिष्ठैर्बलसंयुतैश्च । सुदर्शनायाथ सुताऽर्पिता मे किं वर्णये धैर्यमिदं त्वदीयम्
निशम्य वाक्यानि नृपः प्रहृष्टः कृताञ्जलिर्वाक्यमुवाच भूयः । गृहाण राज्यं मम सुप्रसिद्धं भवामि सेनापतिरद्य चाहम्
नोचेत्तदर्धं प्रतिगृह्य चात्र सुतान्वितो राज्यफलानि भुङ्क्ष्व । विहाय वाराणसिकानिवासं वने पुरे वासमतो न मेऽस्ति
नृपास्तु सन्त्येव रुषान्विता वै गत्वा करिष्ये प्रथमं तु सान्त्वनम् । ततः परं द्वावपरावुपायौ नोचेत्ततो युद्धमहं करिष्ये
जयाजयो दैववशो तथापि धर्मे जयो नैव कृतेऽप्यधर्मे । तेषां किलाधर्मवतां नृपाणां कथं भविष्यत्यनुचिन्तितं वै
आकर्ण्य तद्भाषितमर्थवच्च जगाद वाक्यं हितकारकं तम् । मनोरमा मानमवाप्य तस्मात् सर्वात्मना मोदयुता प्रसन्ना
राजञ्छिवं तेऽस्तु कुरुष्व राज्यं त्यक्त्वा भयं त्वं स्वसुतैः समेतः । सुतोऽपि मे नूनमवाप्य राज्यं साकेतपुर्यां प्रचरिष्यतीह
विसर्जयास्मान्निजसद्म गन्तुं शिवं भवानी तव संविधास्यति । न काऽपि चिन्ता मम भूप वर्तते सञ्चिन्तयन्त्या परमाम्बिकां वै
दोषा गता विविधवाक्यपदै रसालै- रन्योन्यभाषणपदैरमृतोपमैश्च । प्रातर्नृपाः समधिगम्य कृतं विवाहं रोषान्विता नगरबाह्यगतास्तथोचुः
अद्यैव तं नृपकलङ्कधरञ्च हत्वा बालं तथैव किल तं न विवाहयोग्यम् । गृह्णीम तां शशिकलां नृपतेश्च लक्ष्मीं लज्जामवाप्य निजसद्म कथं व्रजेम
शृण्वन्तु तूर्यनिनदान्किल वाद्यमाना- ञ्छङ्खस्वनानभिभवन्ति मृदङ्गशब्दाः । गीतध्वनिं च विविधं निगमस्वनञ्च मन्यामहे नृपतिनाऽत्र कृतो विवाहः
अस्मान्प्रतार्य वचनैर्विधिवच्चकार वैवाहिकेन विधिना करपीडनं वै । कर्तव्यमद्य किमहो प्रविचिन्तयन्तु भूपाः परस्परमतिं च समर्थयन्तु
एवं वदत्सु नृपतिष्वथ कन्याकायाः कृत्वा विवाहविधिमप्रतिमप्रभावः । भूपान्निमन्त्रयितुमाशु जगाम राजा काशीपतिः स्वसुहृदैः प्रथितप्रभावैः
आगच्छन्तं च तं दृष्ट्वा नृपाः काशीपतिं तदा । नोचुः किञ्चिदपि क्रोधान्मौनमाधाय संस्थिताः
स गत्वा प्रणिपत्याह कृताञ्जलिरभाषत । आगन्तव्यं नृपैः सर्वैर्भोजनार्थं गृहे मम
कन्ययाऽसौ वृतो भूपः किं करोमि हिताहितम् । भवद्भिस्तु शुभः कार्यो महान्तो हि दयालवः
तन्निशम्य वचस्तस्य नृपाः क्रोधपरिप्लुताः । प्रत्यूचुर्भुक्तमस्माभिः स्वगृहं नृपते व्रज
कुरु कार्याण्यशेषाणि यथेष्टं सुकृतं कृतम् । नृपाः सर्वे प्रयान्त्वद्य स्वानि स्वानि गृहाणि वै
सुबाहुरपि तच्छ्रुत्वा जगाम शङ्कितो गृहम् । किं करिष्यन्ति संविग्नाः क्रोधयुक्ता नृपोत्तमाः
गते तस्मिन्महीपालाश्चक्रुश्च समयं पुनः । रुद्ध्वा मार्गं ग्रहीष्यामः कन्यां हत्वा सुदर्शनम्
केचनोचुः किमस्माकं हन्त तेन नृपेण वै । दृष्ट्वा तु कौतुकं सर्वं गमिष्यामो यथागतम्
इत्युक्त्वा ते नृपाः सर्वे मार्गमाक्रम्य संस्थिताः । चकारोत्तरकार्याणि सुबाहुः स्वगृहं गतः
सुबाहुकृतदेवीस्तुतिवर्णनम् व्यास उवाच तस्मै गौरवभोज्यानि विधाय विधिवत्तदा । वासराणि च षड्राजा भोजयामास भक्तितः
एवं विवाहकार्याणि कृत्वा सर्वाणि पार्थिवः । पारिबर्हं प्रदत्वाऽथ मन्त्रयन्सचिवैः सह
दूतैस्तु कथितं श्रुत्वा मार्गसंरोधनं कृतम् । बभूव विमना राजा सुबाहुरमितद्युतिः
सुदर्शनस्तदोवाच श्वशुरं संशितव्रतः । अस्मान्विसर्जयाशु त्वं गमिष्यामो ह्यशङ्किताः
भारद्वाजाश्रमं पुण्य़ं गत्वा तत्र समाहिताः । निवासाय विचारो वै कर्तव्यः सर्वथा नृप
नृपेभ्यश्च न कर्तव्यं भयं किञ्चित्त्वयाऽनघ । जगन्माता भवानी मे साहाय्यं वै करिष्यति
व्यास उवाच तस्येति मतमाज्ञाय जामातुर्नुपसत्तमः । विससर्ज धनं दत्वा प्रतस्थे सोऽपि सत्वरः