सुहृदसि ममात्यर्थं हितं ते प्रब्रवीम्यहम् । समानय सुतां राजन् मण्डपे तां सखीवृताम्
सुदर्शनमृते चेयं वरिष्यति यदाऽप्यसौ । विग्रहो मे तदा न स्याद्विवाहोऽस्तु तवेप्सितः
अन्ये नृपतयः सर्वे कुलीनाः सबलाः समाः । विरोधः कीदृशस्त्वेनं वृणोद्यदि नृपोत्तम
अन्यथाऽहं हरिष्येऽद्य बलात्कन्यामिमां शुभाम् । मा विरोधं सुदुःसाध्यं गच्छ पार्थिवसत्तम
व्यास उवाच युधाजिता समादिष्टः सुबाहुः शोकसंयुतः । निःश्वसन्भवनं गत्वा भार्यां प्राह शुचावृतः
पुत्रीं ब्रूहि सुधर्मज्ञे कलहे समुपस्थिते । किं कर्त्तव्यं मया शक्यं त्वद्वशोऽस्मि सुलोचने
व्यास उवाच सा श्रुत्वा पतिवाक्यं तु गत्वा प्राह सुतान्तिकम् । वत्से राजातिदुःखार्तः पिता तेऽद्यापि वर्तते
त्वदर्थे विग्रहः कामं समुत्पन्नोऽद्य भूभृताम् । अन्यं वरय सुश्रोणि सुदर्शनमृते नृपम्
यदि सुदर्शनं वत्से हठात्त्वं वै वरिष्यसि । युधाजित्त्वां च मां चैव हनिष्यति बलान्वितः
सुदर्शनं च राजाऽसौ बलमत्तः प्रतापवान् । द्वितीयस्ते पतिः पश्चाद्भविता कलहे सति
तस्मात्सुदर्शनं त्यक्त्वा वरयान्यं नृपोत्तमम् । सुखमिच्छसि चेन्मह्यं तुभ्यं वा मृगलोचने । इति मात्रा बोधितां तां पश्चाद्राजाप्यबोधयत्
उभयोर्वचनं श्रुत्वा निर्भयोवाच कन्यका कन्योवाच सत्यमुक्तं नृपश्रेष्ठ जानासि च व्रतं मम
नान्यं वृणोमि भूपाल सुदर्शनमृते क्वचित् । बिभेषि यदि राजेन्द्र नृपेभ्यः किल कातरः
सुदर्शनाय दत्त्वा मां विसर्जय पुराद्बहिः । स मां रथे सामारोप्य निर्गमिष्यति ते पुरात्
भवितव्यं तु पश्चाद्वै भविष्यति न चान्यथा । नात्र चिन्ता त्वया कार्या भवितव्ये नृपोत्तम
यद्भावि तद्भवत्येव सर्वथात्र न संशयः । राजोवाच न पुत्रि साहसं कार्यं मतिमद्भिः कदाचन
बहुभिर्न विरोद्धव्यमिति वेदविदो विदुः । विस्रक्ष्यामि कथं कन्यां दत्त्वा राजसुताय च
राजानो वरसंयुक्ताः किं न कुर्युरसाम्प्रतम् । यदि ते रोचते वत्से पणं संविदधाम्यहम्
जनकेन यथा पूर्वं कृतः सीतास्वयंवरे । शैवं धनुर्यथा तेन धृतं कृत्वा पणं तथा
तथाहमपि तन्वङ्गि करोम्यद्य दुरासदम् । विवादो येन राज्ञां वै कृते सति शमं व्रजेत्
पालयिष्यति यः कामं स ते भर्ता भविष्यति । सुदर्शनस्तथाऽन्यो वा यः कश्चिद्बलवत्तरः
पालयित्वा पणं त्वां वै वरयिष्यति सर्वथा । एवं कृते नृपाणां तु विवादः शमितो भवेत्
सुखेनाहं विवाहं ते करिष्यामि ततः परम् । कन्योवाच सन्देहे नैव मज्जामि मूर्खकृत्यमिदं यतः
मया सुदर्शनः पूर्वं धृतश्चेतसि नान्यथा । कारणं पुण्यपापानां मन एव महीपते
मनसा विधृतं त्यक्त्वा कथमन्यं वृणे पितः । कृते पणे महाराज सर्वेषां वशगा ह्यहम्
एकः पालयिता द्वौ वा बहवो वा भवन्ति चेत् । किं कर्तव्यं तदा तात विवादे समुपस्थिते
संशयाधिष्ठिते कार्ये मतिं नाहं करोम्यतः । मा चिन्तां कुरु राजेन्द्र देहि सुदर्शनाय माम्
विवाहं विधिना कृत्वा शं विधास्यति चण्डिका । यन्नामकीर्तनादेव दुःखौघो विलयं व्रजेत्
तां स्मृत्वा परमां शक्तिं कुरु कार्यमतन्द्रितः । गत्वा वद नृपेभ्यस्त्वं कृताञ्जलिपुटोऽद्य वै
आगन्तव्यञ्च श्वः सर्वैरिह भूपैः स्वयंवरे । इत्युक्त्वा त्वं विसृज्याशु सर्वं नृपतिमण्डलम्