विवाहं कुरु रात्रौ मे वेदोक्तविधिना नृप । पारिबर्हं यथायोग्यं दत्त्वा तस्मै विसर्जय
गमिष्यति गृहीत्वा मां ध्रुवसन्धिसुतः किल । कदाचित्ते नृपाः क्रुद्धाः सङ्ग्रामं कर्त्तुमुद्यताः
भविष्यति तदा देवी साहाय्यं नः करिष्यति । सोऽपि राजसुतस्तैस्तु सङ्ग्रामं संविधास्यति
दैवान्मृधे मृते तस्मिन्मरिष्याम्यहमप्युत । स्वस्ति तेस्तु गृहे तिष्ठ दत्त्वा मां सहसैन्यकः
एकैवाहं गमिष्यामि तेन सार्धं रिरंसया । व्यास उवाच इति तस्या वचः श्रुत्वा राजाऽसौ कृतनिश्चयः । मतिं चक्रे तथा कर्तुं विश्वासं प्रतिपद्य च
सुदर्शनशशिकलयोर्विवाहवर्णनम् व्यास उवाच श्रुत्वा सुतावाक्यमनिन्दितात्मा नृपांश्च गत्वा नृपतिर्जगाद । व्रजन्तु कामं शिविराणि भूपाः श्वो वा विवाहं किल संविधास्ये
भक्ष्याणि पेयानि मयाऽर्पितानि गृह्णन्तु सर्वे मयि सुप्रसन्नाः । श्वो भावि कार्यं किल मण्डपेऽत्र समेत्य सर्वैरिह संविधेयम्
नायाति पुत्री किल मण्डपेऽद्य करोमि किं भूपतयोऽत्र कामम् । प्रातः समाश्वास्य सुतां नयिष्ये गच्छन्तु तस्माच्छिविराणि भूपाः
न विग्रहो बुद्धिमतां निजाश्रिते कृपा विधेया सततं ह्यपत्ये । विधाय तां प्रातारिहानयिष्ये सुतां तु गच्छन्तु नृपा यथेष्टम्
इच्छापणं वा परिचिन्त्य चित्ते प्रातः करिष्याम्यथ संविवाहम् । सर्वैः समेत्यात्र नृपैः समेतैः स्वयंवरः सर्वमतेन कार्यः
श्रुत्वा नृपास्तेऽवितथं विदित्वा वचो ययुः स्वानि निकेतनानि । विधाय पार्श्वे नगरस्य रक्षां चक्रुः क्रिया मध्यदिनोदिताश्च
सुबाहुरप्यार्यजनैः समेत- श्चकार कार्याणि विवाहकाले । पुत्रीं समाहूय गृहे सुगुप्ते पुरोहितैर्वेदविदां वरिष्ठैः
स्नानादिकं कर्म वरस्य कृत्वा विवाहभूषाकरणं तथैव । आनाय्य वेदीरचिते गृहे वै तस्यार्हणां भूमिपतिश्चकार
सविष्टरं चाचमनीयमर्घ्यं वस्त्रद्वयं गामथ कुण्डले द्वे । समर्प्य तस्मै विधिवन्नरेन्द्र ऐच्छत्सुतादानमहीनसत्त्वः
सोऽप्यग्रहीत्सर्वमदीनचेताः शशाम चिन्ताऽथ मनोरमायाः । कन्यां सुकेशीं निधिकन्यकासमां मेने तदाऽऽत्मानमनुत्तमञ्च
सुपूजितं भूषणवस्त्रदानै- र्वरोत्तमं तं सचिवास्तदानीम् । निन्युश्च ते कौतुकमण्डपान्त- र्मुदान्विता वीतभयाश्च सर्वे
समाप्तभूषां विधिवद्विधिज्ञाः स्त्रियश्च तां राजसुतां सुयाने । आरोप्य निन्युर्वरसन्निधानण् चतुष्कयुक्ते किल मण्डपे वै
अग्निं समाधाय पुरोहितः स हुत्वा यथावच्च तदन्तराले । आह्वाययत्तौ कृतकौतुकौ तु वधूवरौ प्रेमयुतौ निकामम्
लाजाविसर्गं विधिवद्विधाय कृत्वा हुताशस्य प्रदक्षिणाञ्च । तौ चक्रतुस्तत्र यथोचित्तं तत् सर्वं विधानं कुलगोत्रजातम्
शतद्वयं चाश्चयुजां रथानां सुभूषितं चापि शरौघसंयुतम् । ददौ नृपेन्द्रस्तु सुदर्शनाय सुपूजितं पारिबर्हं विवाहे
मदोत्कटान्हेमविभूषितांश्च गजान्गिरेः शृङ्गसमानदेहान् । शतं सपादं नृपसूनवेऽसौ ददावथ प्रेमयुतो नृपेन्द्रः
दासीशतं काञ्चनभूषितं च करेणुकानां च शतं सुचारु । समर्पयामास वराय राजा विवाहकाले मुदितोऽनुवेलम्
अदात्पुनर्दाससहस्रमेकं सर्वायुधैः सम्भृतभूषितञ्च । रत्नानि वासांसि यथोचितानि दिव्यानि चित्राणि तथाविकानि
ददौ पुनर्वासगृहाणि तस्मै रम्याणि दीर्घाणि विचित्रितानि । सिन्धूद्भवानां तुरगोत्तमाना- मदात्सहस्रद्वितयं सुरम्यम्
क्रमेलकानाञ्च शतत्रयं वै प्रत्यादिशद्भारभृतां सुचारु । शतद्वयं वै शकटोत्तमानां तस्मै ददौ धान्यरसैः प्रपूरितम्
मनोरमां राजसुतां प्रणम्य जगाद वाक्यं विहिताञ्जलिः पुरः । दासोऽस्मि ते राजसुते वरिष्ठे तद्ब्रूहि यत्स्यात्तु मनोगतं ते
तं चारुवाक्यं निजगाद सापि स्वस्त्यस्तु ते भूप कुलस्य वृद्धिः । सम्मानिताऽहं मम सूनवे त्वया दत्ता यतो रत्नवरा स्वकन्या
न बन्दिपुत्री नृप मागधी वा स्तौमीह किं त्वां स्वजनं महत्तरम् । सुमेरुतुल्यस्तु कृतः सुतोऽद्य मे सम्बन्धिना भूपतिनोत्तमेन
अहोऽतिचित्रं नृपतेश्चरित्रं परं पवित्रं तव किं वदामि । यद्भ्रष्टराज्याय सुताय मेऽद्य दत्ता त्वया पूज्यसुता वरिष्ठा
वनाधिवासाय किलाधनाय पित्रा विहीनाय विसैन्यकाय । सर्वानिमान्भूमिपतीन्विहाय फलाशनायार्थविवर्जिताय